SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २५४ सूत्रकृताङ्ग सूत्रम् १/१३/-1५६० मानविपाकमपदाधुना क्रोधादिकषायदोषमुद्भावयितुमाहमू. (५६१) जे कोहणे होइ जगट्ठभासी, विओसियं जे उ उदीरएजा। अंधे व से दंडपहं गहाय, अविओसिए धासति पावकम्मी। वृ. यो ह्यविदितकषायविपाकः,प्रकृत्यैव क्रोधनोभवतितथा 'जगदर्थभाषी' यश्च भवति, जगत्यर्था जगदा ये यथा व्यवस्थिताः पदार्थास्तानाभाषितुं शीलमस्य जगदर्धभाषी, तद्यथाब्राह्मणं डोडमिति ब्रूयात्तथा वणिज किराटमिति शूद्रमाभीरमिति श्वपाकंचाण्डालमित्यादितथा काणं काणमिति तथा खझं कुब्जं वडभमित्यादि तथा कुष्ठिनं क्षयिणमित्यादि यो यस्य दोषस्तं तेन खरपरुषं ब्रूयात् यः स जगदर्थभाषी, यदिवा जयार्थभाषी यथैवाऽऽत्मनो जयो भवति तथैवाविद्यमानमप्यर्थं भाषते तच्छीलश्च-येन केनचिप्रकारेणसदर्थभाषणेनाप्यात्मनो जयमिच्छतीत्यर्थः। _ विओसिय'ति विविधमवसितंवर्यवसितमुपशान्तं द्वन्द्वं-कलहंयःपुनरप्युदीरयेत्, एतदुक्तं भवति-कलहकारिमिर्मिथ्यादुष्कृतादिना परस्परंक्षामितेऽपितत्तद्ब्रूयाद्येन पुनरपितेषां क्रोधोदयो भवति। साम्प्रतमेतद्विपाकं दर्शयति-यथा ह्यन्धः-चक्षुर्विकलो ‘दण्डपथ गोदण्डमार्ग प्रमुखोज्ज्वलं 'गृहीत्वा' आश्रित्य व्रजन सम्यगकोविदतया धृष्यते' कण्टकश्वापदादिभिः पीङ्यते, एवमसावपि केवलं लिङ्गधार्यनुपशान्तक्रोधः कर्कशभाष्यधिकरणोद्दीपकः, तथा अविओसिए'त्ति अनुपशान्तद्वन्द्वः पापम् अनार्यं कर्म-अनुष्ठानं यस्यासौपापकर्मा धृष्यते चतुर्गतिके संसारे यातनास्थानगतः पौनःपुन्येन पीड्यत इति ॥ मू. (५६२) जे विग्गहीए अन्नायभासी, नसे समे होइ अझंझपत्ते । उवायकारी य हरीमणे य, एगंतदिट्ठी य अमाइरूवे ॥ वृ. किञ्चान्यत्-यः कश्चिदविदितपरमार्थो विग्रहो-युद्धंस विद्यतेयस्यासौ विग्रहिको यद्यपि प्रत्युपेक्षणादिकाः क्रिया विधत्तेतथापियुद्धप्रियः क्वचिद्भवति तथाऽन्याय्यं भाषितुंशीलमस्य सोऽन्याय्यभाषी यत्किञ्चनभाष्यस्थानभाषी गुर्वाद्यधिक्षेपकरो वा यश्चैवंभूतो नासौ 'समो' रक्तद्विष्टतया मध्यस्थो भवति, तथा नाप्यझञ्झां प्राप्तः-अकलहप्राप्तो वा न भवत्यमायाप्राप्तो वा, यदिवा अझञ्झाप्राप्तैः-अकलहप्राप्तैः सम्यगद्दष्टिभिरसौ समो न भवति यतः अतो नैवंविधन भाव्यम, अपि त्वक्रोधनेनाकर्कशभाषिणा चोपशान्तयुद्धानुदीरकेण न्याय्यभाषिणाऽझञ्झाप्राप्तेन मध्यस्थेन च भाव्यमिति । __ एवमनन्तरोद्दिष्टदोषी सन्नुपपातकारी-आचार्यनिर्देशकारी-यथोपदेशं क्रियासु प्रवृत्तः यदिवा 'उपायकारित्ति सूत्रोपदेशप्रवर्तकः, तथा हीः-लज्जा संयमो मूलोत्तरगुणभेदभिन्नस्तत्र मनो यस्यासौ टीमनाः, यदिवा-अनाचारं कुर्वन्नाचार्यादिभ्यो लज्जते स एवमुच्यते, तथैकान्तेन तत्त्वेषु-जीवादिषु पदार्थेषु द्दष्टिर्यस्यासावेकान्तष्टिः, पाठान्तरं वा “एगंतसड्ढि'त्ति एकान्तेन श्रद्धावान् मौनीन्द्रोक्तमार्गे एकान्तेन श्रद्धालुरित्यर्थः, चकारः पूर्वोक्तदोषविपर्यस्तगुणसमुच्चयार्थः तद्यथा-ज्ञानापलिकुञ्चकोऽक्रोधीत्यादि तावदझञ्झाप्राप्त इति, स्वत एवाह अमाइसवे'त्ति अमायिनो रूपं यस्यासावमायिरूपोऽशेषच्छद्मरहित इत्यर्थः, नगुर्वादीन्छद्मनोपचरति नाप्यन्येन केनचित्सार्धं छद्मव्यवहारं विधत्त इति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy