________________
७०
सूत्रकृताङ्ग सूत्रम् १/२/१/१०६
ततस्ते निजास्तं साधुं 'णो लब्धंति 'त्ति न भन्ते न प्राप्नुवन्ति आत्मसात्कर्तुं 'णनसंठवित्तए 'त्ति नापि गृहस्थभावेन संस्थापयितुमलमिति । किञ्च
मू. (१०७)
सेहंति य णं ममाइणो, माय पिया य सुया य भारिया । पोसाहि न पासओ तुमं, लोग परंपि जहासि पोसणो ॥
वृ. ते कदाचिन्मातापित्रादयस्तमभिनवप्रव्रजितं 'सेहंति' त्ति शिक्षयन्ति 'णम्' इति वाक्यालङ्कारे- 'ममाइणो' त्ति ममायमित्येवं स्नेहालवः, कथं शिक्षयन्तीत्यत आह-पश्य 'नः' अस्मानत्यन्तदुःखितांस्त्वदर्थ पोषकाभावाद्वा, त्वं च यथावस्थितार्थपश्यकः
सूक्ष्मदर्शी, सश्रुतिक इत्यर्थ अतः 'नः 'अस्मान् 'पोषय' प्रतिजागरणं कुरु अन्यथा प्रव्रज्याऽभ्युपगमेनेहलोकस्त्यक्तो भवता अस्मत्प्रतिपालनपरित्यागेन च परलोकमपि त्वं त्यजसि इति दुःखितानिजप्रतिपालनेन च पुण्यावाप्तिरेवेति, तथाहि
119 11
'या गति क्लेशदग्धानां गृहेषु गृहमेविनाम् । विभ्रतां पुत्रदारांस्तु, तां गतिं व्रज पुत्रक ! ॥ अन्ने अन्नेहिं मुच्छिया, मोहं जंति नरा असंवुडा । विसमं विसमेहिं गाहिया, ते पावेहिं पुणो पगब्भिया ॥
भू. (१०८)
.वृ. एवं तैरुपसर्गिताः केचन कातराः कदाचिदेतत्कुर्युरित्याह- 'अत्रे' इत्यादि, 'अन्ये' केचनात्पसत्त्वाः 'अन्यैः' मातापित्रादिभिः 'मूर्च्छिता' अध्युपपन्नाः सम्यग्दर्शनादिव्यतिरेकेण सकलमपि शरीरादिकमन्यदित्यन्यग्रहणं, ते एवम्भूताः असंवृता नराः ।
'मोहं वान्ति' सदनुष्ठाने मुह्यन्ति, तथा संसारगमनैकहेतुभूतत्वात् 'विषमः' असंयमस्तं 'विषमैः' असंयतैरुन्मार्गप्रवृत्तत्वेनापायभीरुभिः रागद्वैषैर्वा अनादिभवाभ्यस्ततया दुशच्छेद्यत्वेन विषमैः ग्राहिता - असंयमं प्रति वर्तिताः, ते चैवम्भूताः 'पापैः कर्मभि पुनरपि प्रवृत्ताः 'प्रगल्पिताः' धुष्टतां गताः पापकं कर्म कुर्वन्तोऽपि न लज्जन्त इति यत एवं ततः किं कर्तव्यमित्याहमू. (१०९) तम्हा दवि इक्ख पंडिए, पावाओ विरतेऽभिनिव्वुडे ।
पणए वीरं महाविहिं, सिद्धिपहं ने आज्यं धुवं ॥
वृ. यत्तो मातापित्रादिमूर्च्छिताः पापेषु कर्मसु प्रगल्भा भवन्ति तस्माद् द्रव्यभूतो भव्यःमुक्तिगमनयोग्यः रागद्वेषरहितो वा सन् 'ईक्षस्व' तद्विपाकं पर्यालोचय 'पण्डितः' सद्विवेकयुक्तः 'पापात् ' कर्मणोऽसदनुष्ठानरूपात् 'विरतः' निवृत्तः क्रोधादिपरित्यागाच्छान्तीभूत इत्यर्थ तथा 'प्रणताः प्रहीभूताः 'वीराः' कर्मविदारणसमर्था 'महावीथिं' महामार्ग, तमेव विशिनष्टि‘सिद्धिपथं' ज्ञानादिमोक्षमार्ग तथा मोक्षं प्रति 'नेतारं' प्रापकं 'ध्रुवम्' अव्यभिचारिणमित्येतदवगम्य सएव मार्गोऽनुष्ठेयः, नासदनुष्ठानप्रगल्भैर्भाव्यमिति ।
मू. (११०) वेयालियमग्गमागओ, मणवयसाकायेण संवुडो ।
चिच्द्या वित्तं च नायओ, आरंभं च सुसंवुडे चरे ।। तिबेमि
वृ. पुनरप्युपदेशदानपूर्वकमुपसंहरन्नाह 'वेयालियमग्ग' इत्यादि, कर्मणां विदारणमार्ग मागतो भूत्वा तं तथाभूतं मनोवाक्कायसंवृतः पुनः ‘त्यक्त्वा' परित्यज्य 'वित्तं' द्रव्यं तथा 'ज्ञातींश्च' स्वजनांश्च तथा सावद्यारम्भं च सुष्ठु संवृत इन्द्रियैः संयमानुष्ठानं चरेदिति ब्रवीमीति पूर्ववत् । अध्ययनं -२ उद्देशकः-१ समाप्तः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org