________________
६८
सूत्रकृताङ्ग सूत्रम् १/२/१/१००
वृ.अथ क एते वीरा इत्याह-विरया' इत्यादि, हिंसाऽनृतादिपापेभ्यो ये विरताः, विशेषण कर्म प्रेरयन्तीति वीराः सम्यगारम्भपरित्यागेनोत्थिताः समुत्थिताः, ते एवम्भूताश्च 'क्रोधकातरिकादिपीषणाः तत्रक्रोधग्रहणान्मानो गृहीतः, कातरिका-माया तद्ग्रहणाल्लोभो गृहीतः, आदिग्रहणात् शेषमोहनीयपरिग्रहः ।
___ तत्पीषणाः-तदपनेतारः, तथा 'प्राणिनो' जीवान् सूक्ष्मेतरभेदभिन्नान् ‘सर्वशो' मनोवाकायकर्मभिः 'नघ्नन्ति' न व्यापादयन्ति, पापाच्च' सर्वतः सावद्यानुष्ठानरूपाद्विरताः-निवृत्तास्तश्च 'अभिनिवृत्ताः' क्रोधाद्युपशमेन शान्तीभूताः, यदिवाऽभिनित्ता इव अभिनिर्वृत्ताः-मुक्ता इव द्रष्टव्या इति पुनरप्युपदेशान्तरमाहमू. (१०१) नविता अहमेव लुप्पए, लुपंती लोअसि पाणिणो ।
एवं सहिएहिं पासए अनिहे से पुढे अहियासए। वृ.परीषहोपसर्गाएतद्भावनापरेण सोढव्याः, नाहमेवैकस्तावदिह शीतोष्णादिदुःखविशेषैः 'लुप्ये' पीड्ये अपि त्वन्येऽपि 'प्राणिनः' तथाविधास्तिर्यङमनुष्याः अस्मिल्लोके 'लुप्यन्ते' अतिदुःसहैवुखैः परिताप्यन्ते, तेषां च सम्यग्विवेकाभावान्न निर्जराख्यफलमस्ति, यतः-- ॥१॥ क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः,
सोढा दुःसहतापशीतपवनक्लेशा न तप्तं तपः । ध्यातं वित्तमहर्निशं नियमितं द्वन्द्वैर्न तत्त्वं परं,
तत्तत्कर्म कृतं सुखार्थिभिरहो तैस्तैः फलैर्वञ्चिताः॥ तदेवं क्लेशादिसहनं सद्विवेकिनां संयमाभ्युपगमे सति गुणायैवेति, तथाहि॥१॥ कार्य क्षुत्प्रभवं कदन्नमशनं शीतोष्णयोः पात्रता,
पारुष्यं च शिरोरुहेषु शयनं मह्यास्तले केवले।
एतान्येव गृहे वहन्त्यवनतिं तान्युन्नतिं संयमे । ___ दोषाश्चापि गुणा भवन्तिः हि नृणां योग्ये पदे योजिताः ।। एवं सहितो ज्ञानादिभि स्वहितो वा आत्महितः सन् ‘पश्येत्' कुशाग्रीयया बुद्धया •पर्यालोचयेदनन्तरोदितं, तथा निहन्यत इति निहः न निहोऽनिहः-क्रोधादिभिरपीडितः सन्स महासत्त्वः परीषहैः स्पृष्टोऽपि तान् ‘अधिसहेत' मनःपीडां न विदध्यादिति, यदिवा 'अनिह' इति तपःसंयमे परीषहसहने वाऽनिगूहितबलवीर्यः, शेषं पूर्ववदिति ।। मू. (१०२) धुणिया कुलियं व लेववं, किसए देहमणासणा इह ।
अविहंसामेव पव्वए, अणुधम्मो मुनिना पवेदितो ।। वृ.अपिच 'धुणिया' इत्यादि, 'धूत्वा' विधूय 'कुलियं' कडणकृतंकुड्यं लेपवत्' सलेप, अयमत्रार्थ-यथा कुड्यं गोमयादिलेपेन सलेपं जाधट्टयमानं लेपापगमात् कृशं भवति, एवम् अनशनादिभिर्दे ‘कर्शयेत्' अपचितमांसशोणितं विदध्यात्, तदपचयाच्च कर्मणोऽपचयोभवतीति भावः । तथा विविधा हिंसा विहिंसा न विहिंसा अविहिंसा तामेव प्रकर्षेण व्रजेत्, अहिंसाप्रधानो भवेदित्यर्थ, अनुगतो-मोक्षं प्रत्यनुकूलो धर्मोऽनुधर्मअसावहिंसालक्षणः, परीषहोपसर्गसहनलक्षणश्च धर्मो ‘मुनिना' सर्वज्ञेन 'प्रवेदितः' कथित इति किञ्च -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org