________________
२८८
सूत्रकृताङ्ग सूत्रम् १/१६/-/६३२/३ तप्रतिषेधात्तपोनिर्जरामदमपि न विधत्ते । विनीतात्मतया प्रश्रयवान् यतः, एतदेवाहविनयालङ्क तो गुर्वादावादेशदानोद्यतेऽन्यदा वाऽऽत्मानं नामयतीति नामकः-सदा गुर्वादौ प्रहो भवति, विनयेन वाऽष्टप्रकारं कर्म नामयति, वैयावृत्त्योद्यतोऽशेषं पापमपनयतीत्यर्थ ।
तथा 'दान्तः' इन्द्रियनोइन्द्रियाभ्यां, तथा 'शुद्धात्मा' शुद्धद्रव्यभूतो निष्प्रतिकर्मतया 'व्युत्सृष्टकायश्च परित्यक्तदेहश्च यत्करोतितद्दर्शयति-सम्यक् 'विधूय' अपनीय विरूपरूपान्' नानारूपाननुकूलप्रतिकूलान्-उच्चावचान् द्वाविंशतिपरीषहान् तथा दिव्यादिकानुपसर्गाश्चेति, तद्विधूननं तु यत्तेषां सम्यक् सहन-तैरपराजितता, परीषहोपसगाँश्च विधूयाध्यात्मयोगेनसुप्रणिहितान्तःकरणतया धर्मध्यानेन शुद्धम् अवदातमादानं-चारित्रं यस्य स शुद्धादानो भवति
तथा सम्यगुत्थानेन-सच्चारित्रोद्यमेनोत्थितः तथा स्थितो-मोक्षाध्वनि व्यवस्थितः परीषहोपसर्गरप्यधृष्य आत्मा यस्य स स्थितात्मा, तथा 'संख्याय' परिज्ञायासारतां संसारस्य दुष्पाप तां कर्मभूमेर्बोधेः सुदुर्लभत्वं चावाप्यच सकलां संसारोत्तरणसामग्री सत्संयमकरणोद्यतः परैः-गृहस्थैरात्मार्थनिर्वर्तितमाहारजातं तैर्दत्तं भोक्तुंशीलमस्य परदत्तभोजी, सएवंगुणकलितो भिक्षुरिति वाच्यः । तथाऽत्रापि गुणगणे वर्तमानो निर्ग्रन्थ इति वाच्यः, अभी चान्ये अपदिश्यन्ते, तद्यथा--
मू. (६३२/४) एस्थविनिग्गथे एगेएगविऊबुद्धे संछिन्नसोएसुसंजते सुसमितेसुसामाइए आयवायपत्तेविऊ दुहओवि सोयपलिच्छिन्ने नो पूयासकारलाभट्ठीयम्मट्ठी धम्मविऊ नियागपडि वन्नेसमिय चरे दंते दविए वोसट्टकाए निग्गंथेत्ति वच्चे से एवमेव जाणह जमहं भयंतारो। तिबेमि
वृ. एको रागद्वेषरहिततयाओजाः, यदिवाऽस्मिन्संसारचक्रवालेपर्यटन्नसुमान्स्वकृतसुखदुःखफलमाक्त्वेनैकस्यैव परलोकगमनतया सदैककएव भवति। तत्रोद्यतविहारी द्रव्यतोऽप्येकको भावतोऽपि, गच्छान्तर्गतस्तु कारणिको द्रव्यतो भाज्यो भावतस्त्वेकक एव भवति । तथैकमेतात्मानं परलोकगामिनं वेत्तीत्येकवित्, न मे कश्चिदुःखपरित्राणकारी सहायोऽस्तीत्येवमेकवित, यदिवैकान्तविदएकान्तेन विदितसंसारस्वभावतया मौनीन्द्रमेव शासनं तथ्यं नान्यदित्येवं वेत्तीत्येकान्तवित्, अथवैको-मोक्षः संयमो वा तं वेत्तीति, तथा बुद्धः-अवगततत्त्वः सम्यक् छिन्नानि-अपनीतानि भावस्रोतांसि-संवृतत्वात्कर्माश्रवद्वाराणियेन सतथा, सुष्ठुसंयतःकूर्मवत्संयतगात्रो निरर्थककायक्रियारहितः सुसंयतः, तथा सुष्टुपञ्चभिः समितिभिः सम्यगितःप्राप्तो ज्ञानादिकं मोक्षमार्गमसौ सुसमितः, तथा सुष्टु समभावतया सामायिक-समशत्रुमित्रभावो यस्य स सुसामायिकः।
तथाऽऽत्मनः-उपयोगलक्षणस्य जीवस्यासंख्येयप्रदेशात्मकस्य संकोचविकाशभाजः स्वकृतफलभुजः प्रत्येकसाधारणशरीरतया व्यवस्थितस्य द्रव्यपर्यायतया नित्यानित्याद्यनन्तधत्मिकस्य वा वाद आत्मवादस्तं प्राप्त आत्मवादप्राप्तः, सम्यग्यथावस्थितात्मस्वतत्त्ववेदीत्यर्थः। तथा विद्वान्' अवगतसर्वपदार्थस्वभावोनव्यत्ययेन पदार्थानवगच्छति।ततोयत् कैश्चिदभिधीयते, तद्यथा-एक एवात्मा सर्वदार्थस्वभावतया विश्वव्यापी श्यामाकतण्डुलमात्रऽङ्गुष्ठपर्वपरिमाणो वेत्यादिकोऽसद्भताभ्युपगमः परिहृतो भवति, तथाविधात्मसद्भावप्रतिपादकस्य प्रमाणस्याभावादित्यभिप्रायः।
तथा 'द्विधाऽपी'तिद्रव्यतो भावतश्च, तत्रद्रव्यस्रोतांसियथास्वं विषयेष्विन्द्रियप्रवृत्तयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org