SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २९२ सूत्रकृताङ्ग सूत्रम् २/-/-/६३२/४/ नि. [१४९] तथा चक्रवर्तिनः षटखण्डभरतेश्वराः तथा चारणश्रमणा बहुविधाश्चर्यभूतलब्धिकलापोपेता महात- पस्विनः तथा विद्याधरा वैताढ्यपुराधिपतयः तथा दशारा हरिवंशकुलोद्भवाः, अस्य चोपलक्षणार्थत्वादन्येऽ पीक्ष्वाक्वादयः परिगृह्यन्ते, एतदेव दर्शयति-ये चान्ये महर्धिमन्तो महेभ्याः कोटीश्वरास्ते सर्वेऽपि पौण्डरीका भवन्ति, तुशब्दस्यानुक्तसमुच्चयार्थत्वात्, ये चान्ये विद्याकलाकलापोपेतास्ते पौण्डरीका इति । नि. [१५० ] भवणवइवाणमंरजोतिसवेमाणियाण देवाणं । जे तेसिं पवरा खलु ते होति पुंडरीया उ ॥ वृ. साम्प्रतं देवगतौ प्रधानस्य पौण्डरीकत्वं प्रतिपादयन्नाह - 'भवणे' त्यादि, भवनपतिव्यन्तरज्योतिष्कवैमानिकानां चतुर्णा देवनिकायानां मध्ये ये प्रवराः - प्रधाना इन्द्रेन्द्रसामानिकादयस्ते प्रधाना इतिकृत्वा पौण्डरीकाभिधाना भवन्ति । नि. [१५१] कंसाणंदूसाणं मणिमोत्तियसिलपवालमादीणं । जे अ अचित्ता पवरा ते होंति पोंडरीया उ ॥ वृ. साम्प्रतमचित्तद्रव्याणां यत्प्रधानं तस्य पौण्डरीकत्व - प्रतिपादनायाह- 'कंसणा' मित्यादि, कांस्यानां मध्ये जयघण्टादीनि दूष्याणां चीनांशुकादीनि मणीनामिन्द्रनीलवैडूर्यपद्मरागादीनि रत्नानि मौक्तिकानां यानि वर्णसंस्थानप्रमाणाधिकानि तथा शिलानां मध्ये पाण्डुकम्बलादयः शिलास्तीर्थकुज्जन्माभिषेकसिंहासनाधाराः, तथा प्रवालानां यानि वर्णादिगुणोपेतानि, आदिग्रहणाजात्यचामीकरं तद्विकाराश्चाभरणविशेषाः परिगृह्यन्ते, तदेवमनन्तरोक्तानि कांस्यादीनि यानि प्रवराणि तान्यचित्तपौण्डरीकाण्यभिधीयन्त इति । मिश्रद्रव्यपौण्डरीकं तु तीर्थकृच्चक्रवत्यार्दय एव प्रधानकटककेयूराद्यलङ्कारालङ्कृता इति, द्रव्यपौण्डरीकानन्तरं क्षेत्रपौण्डरीकामिधित्सयाऽऽह नि. [१५२] जाई खेत्ता खलु सुहाणुभावाई होति लोगंमि । देवकुरुमादियाई ताई खेत्ताइं पवराई ।। वृ. 'खित्तानी' त्यादि, यानि कानित्तिदिह देवकुर्वादीनि शुभानुभावानि क्षेत्राणि तानि प्रवराणि पौण्डरीकाभिधानानि भवन्ति ॥ साम्प्रतं कालपौण्डरीकप्रतिपादनायाह । नि. [१५३] जीवा भवट्टितीए कायठितीए य होति जे पवरा । ते होंति पोडरीया अवसेसा कंडरीया उ ।। घृ. 'जीवाः' प्राणिनो भवस्थित्या कायस्थित्या च ये 'प्रवराः' प्रधानास्ते पौण्डरीका भवन्ति, शेषास्त्वप्रधानाः कण्डरीका इति, तत्र भवस्थित्या देवा अनुत्तरोपपातिकाः प्रधाना भवन्ति, तेषां यावद्भवं शुभानुभावत्वात्, कायस्थित्या तु मनुष्याः शुभकर्मसमाचाराः सप्ताष्टभवग्रहणानि मनुष्येषु पूर्वकोट्यायुष्केष्वनुपरिवर्त्यानन्तरभवे त्रिपल्योपमायुष्केषूत्पादमनुभूय ततो देवेषूत्पद्यन्त इतिकृत्वा ततस्ते कायस्थित्या पौण्डरीका भवन्ति, अवशिष्टास्तु कण्डरीका इति । कालपौण्डरीकानन्तरं गणनासंस्थानपौण्डरीकद्वयप्रतिपादनायाह नि. [१५४] गणणाए रज्जू खलु संठाणं चैव होति चउरंसं । एयाइं पोंडरीगाई होति सेसाई इयराई ॥ वृ. गणनया-सङ्ख्यया पौण्डरीकं चिन्त्यमानं दशप्रकारस्य गणितस्य मध्ये 'रज्जु' रज्जुगणितं For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy