________________
श्रुतस्कन्धः -२, अध्ययनं-२,
३६७
प्रवदनशीलत्वाआवादुकाः, तेषांच भेदसंख्यापरिज्ञानोपायआचार एवाभिहित इतिनेह प्रतन्यते ते सर्वेऽप्यार्हता इव परिनिर्वाणम्-अशेषद्वन्द्वोपरमरूपमवर्णगन्धरसस्पर्शस्वभावमनुपचरितपरमार्थस्थानं ब्रह्मपदाख्यमबाधात्मकं परमानन्द- सुखस्वरूपमाहुः उक्तवन्तः, तथा तेऽपि प्रावादुकाः संसारबन्धनान्मोचनात्मकं मोक्षमाहुः, पूर्वेण निरुप्नाधिकं कार्यमेव निर्वाणाख्यमुक्तम्, अनेनतुतदेव कारणोपाधिकमित्ययं विशेषः । तत्र येषामप्यात्मानास्तिज्ञानसन्ततिवादिनां तेषामपि कर्मसंततेः संसारनिबन्धनभताया विच्छेदान्मोक्षभावाविरोधः, तेषांचोपादानक्षयादनागतानुत्पत्तेः संततिच्छेद एव मोक्षः, प्रदीपस्येव तैलवर्त्यभावे निर्वाणमिति, तथा चाहु:-“न तस्य किञ्चिद्भवति, न भवत्येव केवल मिति । एतच्च तेषां महामोहविजृम्भितं, यतः। ॥१॥ "कर्मचास्ति फलं चास्ति, कर्ता नैवास्ति कर्मणाम् ।
संसारमोक्षवादित्वमहो ध्यान्ध्यविजृम्भितम् ॥ इति । येषां चात्माऽस्ति सांख्यादीनां तेषां प्रकृतिविकारवियोगो मोक्षः, क्षेत्रज्ञस्य पञ्चविंशतितत्त्वपरिज्ञानादेव विद्यमानः प्रधानविकारैर्विमोचनंमोक्ष इति, तेषामप्येकान्तनित्यवादितया मोक्षाभावः । एवमन्येऽपि नैयायिकवैशेषिकादयः संसाराभावमिच्छन्तोऽपिन मुच्यन्ते, सम्यग्दर्शनादिकस्योपायस्याभावाद्, इत्यभ्यह्याह-यदि न तेषां मोक्षः कथं ते लोकस्योपास्या भवन्तीत्याशङ्कयाह-'तेऽपि तीर्थिका ‘लपन्ति'ब्रुवते, मोक्षप्रतिधर्मदेशनां विदधति,शृण्वन्तीति श्रावकाः हे श्रावका! एवं गृह्णीत यूयं यथाऽहं देशयामि, तथा तेऽपि धर्मश्रावयितारः सन्त एवं 'लपन्ति' भाषन्ते यथाऽनेनोपायेन स्वर्गमोक्षावाप्तिरितितद्वचनंमिथ्यात्वोपहतबुद्धयोऽवितथमेव गृह्णन्ति, कूटपण्यदायिनां विपर्यस्तमतय इवेति।
तदेवमादितीर्थकास्तच्छिष्याश्च पारम्पर्येण मिथ्यादर्शनानुभावात्परान्प्रतारयन्ति, तेऽपि चतेषांप्रतीयन्ति, आह-कथमेते प्रावादुका मिथ्यावादिनोभवन्तीति?,अत्रोच्यते, यतस्तेऽप्यहिंसा प्रतिपादयन्ति न च तां प्रधानमोक्षाङ्गभूतां सम्यगनुतिष्ठन्ति, कथम्?, सांख्यानां तावज्ज्ञानादेव धर्मोनतेषामहिंसाप्राधान्येन व्यवस्थिता, किंतुपञ्च यमाइत्यादिको विशेष इति।तथा शाक्यानामपि दश कुशलाधर्मपथाअहिंसापितत्रोक्ता, नतुसैव गरीयसी धर्मसाधनत्वेन तैराश्रिता ।वैशेषिकाणामपि अभिसेचनोपवासब्रह्मचर्यगुरुकुलवासप्रस्थादानयज्ञादिनक्षत्रमन्त्रकालनियमा दृष्टाः तेषु चाभिषेचनादिषु पालोच्यमानेषु हिंसैव संपद्यते । वैदिकानां च हिंसैव गरीयसी धर्मसाधनं, यज्ञोपदेशात्, तस्य च तयाऽविनाभावादित्यभिप्रायः, उक्तंच-"ध्रुवः प्राणिवधो यज्ञे"।
तदेवं सर्वप्रावादुका मोक्षाङ्गभूतामहिंसां न प्राधान्येन प्रतिपद्यन्त इति दर्शयितुमाह
मू. (६७३) तेसव्वे पावाउयाआदिकराधम्माणंनानापन्ना नानाछंदानानासीला नानादिट्ठी नानारुई नानारंभा नानाज्झवसाणसंजुत्ता एगं महं मंडलिबंध किच्चा सव्वे एगओ चिट्ठति ।। पुरिसे य सागणियाणं इंगालाणं पाइं बहुपडिपुग्नं अओमएणं संडासएणं गहाय सव्वे पावाउए आइगरे धम्माणं नानापन्ने जाव नानाज्झवसाणसंजुत्ते एवं वयासी-हंभो पावाउया! आइगरा धम्माणं नानापन्ना जाव नानाअज्झवसाणसंजुत्ता! इमं तावतुब्भे सागणियाणं इंगालाणं पाई बहुपडिपुत्रंगहाय मुहत्तयंमुहुत्तगंपाणिणाधरेह, नो बहुसंडासगंसंसारियंकुजा नो बहुअग्गिथंभणियं कुजा नो बहुसाहम्मियवेयावडियं कुजानोबहुपरम्मियवेयावडियंकुजा उज्जुया नियागपडिवन्ना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org