________________
१८६
सूत्रकृताङ्ग सूत्रम् १/८/-/४२८
इदमुक्तं भवति यद्यपि सरागस्य कदाचिन्मानोदयः स्यात्तथाप्युदयप्राप्तस्य विफलीकरणं कुर्यादित्येवं मायायामप्यायोज्यं, पाठान्तरं वा 'सुयं मे इहमेगेसिं, एयं वीरस्स वीरियं येन बलेन सङ्गङ्ग्रामशिरसि महति सुभटसंकटे परानीकं विजयते तत्परमार्थतो वीर्यं न भवति, अपि तु येन कामक्रोधादीन् विजयते तद्वीरस्य महापुरुषस्य वीर्यम् ।
"इहैव' अस्मिन्नेव संसारे मनुष्यजन्मनि वैकेषां तीर्थकरादीनां सम्बन्धि वाक्यां मया श्रुतं, पाठान्तरं वा 'आयत सुआदाय, एवं वीरस्स वीरियं' आयतो-मोक्षोऽपर्यवसितावस्थानत्वात् सचासावर्थश्च तदर्थो वा तत्प्रयोजनो वा सम्यगदर्शनज्ञानचारित्रमार्ग स आयतार्थस्तं सुष्ठादायगृहीत्वा यो धृतिबलेन कामक्रोधादिजयाय च पराक्रमते एतद्वीरस्य वीर्यमिति यदुक्तमासीत् 'किं तु वीरस्य वीरत्व' मिति तद्यथा भवति तथा व्याख्यातं किञ्चान्यत् -
सातागौरवं नाम सुखशीलता तत्र निभृतः तदर्थमनुद्युक्त इत्यर्थः, तथा क्रोधाग्निजयादुपशान्तः-शीतीभूतः शब्दादिविषयेभ्योऽप्यनुकूलप्रतिकूलेभ्योऽरक्तद्विष्टतयोप- शान्तो जितेन्द्रियत्वात्तेभ्यो निवृत्त इति, तथा निहन्यन्ते प्राणिनः संसारे यया सा निह-माया न विद्यते सा यस्यासावनिहो मायाप्रपञ्चरहित इत्यर्थः, तथा मानरहितो लोभवर्जित इत्यपि द्रष्टव्यं स चैवम्भूतः संयमानुष्ठानं 'चरेत्' कुर्यादिति, तदेजं मरणकालेऽन्यदा वा पण्डितवीर्यवान् महाव्रतेषूद्यतः स्वात् । तत्रापि प्राणातिपातविरतिरेव गरीसीतिकृत्वा तत्प्रतिपादनार्थमाहउडूढमहे तिरियं वा जे पाणा तसथावरा । सव्वत्थविरतिं कुज्जा, संति निव्वाणमाहियं ॥
॥ १ ॥
[ अयं च श्लोको न सूत्रादर्शेषु दृष्टः, टीकायां तु द्दष्ट इतिकृत्वा लिखितः ], उत्तानार्थश्चेति । किञ्चमू. (४२९) पाणे य नाइवाएज्जा, अदिन्नंपिय नादए । सादियं न मुसं वूया, एस धम्मे खुसीमओ ॥
वृ. प्राणप्रियाणां प्राणिनां प्राणान्नातिपातयेत्, तथा परेणादत्तं दन्तशोधनमात्रमपि 'नाददीत' न गृह्णीयात्, तथा सहादिना - मायया वर्त्तत इति सादिकं समायं मृषावादं न ब्रूयात्, तथाहि परवञ्चनार्थं मृषावादोऽधिक्रियते, स च न मायामन्तरेण भवतीत्यतो मृषावादस्य माया आदिभूता वर्त्तते, इदमुक्तं भवति ।
यो हि परवञ्चनार्थं समायो मृषावादः स परिहियते यस्तु संयमगुप्त्यर्थं न मया मृगा उपलब्धा इत्यादिकः स न दोषायेति, एष यः प्राक् निर्द्दिष्टो धर्म - श्रुतचारित्राख्यः स्वभावो वा 'वुसीमउ' त्ति छान्दसत्वात्, निर्देशार्थस्त्वं वस्तूनि ज्ञानादीनि तद्वतो ज्ञानादिमत इत्यर्थः, यदिवावसीमउत्त वश्यस्य आत्मवशगस्य वश्येन्द्रियस्येत्यर्थः ॥
सू. (४३०)
अतिक्कम्मति वायाए, मनसा वि न पत्थए ।
सव्वओ संबुडे दंते, आयाणं सुसमाहरे ।।
वृ. अपिच प्राणिनामतिक्रमं पीडात्मकं महाव्रतातिक्रमं वा मनोऽवष्टब्धतया परतिरस्कारं वा इत्येवम्भूतमतिक्रमं वाचा मनसाऽपि च न प्रार्थयेत्, एतद्वयनिषेधे च कायातिक्रमो दूरत एव निषिद्धो भवति, तदेवं मनोवाक्कायैः कृतकारितानुमतिमिश्च नवकेन भेदेनातिक्रमं न कुर्यात् तथा सर्वतः सबाह्याभ्यन्तरतः संवृतो गुप्तः तथा इन्द्रियदमेन तपसा वा दान्तः सन् मोक्षस्य 'आदानम्' उपादानं सम्यग्दर्शनादिकं सुष्ठुयुक्तः सम्यग्विानेतसिकारहितः 'आहरेत्' आददीत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org