________________
श्रुतस्कन्धः - २, अध्ययन-६,
४१९
-
प्रतिपाद्यत इति । निक्षेपस्त्रिधा-तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने निक्षेपे त्वार्द्रकीयं, तत्रार्द्रपदनिक्षेपार्थं नियुक्तिकृदाहनि. [१८४] नामंठवणाअई दव्वदं चेव होइ भावई ।
एवो खलु अद्दस्स उ निक्लेवो चउविहो होइ ।। वृ. नामस्थापनाद्रव्यभावभेदाश्चतुर्धाऽऽर्द्रकस्यनिक्षेपो द्रष्टव्यः, तत्रनामस्थापनेअनाध्त्य द्रव्याप्रतिपादनार्थमाह-तत्त्र द्रव्याद्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः 'अनुपयोगो द्रव्य'मितिकृत्वा नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तं । नि. [१८५] उदगई सारदं छवियद्द वसद्द तहा सिलेसई ।
एवं दव्वदं खलु भावेणं होइ रागई ॥ वृ.यदुदकेन मृत्तिकादिकंद्रव्यमार्दीकृतंतदुदका, सारार्द्रतुयब्दहिःशुष्काकारमप्यन्तर्मध्ये सार्द्रमास्ते यथा श्रीपर्णीसोवर्चलादिकं छविअई तुयस्निग्धत्वगद्रव्यंमुक्ताफलरक्ताशोकादिकं तदभिधीयते, वसयोपलिप्तं वसा, तथा श्लेषा वज्रलेपाद्युपलिप्तं स्तम्भकुड्यादिकं यदव्यं तल्सिग्धाक रतया श्लेषामित्याभिधीयते, एतत्सर्वमप्युदकादिकं द्रव्यामेवाभिधीयते, खलुशब्दस्यैवकारार्थत्वात् । भावार्द्र तु पुनः रागः-स्नेहोऽभिष्वङ्गस्तेन्द्रिं यजीवद्रव्यं तद्भावामित्यभिधीयते । साम्प्रतमार्द्रककुमारमधिकृत्यान्यथा द्रव्या प्रतिपादयितुमाह - नि. [१८६] एगभवियबद्धाउए य अभिमुहए य नामगोए य।
एते तिन्नि पगारा दव्वद्दे होंति नायव्वा ।। वृ. एकेन भवेन यो जीवः स्वगदिरागत्याककुमारत्वेनोत्पत्स्यते तथा ततोऽप्यासन्नतो बद्धायुष्कः तथा ततोऽप्यासन्नतमोऽभिमुखनामगोत्रोः योऽनन्तरसमयमेवाकत्वेन समुत्पत्स्यते, एतेच त्रयोऽपि प्रकारा द्रव्याके द्रष्टव्या इति । नि. [१८७] अद्दपुरे अद्दसुतो नामेणं अद्दसोत्ति अनगारो।
तत्तो समुट्ठियमिणं अज्झयणं अद्दइज्जति ।। वृ.साम्प्रतंभावाकमधिकृत्याह-आर्द्रकायुष्कनामगोत्राण्यनुभवन् भावार्दोभवति, यद्यपि शङ्गवेरादीनामप्याकसंज्ञाव्यवहारोऽस्तितथापि नेदमध्ययनंतेभ्यः समुत्थितमतोनतैरिहाधिकारः, किंत्वार्द्रककुमारानगारात्समुत्थिमतस्तेनैवेहाधिकार इतिकृत्वा तद्वक्तव्यताऽभिधीयते। एतदेव नियुक्तिकृदाह-अस्याः समासेनायमर्थ-आर्द्रकपुरे नगरे आर्द्रको नाम राजा, तत्सुनोऽप्याकाभिधानः कुमारः, तद्वंशजाः किल सर्वेऽप्यारर्द्रकाभिधाना एव भवन्तीतिकृत्वा, स चानगारः संवृत्तः, तस्य च श्रीमन्महावीर वर्द्धमानस्वामिसमवसरणावसरे गोशालकेनसार्द्ध हस्तितापसैश्व वादोऽभूत,तेन चतेएतदध्ययनार्थोपन्यासेन पराजिताअत इदमभिधीयते-'ततः' तस्मादाकासमुत्थितमिद-मध्ययनमार्द्रकीयमिति गाथासमासार्थः । व्यासार्थतुस्वत एव नियुक्तिकृदाकपूर्वभवोपन्यासेनोत्तरत्र कथयिष्यतीति । ननु च शाश्वतमिदं द्वादशाङ्गमपि गणिपिटकम् आर्द्रककथानकं तु श्रीवर्द्धमानतीर्थावसरे तत्कथमस्य शाश्वतत्वमित्याशङ्कयाह । नि. [१८८] कामं दुवालसंगं जिनवयणं सासयं महाभागं ।
सव्वज्झयणाइंतहा सव्वक्खरसन्निवायाय॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org