________________
श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशकः - १ मू. (१०३) सउणी जह पंसुगुंडिया, विहुणिय धंसयई सियं रयं ।
एवं दविओवहाणवं, कम्मंखवइ तवस्सिमाहणे ।। वृ. 'शकुनिका' पक्षिणी यथा पांसुना' रजसा 'अवगुण्ठिता' खचिता सतीअङ्गं 'विधूय' कम्पयित्वातद्रजः 'सितम्' अवबद्धंसत् 'ध्वंसयति' अपनयति,एवं 'द्रव्यो' भव्योमुक्तिगमनयोग्यो मोक्षं प्रत्युप-सामीप्येन दधातीति उपधानम्- अनशनादिकं तपः तदस्यास्तीत्युपधानवान्, स चैवम्भूतः 'कर्म' ज्ञानावरणादिकं 'क्षपयति' अपनयति, 'तपस्वी' साधुः ‘माहण'त्ति मा वीरितिप्रवृत्तिर्यस्य स प्राकृतशैल्या माहणेत्युच्यत इति ।। मू. (१०४) उट्टियमणगारमेसणं, समणं ठाणठिअंतवस्सिणं ।
डहरा वुड्ढाय पत्थए, अवि सुस्से न यतं लभेज नो ।। वृ. अनुकूलोपसर्गमाह-'उट्ठियेत्यादि, अगारंगृहं तदस्य नास्तीत्यनगारः तमेवम्भूतं संयमोत्थानेनैषणां प्रत्युत्थितं-प्रवृत्तं, श्राम्यतीति श्रमणस्तं, तथा 'स्थानस्थितम्' उत्तरोत्तरविशिष्टसंयमास्थानाध्यासिनं 'तपस्विनं' विशिष्टतपोनिष्टप्तदेहं तमेवम्भूतमपि कदाचित् ‘डहरा' पुत्रनप्तादयः ‘वृद्धाः' पितृमातुलादयः उनिष्क्रामयितुं प्रार्थयेयुः' याचेरन्।
तएवमूचुः-भवता वयंप्रतिपाल्या न त्वामन्तरेणास्माकं कश्चिदस्ति त्वं वाऽस्माकम् एक एव प्रतिपाल्यः, (इति) भणन्तस्तेजना अपि 'शुष्येयुः' श्रमंगच्छेयुः,नचतं साधुं विदितपरमार्थं 'लभेरन्' नैवाऽऽत्मसात्कुर्यु-नैवाऽऽत्मवशगं विदध्युरिति । किञ्चमू. (१०५) जइ कालुणियाणि कासिया, जइ रोयंति य पुत्तकारणा।
दवियं भिक्खू समुट्ठिये, नो लब्भंति न संठवित्तए । वृ. यद्यपि ते मातापितृपुत्रकलत्रादयस्तदन्तिके समेत्य करुणाप्रधानानि-विलापप्रायाणि वचारयनुष्ठानानि वा कुर्यु, तथाहि॥१॥ "नाहपियकंतसामिय अइवल्लह दुल्लहोऽसि भुवणंमि।
तुह विरहम्मि य निक्किव! सुण्णं सव्वंपि पडिहाइ ।। ॥२॥ सेणी गामो गोठ्ठी गणो व तं जत्थ होसि संनिहितो।
दिप्पइ सिरिए सुपुरिस ! किं पुण निययं घरदारं? ॥ तथा यदि ‘रोयंति य' त्ति रुदन्ति ‘पुत्रकारणं' सुतनिमित्तं, कुलवर्धनमेकं सुतमुत्पाद्य पुनरेवं कर्तुर्हसीति । एवं रुदन्तो यदि भणन्ति तंभिक्षुरागद्वेषरहितत्वान्मुक्तियोग्यत्वाद्वा द्रव्यभूतं सम्यकसंयमोत्थानेनोत्थितं तथाऽपि साधुं 'न लप्स्यन्ते' न शक्नुवन्ति प्रव्रज्यातो भ्रंशयितुं भावाच्यावयितुं नापि संस्थापयितुं-गृहस्थभावेन द्रव्यलिङ्गाच्यावयितुमिति ॥ मू. (१०६) जइविय कामेहि लाविया, जइ नेजाहि न बंधिष्ठं धरं।
जइ जीविय नावकंखए, नो लब्भंति न संठवित्तए। वृ. अपिच-'जइवि' इत्यादि, यद्यपि ते निजास्तं साधुं संयमोत्थानेनोत्थितं ‘कामैः' इच्छामदनरूपैः ‘लावयन्ति' उपनिमन्त्रयेयुरुपलोभयेयुरित्यर्थ, अनेनानुकूलोपसर्गग्रहणं, तथा यदि नयेयुर्बध्ध्वा गृह, णमिति वाक्यालङ्कारे । एवमनुकूलप्रतिकूलोपसर्गेरभिद्रुतोऽपि साधुः'यदि जीवितं लनाभिकासत्' यदि जीविताभिलाषी न भवेत् असंयमजीवितं वा नाभिनन्देत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org