________________
श्रुतस्कन्धः - १, अध्ययनं - १५,
प्रवेशनभूतो भक्ष्यविशेषस्तत्कल्पमेतन्मैथुनं, यथा हि असौ पशुर्नीवारेण प्रलोभ्य वध्यस्थानमभिनीय नानाप्रकारा वेदनाः प्राप्यते एवमसावप्यसुमान् नीवारकल्पेनाने न स्त्रीप्रसङ्गेन वशीकृतो बहुप्रकारा यातनाः प्राप्नोति, अतो नीवारप्रायमेतन्मैथुनमवगम्य स तस्मिन् ज्ञाततत्वो 'न लीयेत' न स्त्रीप्रसङ्ग कुर्यात्, किंभूतः सन्नित्याह
-
२८१
छिन्नानि अपनीतानि स्रोतांसि संसारावतरणद्वाराणि यथाविषयमिन्द्रियप्रवर्तनानि प्राणातिपातादीनि वा आश्रवद्वाराणि येन स छिस्रोताः, तथा 'अनाविलः' अकलुषो रागद्वेषासंपृक्ततया मलरहितोऽनाकुलो वा विषयाप्रवृत्तेः स्वस्थचेता एवंभूतश्चानाविलोऽनाकुलो 'सदा' सर्वकालमिन्द्रियनोइन्द्रियाभ्यां दान्तो भवति, ईग्विधश्च कर्मविवरलक्षणं भावसंधिम् 'अनीध्शम्' अनन्यतुल्यं प्राप्तो भवतीति । किञ्च
सू. (६१९)
अनेलिसस्स खेयत्रे, न विरुज्झिज्ज केणइ ।
मणसा वयसा चेव, कायसा चैव चक्खुमं ॥
वृ. 'अनीध्शः' अनन्यसदृशः संयमो मौनीन्द्रधर्मो वा तस्य तस्मिन् वा 'खेदज्ञो' निपुणः, अनीदृशखेदज्ञश्व केनचित्सार्धं न विरोधं कुर्वीत, सर्वेषु प्राणिषु मैत्रीं भावयेदित्यर्थः, योगत्रिककरणत्रिकेणेति दर्शयति- 'मनसा' अन्तःकरणेन प्रशान्तमनाः, तथा 'वाचा' हितमितभाषी तथा कायेन निरुद्धदुष्प्रणिहितसर्वकायचेष्टो दृष्टिपूतपादचारी सन् परमार्थतश्चक्षुष्मान् भवतीति । पू. (६२०) से हु चक्खू मणुस्साणं, जे कंखाए य अंतए ।
अंते खुरो वहती, चक्क अंतेण लोडती ॥
खू. अपिच हुरवधारणे, स एव प्राप्तकर्मविवरोऽनीध्शस्य खेदज्ञो भव्यमनुष्याणां चक्षुसदसत्पदार्थाविर्भावनान्नेत्रभूतो वर्तते, किंभूतोऽसौ ?, यः 'काङ्क्षायाः ' भोगेच्छाया अन्तको विषयतृष्णायाः पर्यन्तवर्ती । किमन्तवर्तीति विवक्षितमर्थं साधयति ?, साधयत्येवेत्यमुमुर्थं दृष्टान्तेन साधयन्नाह - 'अन्तेन' पर्यन्तेन 'क्षुरो' नापितोपकरणं तदन्तेन वहति, तथा चक्रमपिरथाङ्गामन्तेनैव मार्गे प्रवर्तते, इदमुक्तं भवति यथा क्षुरादीनां पर्यन्त एवार्थक्रियाकारी एवं विषयकषायात्मकमोहनीयान्त एवापसदसंसारक्षयकारीति ॥
मू. (६२१)
अंताणि धीरा सेवंति, तेन अंतकरा इह ।
इह माणुस्सए ठाणे, धम्माराहिउं नरा ।।
बृ. अमुभेवार्थमाविर्भवयन्नाह - 'अन्तान्' पर्यन्तान् विषयकषायतृष्णायास्तत्परिकर्मणार्थमुद्यानादीनामाहारस्य वाऽन्तप्रान्तादीनि 'धीराः' महासत्त्वा विषयसुखनिस्पृहाः 'सेवन्ते' अभ्यस्यन्ति तेन चान्तप्रान्ताभ्यसनेन 'अन्तकराः' संसारस्य तत्कारणस्य वा कर्मणः क्षयकारिणो भवन्ति । 'इहे' ति मनुष्यलोके आर्यक्षेत्रे वा, न केवलं त एव तीर्थङ्करादयः अन्येऽपीह मानुष्यलोके स्थाने प्राप्ताः सम्यग्दर्शनज्ञानचारित्रात्मकं धर्ममाराध्य 'नराः' मनुष्याः कर्मभूमिगर्भव्युत्क्रान्तिजसंख्ये- यवर्षायुषः सन्तः सदनुष्ठानसामग्रीमवाप्य 'निष्ठितार्था' उपरतसर्वद्वन्द्वा भवन्ति - यू. (६२२) निट्ठियड्डा व देवा वा, उत्तरीए इयं सुयं ।
सुयं च मेयमेगेसिं, अमणुस्सेसु नो तहा ॥
वृ. इदमेवाह- 'निष्ठितार्था' कृतकृत्या भवन्ति केचन प्रचुरकर्मतया सत्यामपि सम्यक्त्वादिकायां सामग्र्यां न तद्भव एव मोक्षमास्कन्दन्ति अपितु सौधर्माद्याः पञ्चोत्तरविमानावसाना देवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org