________________
२९८
सूत्रकृताङ्ग सूत्रम् २/१/-/६३८ चतुरः पुरुषान् पश्यति, यत्र च व्यवस्थितानिति, किम्भूतान् ? - त्यक्ततीरान् अप्राप्तद्वरपुण्डरीकान् पङ्कजलावमग्नान् पुनस्तीरमप्यागन्तुमसमर्थान् दृष्ट्वा च तांस्तदवस्थान् ततोऽसी भिक्षु 'एव' मिति वक्ष्यमाणनीत्या वदेत् ।
तद्यथा - अहो इति खेदे णमिति वाक्यालङ्कारे, इमे पुरुषाश्चत्वारोऽपि अखेदज्ञा यावन्नो मार्गस्य गतिपराक्रमज्ञाः, यस्मात्ते पुरुषा एवं ज्ञातवन्तो यथा वयं पद्मवरपौण्डरीकमुन्निक्षेप्स्यामःउत्खनिष्यामो, न च खलु तत् पौण्डरीकमेवम् अनेन प्रकारेण यथैते मन्यन्ते तथोत्क्षेप्तव्यं । अपि त्वहमस्मि भिक्षूरूक्षो यावद्गतिपराक्रमज्ञः, एतद्गुणविशिष्टोऽहमेतत्पौण्डरीकमुत्क्षेप्स्यामिउत्खनिष्यामि समुद्धरिष्यामीत्येवमुक्त्वाऽसौ 'नाभिक्रामेत्' तां पुष्करिणीं न प्रविशेत्, तत्रस्थ एव यत्कुर्यात्तद्दर्शयति-तस्यास्तीरे स्थित्वा तथाविधं शब्दं कुर्यात् ।
तद्यथा-ऊर्ध्वमुत्पतोत्पत, खलुशब्दो वाक्यालङ्कारे हे पद्मवरपौण्डरीक! तस्याः पुष्करिण्या मध्यदेशात् एवमुत्पतोत्पत, 'अथ' तच्छब्दश्रवणादनन्तरं तदुत्पतितमिति ।
तदेवं दृष्टान्तं प्रदर्श्य दान्तिकं दर्शयितुकामः श्रीमन्ममहावीरवर्धमानस्वामी स्वशिष्यानाहमू. (६३९) किट्टिए नाए समणाउसो !, अट्टे पुण से जाणतव्वे भवति, भंतेत्ति समणं भगवं महावीरं निग्गंथा य निग्गंधीओ य वंदति नमंसंति वदेत्ता नमंसित्ता एवं व्यासि-किट्टिए नाएसमणाउसो !, अहं पुर्ण से न जाणाणो समणाउसोत्ति ।
समणे भगवं महावीरे ते य बहवे निग्गंधे य निग्गंधीओ य आमंतेत्ता एवं वयासी-हंत समणाउसो ! आइक्खामि विभावेमि किट्टेमि पवेदेमि सअहं सहेउं सनिमित्त भुजो भुजो उवदंसेमि से बेमि ।
वृ. 'कीर्तिते' कथिते प्रतिपादिते मयाऽस्मिन् 'ज्ञाते' उदाहरणे हे श्रमणा आयुष्मन्तोऽर्थः पुनरस्य ज्ञातव्यो भवति भवद्भिः, एतदुक्तं भवति नास्योदाहरणस्य परमार्थं यूयं जानीथ, एक्मुक्ते भगवता ते बहवो निर्ग्रन्था निर्ग्रन्थ्यश्च तं श्रमणं भगवन्तं महावीरं ते निर्ग्रन्थादयो वदन्ते कायेन नमस्यन्ति तत्प्रह्वैः शब्दैः स्तुवन्ति वन्दित्वा नमस्यित्वा चैवं वक्ष्यमाणं वदेयुः ।
तद्यथा 'कीर्तितं' प्रतिपादितं 'ज्ञातम्' उदाहरणं भगवता, अर्थं पुनरस्य न सम्यक् जानीम इत्येवं पृष्टो भगवान् श्रमणो महावीरस्तान्निर्ग्रन्थादीनेवं वदेत्- 'हन्ते' ति संप्रेषणे, हे श्रमणा आयुष्मन्तो ! यद्भवद्भिरहं पृष्टस्तत्सोपपत्तिकमाख्यामि भवतां, तथा 'विभावयामि' आविर्भावयामि प्रकटार्थं करोमि, तथ 'कीर्तयामि' पर्यायकथनद्वारेणेति तथा 'प्रवेदयामि' प्रकर्षेण हेतु ध्ष्टान्तैश्चित्तसंत- वावारोपयामि, अथवैकार्थिकानि चैतानि ।
कथं प्रतिपादयामीति दर्शयति-सहार्थेन-दान्तिकार्थेन वर्तत इति सार्थ पुष्करिणी ध्यन्तस्तं, तथा सह हेतुना - अन्वयव्यतिरेकरूपेण वर्तत इति सहेतुस्तं तथाभूतमर्थं प्रतिपादयिष्यामि यथा ते पुरुषा अप्राप्तप्रार्थितार्थाः पुष्करिणीकर्दमे दुरुत्तारे निमग्ना एवं वक्ष्यमाणास्तीर्थिका अपारगाः संसारसागरस्य तत्रैव निमज्जन्तीत्येवंरूपोऽर्थं भूयो भूयोऽपरैरपरैर्हेतु दृष्टान्तैरूपदर्शयामि सोऽहं साम्प्रतमेव ब्रवीमि श्रृणुत यूयमिति ।
तदधुना भगवान् पूर्वोक्तस्य दृशन्तस्य यथास्वं दार्शन्तिकं दर्शयितुमाह
मू. (६४०) लोयं च खलु मए अप्पाहरु समणाउसो ! पुक्खरिणी बुइया, कम्मं च खलु मए अप्पाहड्ड समणाउसो ! से उदए बुइए, कामभोगे य खलु भए अप्पाहड्ड समणाउसो ! से सेए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org