________________
ex
ध्यानाध्ययनादावुद्यमं विधत्ते धर्मध्यानारोहणालम्बनायाह
‘भूयो भूयः' पौनःपुन्येन यद्बालवीर्यं तदतीतानागतानन्तभवग्रहणे षु दुःखमावासयतीति दुःखावासं वर्तते, यथा यथा च बालवीर्यवान् नरकादिषु दुःखावासेषु पर्यटति तथा तथा चास्याशुभाध्यवसायित्वादशुभमेव प्रवर्धते इत्येवं संसारस्वरूपमनुप्रेक्षमाणस्य धर्मध्यानं प्रवर्तत
इति ॥
सूत्रकृताङ्ग सूत्रम् १/८/-/४२१
पू. (४२२)
ठाणी विविहठाणाणि, चइस्संति न संसओ । अनियते अयं वासे, नायएहि सुहीहि य ॥
वृ. साम्प्रतमनित्यभावनामधिकृत्याह-स्थानानि विद्यन्ते येषां ते स्थानिनः, तद्यथा देवलोके इन्द्रस्तत्सामानिकत्रायस्त्रिंशत्पार्षद्यादीनि मनुष्येष्वपि चक्रवर्तिबलदेववासुदेवमहा-मण्डलिकादीनि तिर्यक्ष्वपि यानि कानिचिदिष्टानि भोगभूम्यादौ स्थानानितानि सर्वाण्यपि विधानिनानाप्रकाराण्युत्तमाधममध्यमानि ते स्थानिनस्त्यक्ष्यन्ति, नात्र संशयो विधेय इति, तथा चोक्तम् - " अशाश्वतानि स्थानानि, सर्वाणि दिवि चेह च । देवासुरमनुष्याणामृद्ध्यश्च सुखानि च ॥
॥ १ ॥
तथाऽयं 'ज्ञातिभिः' बन्धुभिः सार्धं सहायैश्च मित्रैः सुहृद्भिर्यः संवासः सोऽनित्योऽशाश्वत इति, तथा चोक्तम्
॥ १ ॥ ' सुचिरतरमुषित्वा बान्धवैर्विप्रयोगः सुचिरमपि हि रन्त्वा नास्ति भोगेषु तृप्ति । सुचिरमपि सुपुष्टं याति नाशं शरीरं, सुचिरमपि विचिन्त्यो धर्म एकः सहायः ।। इति, चकारौ धनधान्यद्विपदचतुष्पदशरीराद्यनित्यत्वभावनार्थौ अशरणाद्यशेषभावनार्थं चानुक्तसमुच्चयार्थमुपात्ताविति । अपि च
पू. (४२३)
एवमादाय मेहावी, अप्पणो गिद्धिमुद्धरे । आरियं उवसंपज्जे, सव्वधम्ममकोवि यं ॥
वृ. अनित्यानि सर्वाण्यपि स्थानानीत्येवम् 'आदाय' अवधार्य 'मेघावी' मर्यादाव्यवस्थितः सदसद्विवेकी वा आत्मनः सम्बन्धिनीं ' गृद्धिं' गाद्धर्यंममत्वम् 'उद्धरेद्' अपनयेत्, ममेदमहमस्य स्वामीत्येवं कचिचदपि न कुर्यात्, तथा आराद्यातः सर्वहयधर्मेभ्य इत्यार्यो मोक्षमार्ग सम्यग्दर्शनज्ञानचारित्रात्मकः ।
Jain Education International
आर्याणां वा तीर्थकृदादीनामयमार्यो-मार्गस्तम् 'उपसम्पद्येत' अधितिष्ठेत् समाश्रयेदिति, किम्भूतं मार्गमित्याह सर्वै कुतीर्थिकधर्मैः 'अकोपितो' अदूषितः स्वमहिम्नैव दूषयितुमशक्यत्वात् प्रतिष्ठां गतः यदिवा-सर्वैर्धर्मैः स्वभावैरनुष्ठानरूपैरगोपितं कुत्सितकर्त्तव्याभावात् प्रकटमित्यर्थः मू. (४२४) सह संमइए नञ्च्चा, धम्मसार सुणेत्तु वा ।
समुवट्टिए उ अनगारे, पच्चक्खायपावए ।
वृ. सुधर्मपरिज्ञानं च यथा भवति तद्दर्शयितुमाह-धर्मस्य सारः - परमार्थो धर्मसारस्तं 'ज्ञात्वा ' अवबुद्धय, कथमिति दर्शयति-सह सन्-मत्या स्वमत्या वा विशिष्टाभिनिबोधिकज्ञानेन श्रुतज्ञानेनावधिज्ञानेन वा, स्वपरावबोधकत्वात् ज्ञानस्य, तेन सह, धर्मस्य सारं ज्ञात्वेत्यर्थः ।
अन्येभ्यो वा - तीर्थकरगणधराचार्यादिभ्यः इलापुत्रवत् श्रुत्वा चिलातपुत्रवद्वा
For Private & Personal Use Only
www.jainelibrary.org