________________
श्रुतस्कन्धः-२, अध्ययनं-१,
२९९
घुइए, जणजाणवयं च खलु मए अप्पाहढ समणाउसो! ते बहवे पउमवरपोंडरीए बुइए, रायाणं च खलु मए अप्पाहटुसमणाउसो! से एगे महं पउमवरपोंडरीए बुइए, अन्नउत्थियाय खलु मए अप्पाहटु समणाउसो!
ते चत्तारि पुरिसजाया बुइया, धम्मंच खलु मए अप्पाहटु समणाउसो! से भिक्खु वुइए, धम्मतित्थं च खलु मए अप्पाहटु समणाउसो ! से तीरे बुइए, धम्मकहं खलु मए अप्पाहट समणाउसो! से सद्दे बुइए, निव्वाणं च खलु मए अप्पाहड समणाउसो ! से उप्पाए बुइए, एवमेयं चखलु मए अप्पाहटु समणाउसो ! से एवमेयं बुइयं।
वृ. लोकमिति मनुष्यक्षेत्रं, चशब्द उत्तरापेक्षया समुच्चयार्थः, खलुरिति वाक्यालङ्कारे, मयेत्यात्मनिर्देशः, योऽयं लोको मनुष्याधारस्तमात्मनि 'आहृत्य' व्यवस्थाप्य अपाहृत्य वा हे आयुष्मन् ! श्रमण आत्मना वा-मयाऽऽहत्व न परोपदेशतः, सा पुष्करिणी पद्याधारभूतोक्ता, तथा कर्म चाष्टप्रकारं, यद्बलेन पुरुषपौण्डरीकाणि भवन्ति तदेवंभूतं कर्म मयाऽऽत्मन्याहृत्य आत्मना वा आहृत्य अपाहृत्य वा, एतदुक्तं भवति ।
हे श्रमण ! आयुष्मन् सर्वावस्थानां निमित्तभूतं कर्माश्रित्य तदुदकं दृष्टान्तत्वेनोपन्यस्तं, कर्मचात्र दान्तिकं भविष्यति, तत्रेच्छामदनकामाः शब्दादयो विषयास्ते एव भुज्यन्त इति भोगाः, यदिवा कामा-इच्छारूपा मदनकामास्तु भोगास्तान् मयाऽऽत्मन्याहृत्य 'सेयः कर्दमोऽमिहितः, यथा महति पङ्के निमग्नो दुःखेनात्मानमुद्धरत्येवं विषयेष्वप्यासक्तो नात्मानमुद्धर्तुमलमित्येतत्कर्दमविषययोः साम्यमिति, तथा जनं' सामान्येन लोकं, तथा जनपदे भवा जानपदा विशिष्टार्यदेशोत्पन्ना गृह्यन्ते, ते चार्द्धषड्विंशतिजनपदोद्भवा इति, तांश्च समाश्रित्यमया दान्तिकत्वेनाङ्गीकृत्य तानि बहूनि पद्मवरपौण्डरीकाणि दृष्टान्तत्वेनाभिहितानि, तथा राजानमात्मन्याहृत्य तदेकं पद्मवरपौण्डरीकं द्दष्टान्तत्वेनाभिहितं, तथाऽन्यतीर्थिकान्समाश्रित्य ते चत्वारः पुरुषजाता अभिहिताः, तेषां राजपौण्डरीकोद्धरणे सामर्थ्यवैकल्यात्, तथा धर्मं च खल्वात्मन्याहृत्य श्रमणायुष्मन् !।
सभिक्षुः रूक्षवृत्तिरभिहितः, तस्यैवचक्रवत्यादिराजपद्मवरपौण्डरीकोद्धरणे सामर्थ्यसद्भावात्, धर्मतीर्थच खल्वाश्रित्य मया तत्तीरमुक्तं, तथा सद्धर्मदेशनाचाचित्यमयासभिक्षुसम्बन्धी शब्दोऽभिहितः, तथा निर्वाणं' मोक्षपदमशेषकर्मक्षयरूपमीषतप्रागभाराख्य भूभागोपर्यवस्थितक्षेत्रखण्डं वाऽऽत्मन्याहृत्य स पद्मवरपौण्डरीकस्योत्पातोऽभिहित इति।साम्प्रतं समस्तोपसंहारार्थमाह-एवं पूर्वोक्तप्रकारेण एतल्लोकादिकंच खल्वात्मन्याहृत्य-आश्रित्य मया श्रमणायुष्मन् !'से एतत्पुष्करिण्यादिकं दृष्टान्तत्वेन किञ्चित्साधादवमेतदुक्तमिति । तदेवं सामान्येन दृष्टान्तदान्तिकयोर्योजनां कृत्वाऽधुना विशेषेण प्रधानभूतराजदार्टान्तिकं दर्शयितुमाह
मू. (६४१) इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगतिया मणुस्सा भवंति अनुपुब्वेणं लोगंउववन्ना, तंजहा-आरिया वेगे अनारिया धेगे उञ्चागोत्तावेगे नीयागोया वेगे कायमंता वेगे रहस्समंता वेगे सुवन्ना वेगे दुब्बना वेगे सुरूवा वेगे दुरूवा वेगे, तेसिं च णं मणुयाणं एगे राया भवइ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org