________________
श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशकः - १
६७
ननु च तीथिका अपि केचन निष्परिग्रहास्तथा तपसा निष्टप्तदेहाच, तत्कथं तेषां नो मोक्षावाप्तिरित्येतदाशङ्कयाहमू. (९७) जइ वि य निगणे किसे चरे, जइविय भुंजिय मासमंतसो।
जे इमायाइ मिजई, आगंता गब्भाय नंतसो।।। वृ. यद्यपि तीर्थिकः कश्चित्तापसादिस्त्यक्तबाह्यगृहवासादिपरिग्रहत्वात् निष्किञ्चनतया नग्नः त्वक्त्राणाभावाच्च कृशः 'चरेत्' स्वकीयप्रव्रज्यानुष्ठानं कुर्यात्, यद्यपि च षष्ठाष्टमदशमद्वादशादितपोविशेषं विधत्तेयावद् अन्तशोमासंस्थित्वा ‘भुङ्के' तथापि आन्तरकषायापरित्यागान मुच्यते इति दर्शयति- 'यः' तीर्थिक इहमायादिना मीयते, उपलक्षणार्थत्वात् कषायैर्युक्त इत्येवं परिच्छिद्यते, असौ 'गर्भाय' गर्भार्थमा-समन्तात् 'गन्ता' यास्यति अनन्तशो निरवधिकंकालमिति, एतदुक्तं भवति-अकिञ्चनोऽपि तपोनिष्टप्तदेहोऽपि कषायापरित्यागान्नरकादिस्थानात् तिर्यगादिस्थानं गर्भाद्गर्भमनन्तमपि कालमग्निशर्मवत् संसारे पर्यटतीति ॥ मू. (९८) पुरिसोरम पावकम्मुणा, पलियंतं मणुयाण जीवियं ।
सन्ना इह काममुच्छिया, मोहं जंति नरा असंवुडा ।। वृ. यतो मिथ्यादृष्टयुपदिष्टतपसाऽपि न दुर्गतिमार्गनिरोधो अतो मदुक्त एव मार्गे स्थेयमेतद्गर्भमुपदेशंदातुमाह- 'पुरिसो' इत्यादि, हे पुरुष! येन ‘पापेन कर्मणा' असदनुष्ठानरूपेण त्वमुपलक्षितस्तत्रासकृत् प्रवृत्तत्वात् तस्मात् ‘उपरम' निवर्तस्व, यतःपुरुषाणां जीवितं सुबलपि त्रिपल्योपमान्तं संयमजीवितं वा पल्योपमस्यान्तः-मध्ये वर्त्तते तदप्यूनां पूर्वकोटिमितियावत्, अथवा परि-समन्तात् अन्तोऽस्येति पर्यन्तं-सान्तमित्यर्थः ।
__ यश्चैवं तद्गतमेवागन्तव्यं, तदेवं मनुष्याणां स्तोकं जीवितमवगम्य यावत्तन्न पर्येति तावद्धर्मानुष्ठानेन सफलं कर्त्तव्यं, ये पुनर्भोगस्नेहपङ्के अवसन्ना-मग्ना 'इह' मनुष्यभवे संसारे वा कामेषु-इच्छामदनरूपेषु मूर्छिता अध्युपपन्नाः ते नरा मोहंयान्ति-हिताहितप्राप्तिपरिहारे मुह्यन्ति, मोहनीयं वा कर्म चिन्वन्तीति संभाव्यते, एतदसंवृतानां-हिंसादिस्थानेभ्योऽनिवृत्तानामसंयतेन्द्रियाणां चेति - एवं च स्थिते यद्विधेयं तदर्शयितुमाहमू. (९९) जययं विहराहि जोगवं, अनुपाणा पंथा दुरुत्तरा।
अनुसासणमेव पक्कमे, वीरेहि संमं पवेइयं ।। __स्वल्पं जीवितमवगम्य विषयांश्च क्लेशपायानवबुद्धय छित्त्वागृहपाशबन्धनं यतमानः' यत्नं कुर्वन् प्राणिनामनुपरोधेन 'विहर' उद्युक्तविहारी भव, एतदेव दर्शयति-'योगवानिति संयमयोगवान् गुप्तिसमितिगुप्त इत्यर्थः, किमित्येवं ?, यतः 'अणवः-सूक्ष्माः प्राणाः-प्राणिनो येषु पथिषु ते तथा ते चैवम्भूताः पन्थानोऽनुपयुक्तैर्जीवानुपमर्देन 'दुस्तरा' दुर्गमा इति, ।
अनेन ईर्यासमितिरुपक्षिप्ता, अस्याश्चोपलक्षणार्थत्वात् अन्यास्वपिसमितिषुसततोपयुक्तेन भवितव्यम्, अपिच 'अनुशासनमेव यथागममेव सूत्रानुसारेण संयमप्रति क्रामेत्, एतञ्च सर्वैरेव 'वीरैः' अर्हद्भि सम्यक् 'प्रवेदितं' प्रकर्षणाख्यातमिति मू. (१००) विरया वीरा समुट्ठिया, कोहकायरियाइपीसणा।
पाणे न हणंति सव्वसो, पावाओ विरयाऽभिनिव्वुडा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org