________________
श्रुतस्कन्धः -१, अध्ययनं. ८,
१८३
श्रिताः' कषायकलुषितान्तरात्मानः सदसद्विवेकविकलत्वात् बाला इव बालाः, ते चैवम्भूताः 'पापम्' असद्वेद्यं 'बहु' अनन्तं कुर्वन्ति' विदधति ।। एवं बालवीर्यं प्रदोपसंजिघृक्षुराहमू. (१९) एवं सकम्मवीरियं, बालाणं तु पवेदितं।
इत्तो अकम्मविरियं, पंडियाणं सुणेह मे ॥ वृ. 'एतत्' यत्प्राक्प्रदर्शितं, तद्यथा-प्राणिनामतिपातार्थं शस्त्रंशास्त्रं वा केचन शिक्षन्ते तथा परे विद्यामन्त्रान् प्राणिबाधकानधीयन्ते तथाऽन्ये मायाविनो नानाप्रकारां मायां कृत्वा कामभोगार्थमारम्भान् कुर्वते केचन पुनरपरे वैरिणस्तत्कुर्वन्ति येन वैरैरनुबध्यन्ते तथाहि ।
जमदग्निना स्वभार्याऽकार्यव्यतिकरे कृतवीर्यो विनाशितः, तत्पुत्रेण तु कार्तवीर्येण पुनर्जमदग्नि, जमदग्निसुतेन परशुरामेण सप्त वारान् निःक्षत्रा पृथिवी कृता, पुनः कार्तवीर्यसुतेन तुसुभूमेन त्रिसप्तकृत्वो ब्राह्मणा व्यापादिताः, तथा चोक्तम् - ॥१॥ “अपकारसमेन कर्मणा न नरस्तुष्टिमुपैति शक्तिमान् ।
अधिकां कुरु वै रियातनां द्विषतां जातमशेषमुद्धरेत् ॥ तदेवं कषायवशगाः प्राणिनस्तत्कुर्वन्ति येन पुत्रपौत्रादिष्वपि वैरानुबन्धो भवति, तदेतत्सकर्मणांबालानांवीर्यं तुशब्दाप्रमादवतांचप्रकर्षेण वेदितं प्रवेदितंप्रतिपादितमितियावत्, अत ऊर्ध्वमकर्मणां-पण्डितानां यद्वीर्यं तन्मे-मम कथयतः शृणुत यूयमिति। मू. (०२०) दब्बिए बंधगुम्मुक्के, सब्बओ छिन्नबंधणे।
पणोल्ल पावकं कम्म, सल्लं कंतति अंतसो।। वृ. यथाप्रतिज्ञातमेवाह-'द्रव्यो' भव्यो मुक्तिगमनयोग्यः 'द्रव्यं च भव्य' इति वचनात् रागद्वेषविरहाद्वा द्रव्यभूतोऽकषायीत्यर्थः, यदिवा वीतराग इव वीतरागोऽल्पकषाय इत्य:, तथा चोक्तम्॥१॥ "किं सक्का बोत्तुंजे सरागधम्ममि कोइ अकसायी।
संतेवि जो कसाए निगिण्हइ सोऽवि तत्तुल्लो। सच किम्भूतो भवतीति दर्शयति-बन्धनात्-कषायामकान्मुक्तो बन्धनोन्मुक्तः, बन्धनत्वं तु कषायाणां कर्मस्थितिहेतुत्वात्, तथा चोक्तम् -
"बंधट्टिई कसायवसा" कषायवशात् इति, यदिवा-बन्धनोन्मुक्त इव बन्धनोन्मुक्तः, तथाऽपरः सर्वतः सर्वप्रकारेण सूक्ष्मबादररूपं छिन्नम्' अपनीतं 'बन्धन' कषायात्मकं येन स छिन्नबन्धनः, तथा 'प्रणुध' प्रेर्य 'पाप' कर्म कारणभूतान्वाऽऽश्रवानपनीय शल्यवच्छल्यं-शेषकं कर्म तत् कुन्तति-अपनयति ।
अन्तशो-निरवशेषतो विघटयि, पाठान्तरंवा 'सलं कंतइ अप्पणो'त्ति शल्यभूतंयदष्टप्रकारं कर्म तदात्मनः सम्बन्धि कृन्तति-छिनत्तीत्यर्थः । यदुपादाय शल्यमपनयति तद्दर्शयितुमाहमू. (४२१) नेयाउयं सुयक्खायं, उवादाय समीहए।
भुजो भुज्जो दुहावासं, असुहत्तंतहा तहा॥ वृ. नयनशीलो नेता, नयतेस्ताच्छीलिकस्तृन्, स चात्र सम्यगदर्शनज्ञानचारित्रात्मको मोक्षमार्गः श्रुतचारित्ररूपो वा धर्मो मोक्षनयनशीलत्वात् गृह्यते, तंमार्ग धर्म वा मोक्षं प्रति नेतारं सुष्टु तीर्थकरादिभिराख्यातं स्वाख्यातं तम् ‘उपादाय' गृहीत्वा 'सम्यक्' मोक्षाय ईहते-चेष्टते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org