________________
श्रुतस्कन्धः -२, अध्ययनं-२, पत्तनं मुष्यते केनापि, नीयते सर्वसारमङ्गनाजनोऽपि, यस्तस्यानभिमतः सोऽत्र केवलमास्ते, तदेवं क्रियतां प्रसदस्तदन्वेषणेनेति ।
राज्ञाऽभिहितं-गच्छत यूयं विश्रब्धा भवत अवश्यमहं तं दुरात्मानं लप्स्ये, किंच-यदि पञ्चषैरहोभिर्न लभे चौरं विमर्शयुक्तोऽपि च त्यक्ष्याम्यात्मानमहं ज्वालामालाकुले वहो, तदेवं कृतप्रतिज्ञं राजानं प्रणम्य निर्गता नागरिकाः राज्ञाच सविशेष नियुक्ताआरक्षकाः । आत्मनाऽप्येकाकी खगखेटकसमेतोऽन्वेष्टुमारब्धः, न चोपलभ्यते चौरः, ततो राज्ञा निपुणतरमन्वेषयता पञ्चमेऽहनि भोजनताम्बूलगन्धमाल्यादिकं गृह्णन् रात्रौ स्वतो निर्गतेनोपलब्धः स परिव्राट्, तत्पृष्ठगामिना नगरोद्यानवृक्षकोटरप्रवेसेन गुहाभ्यन्तरं प्रविश्य व्यापादितः, तदनन्तरं समर्पित यद्यस्य सत्कमङ्गनाजनोऽपीति । तत्रचैकासीमन्तिनीअत्यन्तमौषधिभिर्भाविता नेच्छत्यात्मीयमपि भरि, ततस्तद्विद्भिरभिहितं-यथाऽस्याः परित्राटसत्कान्यस्थीनिदुग्धेन सह संघृष्य यदि दीयन्ते तदेयं तदाग्रहं मुञ्चति, ततस्तत्स्वजनैरेवमेव कृतं, यथा यथा चासौ तदस्थ्यभ्यवहारं विधत्तेतथा तथा तत्स्नेहानुबन्धोऽपैति, सर्वास्थिपाने चापगतः प्रेमानुबन्धः, तदनुरक्ता निजे भर्तरि । तदेवं यथाऽसावत्यन्तं भाविता तेन परिव्राजा नेच्छत्यपरम् एवं श्रावकजनोऽपि नितरां भावितात्मा मौनीन्द्रशासने नश्क्यते अन्यथाकर्तुम्, अत्यन्तंसम्यक्त्वौषधेन वासितत्वादिति पुनरपि श्रावकान् विशिनष्टि-'जाव उसियफलिहा' इत्याहि, उच्छ्रितानि स्फटिकानीव स्फटिकानि-अन्तःकरणानि येषां ते तथा, एतदुक्तं भवति
__मौनीन्द्रदर्शनावाप्ती सत्यां परितुष्टमानसा इति, तथा अप्रावृतानि द्वाराणि यैस्ते तथा, उदेघाटितगृहद्वारास्तिष्ठन्ति अचियत्तः-अनभिमतोऽन्तःपुरप्रवेशवत्परगृहद्वारप्रवेशोऽन्यतीर्थिकप्रवेशो येषां ते तथा, अनवरतं श्रमणानुद्युक्तविहारिणो निर्ग्रन्थान् प्रासुकेनैषणीयेनाशनादिना तथा पीठफलकशय्यासंस्तारकादिना च प्रतिलाभयंतः तथा बहूनि वर्षाणि शीलव्रतगुणव्रतप्रत्याख्यानपौषधोपवासैरात्मानं भावयन्तस्तिष्ठन्ति । तदेवं ते परमश्रावकाः प्रभूतकालमणुव्रतगुणव्रतशिक्षाव्रतानुष्ठायिनः साधूनामौषधवपात्रादिनोपकारिणः सन्तोयथोक्तं यथाशक्ति सदनुष्ठानं विधायोत्पन्ने वाकारणेऽनुत्पन्ने वा भक्तं प्रत्याख्यायालोचितप्रतिक्रान्ताःसमाधिप्राप्ताः सन्तः कालमासे कालं कृत्वाऽन्यतरेषु देवेषूत्पद्यन्त इति । एतानि चाभिगतजीवाजीवादिकानि पदानि हेतुहेतुमद्भावेन नेतव्यानि, तद्यथा
यस्मादभिगतजीवाजीवास्तस्मादुपलब्धपुण्यपापाः, यस्मादुपलब्धपुण्यपापास्तस्मादुच्छ्रितमनसः, एवमुत्तरत्रापि एकैकं पदं त्यजद्भिरेकैकं चोत्तरं गृह्णद्भिर्वाच्य, तेच परेण पृष्टाअपृटा वाएतदूचुः,तद्यथा-अयमेव मौनीन्द्रोक्तोमार्गः सदर्थः शेषस्त्वनों, यस्मादेवं प्रतिपद्यन्ते तस्मात्तेसमुच्छ्रितमनसःसन्तः साधुधर्मं श्रावकधर्मंच प्रकाशयन्तो विशेषेणैकादशोपाकप्रतिमाः स्पृशन्तो विहरन्तोऽष्टमीचतुर्दश्यादिषुपौषधोपवासादौ साधूनप्रासुकेन्प्रतिलाभयन्ति, पाश्चात्ये चकाले संलिखितकायाः संस्तारकश्रमणभावंप्रतिपद्य भक्तं प्रत्याख्यायायुषः क्षये देवेषूत्पद्यन्ते ततोऽपि च्युताः सुमानुषभावं प्रतिपद्य तेनैव भवेनोत्कृष्टतः सप्तस्वष्टसु वा भवेषु सिध्यन्तीति । तदेतत्स्थानंकल्याणपरम्परया सुखविपाकमितिकृत्वाऽऽर्यमिति ।अयंविभङ्गस्तृतीयस्य स्थानस्य मिश्रकाख्यस्याख्यात इति।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org