________________
३६६
सूत्रकृताङ्गसूत्रम् २/२/-/६७१
उक्ता धार्मिकाः, अधार्मिकास्तदुभयरूपाश्चाभिहिताः, साम्प्रतमेतदेव स्थानत्रिकमुपसंहारद्वारेणसंक्षेपतो बिभणिषुराह-येयमविरतिः असंयमरूपा सम्यकत्वाभावान्मिथ्यादृष्टेव्यतो विरतिरप्यविरतिरेव तां प्रतीत्य-आश्रित्य बालवद्वाल:-अज्ञः सदसद्विवेकविकलत्वात् इत्येवम् 'आधीयते व्यवस्थाप्यते आख्यायते वा, तथा विरतिं च प्रतीत्य' आश्रित्य पापाड्डीनः पण्डितः परमार्थज्ञो वेत्येवमाधीयते आख्यायतेवा, तथा विरताविरतिंचाश्रित्य बालपण्डित इत्येतत्प्राग्वदायोज्यमिति । किमित्यविरति विरत्याश्रेयण बालपाण्डित्यपाण्डित्यापत्तिरित्याशङ्कयाह-तस्थ ण' मित्यादि, 'तत्र पूर्वोक्तेषुस्थानेषुयेयं सर्वात्मना सर्वस्मात् 'अविरति' विरतिपरिणामाभावः एतत्स्थानं सावद्यारम्भस्थानमाश्रय एतदाश्रित्य सर्वाण्यकार्याणि क्रियन्ते, यतएवमत एतदनार्य स्थानं निःशूकतया यत्किञ्चनकारित्वाद्यावदसर्वदुःखप्रक्षीणमार्गोऽयं तथैकान्तमिथ्यारूपोऽसाधुरिति । तत्र च येयं 'विरतिः' सम्यक्त्वपूर्विका सावद्यारम्भानिवृत्तिः सा स्थगितद्वारत्वात् पापानुपादानरूपेति।
एतदेवाह-तदेतत्स्थानम् अनारम्भस्थान-सावद्यानुष्ठानरहितत्वात्संयमस्थानं, तथा चैतत्स्थानमार्यस्थानम्-आराधातं सर्वहियधर्मेभ्यइत्यार्यतथा सर्वदुःखप्रक्षीणमार्ग-अशेषकर्मक्षयपथ इति, तथैकान्तसम्यग्भूतः, एतदेवाह-'साधुरिति, साधुभूतानुष्ठानात्साधुरिति।तत्रच येयं (विरता) विरतिरभिधीयते सैषा मिश्रस्थानभूता, तदेतदारम्भानारम्भरूपस्थानम्, एतदपिकथञ्चिदार्यमेव, पारम्पर्येण सर्वदुःखप्रक्षीणमार्गः, तथैकान्तसम्यग्भूतः साधुश्चेति। तदेवमनेकविधोऽयमधर्मपक्षो धर्मपक्षस्तथा मिश्रपक्षश्चेति संक्षेपेणाभिहितःपक्षत्रयसमाश्रयणेन । साम्प्रतमसावपि मिश्रपक्षो धर्माधर्मसमाश्रयणेनानयोरन्तर्वर्ती भवतीति दर्शयति
मू. (६७२) एवमेव समणुगम्ममाणा इमेहिं चैव दोहि ठाणेहिं समोअरंति, तंजहा-धम्मे चेव अधम्मे चैव उवसंते घेच अनुवसंते चेव, तत्थ गंजे से पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए, तत्थ णं इमाई तित्रि तैवट्ठाई पावादुयसयाई भवंतीति मक्खायाई।
तंजहा-किरियावाईणं अकिरियावाईणं अनाणियवाईणं वेणइयवाइणं, तेऽवि परिनिव्वाणमाहंसु, तेऽवि भोक्खमाहंसु तेऽवि लवंति, सावगा! तेऽवि लवंति सावइत्तारो।
पृ. 'एवमेव संक्षेपेण सम्यगनुगम्यमाना व्याख्यायमानाःसम्यगनुगृह्यमाणाः 'अनयोरेव' धर्माधर्मस्थानयोरनुपतन्ति । किमिति ?, यतो यदुपशान्तस्थानं तद्धर्मपक्षस्थानमनुपशान्तस्थानमधर्मपक्षस्थानमिति।तत्रच यदधर्मपाक्षिकंप्रथम स्थानं तत्रामुनित्रीणि त्रिषष्टयधिकानि प्रावादुकशतान्यन्तर्भवन्तीत्येवमाख्यातं पूर्वाचार्यैरिति । एतानि च सामान्येन दर्शयितुमाह 'तंजहे त्यादि, तद्यथेत्युपदर्शनार्थ क्रियां-ज्ञानादिरहितामेकामेव स्वर्गापवर्गसाधनत्वेन वदितुं शीलं येषां ते क्रियावादिनः, ते च दीक्षात एव मोक्षं वदन्तीत्येवमादयो द्रष्टव्या इति, तेषां च बहवो भेदाः, तथा अक्रियां परलोकसाधनत्वेन वदितुं शीलं येषां ते तथा तेषामिति, अज्ञानमेव श्रेयः इत्येवं वदितुं शीलं येषां ते भवन्त्यज्ञानवादिनस्तेषां, तथा विनय एव परलोकसाधने प्रधान कारणं येषां ते तथा तेषामिति ।
अत्रच सर्वत्रषष्ठीबहुवचनेनेदमाह, तद्यथा-क्रियावादिनामशीत्युत्तरंशतं अक्रियावादिनां चतुरशीतिरज्ञानिकानां सप्तषष्टिनयिकानांद्वात्रिंशदिति।तत्रच सर्वेऽप्येते मौलास्तच्छिष्याश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org