________________
२८२
सूत्रकृताङ्ग सूत्रम् १/१५/-/६२२ भवन्तीति एतल्लोकोत्तरीये प्रवचने श्रुतम् आगमः एवंभूतः सुधर्मस्वामी वा जम्बूस्वामिनमुद्दिश्यैवमाह-यथा मयैतल्लोकोत्तरीये भगवत्यर्हत्युपलब्धं, तद्यथा अवाप्तसम्यक्त्वादिसामग्रीकः सिध्यति वैमानिको वा भवतीति । मनुष्यगतावेवैतन्नान्यत्रेति दर्शयितुमाह
'सुयं मे' इत्यादि पश्चार्द्ध, तच्च मया तीर्थकरान्तिके 'श्रुतम्' अवगतं, गणधरः स्वशिष्याणामेकेषामिदमाह - यथा मनुष्य एवाशेषकर्मक्षयात्सिद्धिगतिभाग्भवति नामनुष्य इति, एतेन यच्छाक्यैरभिहितं, तद्यथा - देव एवाशेषकर्मप्रहाणं कृत्वा मोक्षभाग्भवति, तदपास्तं भवति, न ह्यमनुष्येषु गतित्रयवर्तिषु सच्चारित्रपरिणामाभावाद्यथा मनुष्याणां तथा मोक्षावाप्तिरिति - इदमेव स्वनामग्राहमाहमू. (६२३)
अंत करंति दुक्खाणं, इहमेगेसि आहियं । आघायं पुन एगेसिं, दुल्लभेऽयं समुस्सए ॥
वृ. न ह्यमनुष्या अशेषदुःखानामन्तं कुर्वन्ति, तथाविधसामग्र्यभावात्, तयथैकेषां वादिनामाख्यातं, तद्यथा देवा एवोत्तरोत्तरं स्थानमास्कन्दन्तोऽशेषक्लेशप्रहाणं कुर्वन्ति, न तथेह - आर्हते प्रवचने इति । इदमन्यत् पुनरेकेषां गणधरादीनां स्वशिष्याणां वा गणधरादिभिराख्यातं, तद्यथायुगसमिलादिन्यायावाप्तकथञ्चित्कर्मविवरात् योऽयं शरीरसमुच्छ्रयः सोऽकृतधर्मोपायैरसुमद्भिर्महा - समुद्रप्रभ्रष्टरत्लवत्पुनर्दुर्लभो भवति, तथा चोक्तम्
॥१॥
"ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् - मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ।। (इत्यादि) इओ विद्धंसमाणस्स, पुणो संबोहि दुल्लभा । दुल्लहाओ तहचाओ, जे धम्मटुं वियागरे ॥
पू. (६२४)
वृ. अपिच- 'इतः ' अमुष्मात् मनुष्यभवात्सद्धर्मतो वा विध्वंसमानस्याकृतपुण्यस्य पुनरस्मिन् संसारे पर्यटतो 'बोधि' सम्यगदर्शनावाप्तिः सुदुर्लभा उत्कृष्टः अपार्धपुद्गलपरावर्तकालेन यतो भवति, तथा 'दुर्लभा' दुरापा तथाभूता - सम्यगदर्शनप्राप्तियोग्या ।
'अर्चा' लेश्याऽन्तःकरणपरिणतिकृतधर्मणामिति, यदिवाऽर्चा मनुष्यशरीरं तदप्यकृतधर्मबीजानामार्यक्षेत्र सुकुलोत्पत्तिसकलेन्द्रियसामग्र्यादिरूपं दुर्लभं भवति, जन्तूनां ये धर्मरूपमर्थं व्याकुर्वन्ति, ये धर्मप्रतिपत्तियोग्या इत्यर्थः तेषां तथाभूताच सुदुर्लभा भवतीति । जे धम्मं सुद्धमक्खंति, पडिपुन्नमनेलिसं ।
मू. (६२५)
अनेलिसस्स जं ठाणं, तरस जम्मकहा कओ ? ॥
घृ. किञ्चान्यत्-ये महापुरुषा वीतरागाः करतलामलकवत्सकलजगारः त एवंभूताः परिहितैकरताः 'शुद्धम्' अवदातं सर्वोपाधिविशुद्धं धर्मम् 'आख्यान्ति' प्रतिपादयन्ति स्वतः समाचरन्ति च 'प्रतिपूर्णम्' आयतचारित्रसद्भावात्संपूर्णं यथाख्यातचारित्ररूपं वा 'अनीशम्' अनन्यसध्शं धर्मम् आख्यान्ति अनुतिष्ठन्ति ।
तदेवम् 'अनीध्शस्य' अनन्यसदृशस्य ज्ञानचारित्रोपेतस्य यत् स्थानं सर्वद्वन्द्वोपरमरूपं तदवाप्तस्य तस्य कुतो जन्मकथा ?, जातो मृतो वेत्येवंरूपा कथा स्वप्नान्तरेऽपि तस्य कर्मबीजाभावात् कुतो विद्यत ? इति तथोक्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org