________________
श्रुतस्कन्धः-१, अध्ययनं-१६,
२८७
॥१॥ नत्थि न निच्चो न कुणइ कयं न वेएइ नस्थि निव्वाणं ।।
नत्थिय मोक्खोवाओ छम्मिच्छत्तस्स ठाणाइं॥ इत्यादि, एतदेवशल्यं तस्मिंस्ततो वा विरतइति, तथासम्यगितः समितः-ईर्यासमित्यादिभिः पञ्चभिः समितिभिः समित इत्यर्थः, तथा सह हितेन परमार्थभूतेन वर्तत इति सहितः, यदिवा सहितो-युक्तो ज्ञानादिभि तथा 'सदा' सर्वकालं 'यतः' प्रयतः सत्संयमानुष्ठाने तदनुष्ठानमपिन कषायैर्निसारीकुर्यादित्याह-कस्यचिदप्यपकारिणोऽपिन क्रुध्येत-आकुष्टः सन्त्र क्रोधवशगोभूयात्, नापि मानी भवेदुष्कृष्टतपोयुक्तोऽपिन गर्वं विदध्यात्, तथा चोक्तम् - ॥१॥ "जइ सोऽवि निजरमओ पडिसिद्धो अट्ठमाणमहणेहिं।
अवसेस मयट्ठाणा परिहरियव्वा पयत्तेणं ।। अस्यचोपलक्षणार्थत्वाद्रागोऽपि मायालोभात्मकोन विधेय इत्यादिगुणकलितः साधुर्माहन इति निशङ्ख वाच्य इति साम्प्रतं श्रमणशब्दस्य प्रवृत्तिनिमित्तमुद्भावयन्नाह
मू. (६३२/२) एत्थवि समणे अनिस्सिए अनियाणे आदाणंच अतिवायं च मुसावायं च बहिद्धं च कोहं च माणं च मायं च लोहं च पिजंच दोसंच इच्छेव जओ जओ आदानं अप्पणो पदोसहेऊ तओ तओ आदाणातो पुव्वं पडिविरते पाणाइवाया सिआदते दविए वोसट्टकाए समणेत्ति बच्चे।
वृ.अत्राप्यनन्तरोक्तेविरत्यादिकेगुणसमूहे वर्तमानः श्रमणोऽपिवाच्यः एतद्गुणयुक्तेनापि भाव्यमित्याह-निश्चयेनाधिक्येन वा “श्रितो' निश्रितः न निश्रोतोऽनिश्रितः-क्वचिच्छरीरादावप्यप्रतिबद्धः, तथा न विद्यते निदानमस्येत्यनिदानो-निराकाङ्क्षोऽशेषकर्मक्षयार्थी संयमानुष्ठाने प्रवर्तेत, तथाऽऽदीयते-स्वीक्रियतेऽष्टप्रकारं कर्म येन तदादानं-कषायाः परिग्रहः सावद्यानुष्ठान वा,तथाऽतिपातनमतिपातः,प्राणातिपात इत्यर्थः,तंचप्राणातिपातंज्ञपरिक्षयाज्ञात्वाप्रत्याख्यानपरिज्ञया परिहरेद्, एवमन्यत्रापि क्रिया योजनीया । तथा मृषा-अलीको वादो मृषावादस्तं च, तथा 'बहिद्धंतिमैथुनपरिग्रहौ तौ च सम्यक् परिज्ञाय परिहरेत्।
उक्ता मूलगुणाः, उत्तरगुणानधिकृत्याह-क्रोधम्-अप्रीतिलक्षणं मानं-स्तम्भात्मकं मायां च-परवञ्चनात्मिकां लोभ-मूछस्विभावं तथा प्रेम-अभिष्वङ्गलक्षणं तथा द्वेष-स्वपरात्मनोबोधारूपमित्यादिकं संसारावतरणमार्ग मोक्षाध्वनोऽपध्वंसकं सम्यक् परिज्ञाय परिहरेदिति । एवमन्यस्मादपि यतो यतः कर्मोपादानाद्-इहामुत्र चानर्थहतोरात्मनोऽपायं पश्यति प्रद्वेषहेतूंश्च ततस्ततः प्राणातिपातादिकादनर्थदण्डादादानात् पूर्वमेव-अनागतमेवात्महितमिच्छन्प्रतिविरतो भवेत्-सर्वस्मादनहेतुभूतादुभयलोकविरुद्धाद्वा सावद्यानुष्ठानान्मुमुक्षुर्विरतिं कुर्यात् । यश्चैवंभूतो दान्तः शुद्धो द्रव्यभूतो निष्प्रतिकर्मतया व्युत्सृष्टकायः स श्रमणो वाच्यः ।
मू. (६३२/३) एत्थवि भिक्खू अणुनए विणीए नामए दंते दविए बोसट्टकाए संविधुणीय विरुवरूवे परीसहोवसग्गे अज्झप्पजोगसुद्धादाने उवहिएठिअप्पा संखाएपरदत्तभोई भिक्खूत्ति वच्चे।
वृ. साम्प्रतं भिक्षुशब्दस्य प्रवृत्तिनिमित्तमधिकृत्याह-'अत्रापी'ति, ये ते पूर्वमुक्ताः पापकर्मविरत्यादयो माहनशब्दप्रवृत्तिहेतवोऽत्रापि भिक्षुशब्दस्य प्रवृत्तिनिमित्तेत एवावगन्तव्याः, अमीचान्येतद्यथा-नउन्नतोऽनुनतः, तत्रद्रव्योन्नतः शरीरेणोच्छ्रितःभावोत्रतस्त्वभिमानग्रहग्रस्तः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
W