________________
श्रुतस्कन्धः-१, अध्ययनं-८,
१८५
धर्मसारमुपगच्छति, धर्मस्य वा सारंचारित्रं तत्प्रतिपद्यते, तत्प्रतिपत्तौ च पूर्वोपात्तकर्मक्षयार्थं पण्डितवीर्यसम्पन्नो रागादिबन्धनविमुक्तो बालवीर्यरहित उत्तरोत्तरगुणसम्पत्तये समुपस्थितोऽनगारः प्रवर्धमानपरिणामःप्रत्याख्यातं-निराकृतंपापक-सावद्यानुष्ठानरूपं येनासौ प्रत्याख्यातपापको भवतीति किञ्चान्यत्मू. (४२५) जंकिंचुवक.मंजाणे, आउक्खेमस्सं अप्पणो ।
तस्सेव अतरा खिप्पं, सिक्खं सिक्खेज्ज पंडिए। वृ. उपक्रम्यते-संवय॑ते क्षयमुपनीयते आयुर्येन स उपक्रमस्तं यं कञ्चन जानीयात्, कस्य ? -'आयुःक्षेमस्य' स्वायु, इति, इदमुक्तं भवति-स्वायुष्कस्य येन केनचिप्रकारेणोपक्रमो भावी यस्मिन् वा काले तत्परिज्ञाय तस्योपक्रमस्य कालस्य वा अन्तराले क्षिप्रमेवानाकुलो जीवितानाशंसी 'पण्डितो' विवेकी संलेखनारूपांशिक्षा भक्तपरिज्ञेङ्गितमरणादिकां वा शिक्षेत्, तत्र ग्रहणशिक्षया यथावन्मरणविधि विज्ञायाऽऽसेवनाशिक्षया त्वासेवेतेति । मू. (४२६) जहा कुम्मे सअंगाई, सए देहे समाहरे।
एवं पावाइं मेघावी, अज्झप्पेण समाहरे ।। वृ. किश्चान्यत्-'यथे त्युदाहरणप्रदर्शनार्थयथा 'कर्म कच्छपः स्वान्यङ्गानि-शिरोधरादीनि स्वके देहे 'समाहरेद्' गोपयेद्-अव्यापाराणि कुर्याद् एवम् अनयैव प्रक्रियया मेघावी' मर्यादावान् सदसद्विवेकी वा 'पापानि' पापरूपाण्यनुष्ठानानि 'अध्यात्मना' सम्यग्धर्मध्यानादिभावनया 'समाहरेत्' उपसंहरेत, मरणकाले चोपस्थिते सम्यक् संलेखनया संलिखितकायः पण्डितमरणेनात्मानं समाहरेदिति । संहरणप्रकारमाहमू. (४२७) साहरे हत्थपाए य, मणं पंचेदियाणि य।
पावकंच परीणाम, भासादोसंच तारिसं। वृ. पादपोपगमने इङ्गिनीमरणेभक्तपरिज्ञायां शेषकाले वा कूर्मवद्धस्तौ पादौ च 'संहरेद्' व्यापारान्निवर्तयेत्, तथा 'मनः' अन्तः-करणं तच्चाकुशलव्यापारेभ्यो निवर्तयेत्, तथा –
शब्दादिविषयेभ्योऽनुकूलप्रतिकूलेभ्योऽरक्तद्विष्टतया श्रोत्रेन्द्रियादीनि पञ्चापीन्द्रियाणि चशब्दः समुचये तथा पापकं परिणाममैहिकामुष्मिकाशंसारूपसंहरेदित्येवं भाषादोषंच 'ताद्दशं' पापरूपं संहरेत्, मनोवाक्कायगुप्तः सन् दुर्लभं सत्संयममवाप्य पण्डितमरणं वाऽशेषकर्मक्षयार्थं सम्यगनुपालयेदिति ।। मू. (४२८) अणु मानं च मायं च, तंपडिन्नाय पंडिए।
सातागारवणिहुए, उवसंते निहे चरे ।। वृ.तंचसंयमे पराक्रममाणं कश्चित्पूजासत्कारादिना निमन्त्रयेत्, तत्रात्मोत्कर्षोन कार्य इतिदर्शयितुमाह-चक्रवत्यादिना सत्कारादिना पूज्यमानेन अणुरपि स्तोकोऽपि मानः' अहङ्कारो नविधेयः, किमुतमहान्?, यदिवोत्तममरणोपस्थितेनोग्रतपोनिष्टप्तदेहेन वाअहोऽ-हमित्येवंरूपः स्तोकोऽपि गर्वो न विधेयः, तथा पण्डुरार्ययेव स्तोकाऽपि माया न विधेया
किमुत महती?, इत्येवं क्रोधलोभावपि न विधेयाविति, एवं द्विविधयापि परिज्ञया कषायांस्तद्विपाकांश्च परिज्ञाय तेभ्यो निवृत्तिं कुर्यादिति, पाठान्तरं वा 'अइमानं च मायं च, तं परिन्नाय पंडिए' अतीव मानोऽतिमानः सुभूमादीनामिव तं दुःखावहमित्येवं ज्ञात्वा परिहरेत्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org