________________
श्रुतस्कन्धः - १, अध्ययनं - १३,
२५३
वृ. किञ्च विविधम्- अनेकप्रकारं शोधितः कुमार्गप्ररूपणापनयनद्वारेण निर्दोषतां नीतो विशोधितः सम्यगदर्शनज्ञानचारित्राख्यो मोक्षमार्गस्तमेवंभूतं मोक्षमार्गं 'ते' स्वाग्रहग्रहग्रस्ता गोष्ठामा हिलवदनु-पश्चादाचार्यप्ररूपणातः कथयन्ति - अनुकथयन्ति ।
ये चैवंभूता आत्मोत्कर्षात्स्वरुचिविरचितव्याख्याप्रकारव्यामोहिता 'आत्मभावेन' स्वाभिप्रायेणाचार्यपारम्पर्येणायातमप्यर्थं व्युदस्यान्यथा 'व्यागृणीयुः' व्याख्यानयेयुः, ते हि गम्भीराभिप्रायं सूत्रार्थं कर्मोदयात्पूर्वापरेण यथावत्परिणामयितुमसमर्थाः पण्डितमानिन उत्सूत्रं प्रतिपादयन्ति। आत्मभावव्याकरणंच महतेऽनर्थायेति दर्शयति- 'स' एवंभूतः स्वकीयाभिनिवेशाद् 'अस्थानिकः' अनाधारो बहूनां ज्ञानादिगुणानामभाजनं भवतीति, ते चामी गुणाः । "सुस्सूसइ पडिपुच्छइ सुणेइ गेण्हइ य ईहए आवि । तत्तो अपोहए वा धारेइ करेइ वा सम्मं ॥
#19 11
यदिवा गुरुशुश्रूषादिना सम्यगज्ञानावगमस्ततः सम्यगनुष्ठानमतः सकलकर्मक्षयलक्षणो मोक्ष इत्येवंभूतनां गुणानामनायतनमसौ भवति, क्वचित्पाठ:- 'अट्टाणिए होंति बहूनिवेस 'त्ति अस्यायमर्थः-अस्थानम्-अभाजनमपात्रमसौ भवति सम्यगज्ञानादीनां गुणानां, किंभूतो ? - बहु:अनर्थसंपादकत्वेनासदभिनिवेशों यस्य स बहुनिवेशः, यदिवा - गुणानामस्थानिकः - अनाधारो बहूनां दोषाणां च निवेशः-स्थानम् आश्रय इति ।
किंभूताः पुनरेवं भवन्तीति दर्शयति-ये केचन दुर्गृहीतज्ञानलवालेपिनो ज्ञाने श्रुतज्ञाने शङ्का ज्ञानशङ्का तया मृषावादं वदेयुः, एतदुक्तं भवति-सर्वज्ञप्रणीते आगमे शङ्कां कुर्वन्ति, अयं तत्प्रणीत एव न भवेद् अन्यथा वाऽस्यार्थः स्यात्, यदिवा ज्ञानशङ्कया पाण्डित्याभिमानेन मृषावादं वदेयुर्यथाऽहं ब्रवीमि तथैव युज्यते नान्यथेति ॥
मू. (५६०) जे यावि पुट्ठा पलिउंचयंति, आयाणमठ्ठे खलु वंचयित्ता । असाहुणी ते इह साहुमाणी, मायण्णि एसंति अनंतघातं ॥
वृ. किञ्चान्यत्-ये केचनाविदितपरमार्थाः स्वल्पतया समुत्सेकिनोऽपरेण पृष्टाःकस्मादाचार्यात्सकाशादधीतं श्रुतं भवद्भिरिति, ते तु स्वकीयमाचार्यं ज्ञानावलेपेन निहनुवाना अपरं प्रसिद्धं प्रतिपादयन्ति, यदिवा मयैवैतत्स्वत उत्प्रेक्षितमित्येवं ज्ञानावलेपात् 'पलिउंचयंति' त्ति निवते, यदिवा-सदपि प्रमादस्खलितमाचार्यादिनाऽऽलोचनादिके अवसरे पृष्टाः सन्तो मातृस्थानेनावर्णवादभयान्निहुवते । त एवं पलिकुञ्चिका निह्नवं कुर्वाणा आदीयत इत्यादानं - ज्ञानादिकं मोक्षो वा तमर्थं वञ्चयन्ति-भ्रंशयन्त्यात्मनः, खलुरवधारणे वञ्चयन्त्येव ।
एवमनुष्ठायिनश्चासाधवस्ते परमार्थतस्तत्त्वचिन्तायाम् 'इह' अस्मिन् जगति साधुविचारे वा 'साधुमानिन' आत्मोत्कर्षात् सदनुष्ठानमानिनो मायान्वितास्ते 'एष्यन्ति' यास्यन्ति 'अनन्तशो' बहुशो 'घातं ' विनाशं संसारं वा अनवदग्रं संसारकान्तारमनुपरिवर्तयिष्यन्तीति, दोषद्वयदुष्टत्वात्तेषाम् एकं तावत्स्वयमसाधवो द्वितीयं साधुमानिनः, उक्तंच -
119 11
"पाचं काऊण सयं अप्पाणं सुद्धमेव वाहरइ ।
दुगुणं करेइ पावं बीयं बालस्स मंदत्तं ॥ तदेवमात्मोत्कर्षदोषाद्बोधिलाभमप्युहत्यानन्तसंसारभाजो भवन्त्यसुमन्त इति स्थितम् ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International