________________
श्रुतस्कन्धः - १, अध्ययनं २, उद्देशक :- २
--
-: अध्ययनं-२ उद्देशकः-२
प्रथमानन्तरं द्वितीयः समारभ्यते - अस्य चायमभिसंबन्धः, इहानन्तरोद्देशके भगवता स्वपुत्राणां धर्मदेशनाऽभिहिता, तदिहापि सैवाध्ययनार्थाधिकारत्वात् अभिधीयते, सूत्रस्य सूत्रेण सह साबन्धोऽयम्-अनन्तरोक्तसूत्रे वाह्यद्रव्यस्वजनारम्भपरित्यागोऽभिहितः, तदिहाप्यान्तरमानपरित्याग उद्देशार्थाधिकारसूचितोऽभिधीयते, तदनेन संबन्धेनायातस्यास्योद्देशकस्यादिसूत्रंमू. (999) तयसं व जहाइ से रयं, इति संखाय मुनी न मज्जई । गोयन्त्रतरेण माहण, अहसेयकरी अनेसी इंखिणी ।।
बृ. यथा उरगः स्वां त्वचं अवश्यं परित्यागार्हत्वात् 'जहाति' परित्यजति, एवमसावपि साधुः रज इव रजः- अष्टप्रकारं कर्म तदकषायित्वेन परित्यजतीति, एवं कषायाभावो हि कर्माभावस्य कारणमिति 'संख्याय' ज्ञात्वा 'मुनि' कालत्रयवेदी 'नमाद्यति' मदं न याति मदकारणं दर्शयति 'गोत्रेण' काश्यपादिना, अन्यतरग्रहणात् शेषाणि मदस्थानानि गृह्यन्त इति, 'माहण' त्ति साधुः, पाठान्तरं वा 'जे विउ 'त्ति यो विद्वान् विवेकी स जातिकुललाभादिभिः न माद्यतीति, केवलं स्वतो मदो न विधेयः, जुगुप्साऽप्यन्येषां न विधेयेति दर्शयति- 'अथ' अनन्तरं असौ 'अश्रेयस्करी' पापकारिणी 'इंखिणि 'त्ति निन्दा अन्येषामतो न कार्येति, 'मुनी न मज्जइ' इत्यादिकस्य सूत्रावयवस्य सूत्रस्पर्श गाथाद्वयेन निर्युक्तिकृदाह
न
नि. [४३]
तवसंजमणाणेसुवि जइ माणो वजिओ महेसीहिं । अत्तसमुक्करिसत्थं किं पुण हीला उ अन्नेसिं ॥
नि. [४४]
जइ ताव निज्जरमओ, पडिसिद्धो अट्टमाणमहणेहिं । अविसेसमयट्टाणा परिहरियव्वा पयत्तेणं ।।
'वेयालियरस निजुत्ती सम्मत्ता' तपः संयमज्ञानेष्वपि आत्मसमुत्कर्षणार्थम् उत्सेकार्थं यः प्रवृत्तो मानः यद्यसावपि तावद् वर्जितः त्यक्तो 'महर्षिभिः ' महामुनिभिः, किंपुनर्निन्दाऽन्येषां न त्याज्येति । यदि तावन्निर्जरामदोऽपि मोक्षैकगमनहेतुः प्रतिषिद्धः 'अष्टमामधनैः ' अर्हमिरवशेषाणि तु 'मदस्थानानि' जात्यादीनि 'प्रयलेन' सुतरां परिहर्तव्यानीति गाधाद्वयार्थः मू. (११२) जो परिभवइ परं जणं, संसारे परिवत्तई महं ।
अदु इंखिणिया उपाविया, इति संखाय मुनी न भज्जई ||
वृ. साम्प्रतं परनिन्दादोषमधिकृत्याह- 'जो परिभवइ' इत्यादि, यः कश्चिदविवेकी 'परिभवति' अवज्ञयति, 'परंजनं' अन्यं लोकम् आत्मव्यतिरिक्तं स तत्कृतेन कर्मणा 'संसारे' चतुर्गतिलक्षणे भवोदधावरघट्टघटीन्यायेन 'परिवर्तते' भ्रमति 'महद्' अत्यर्थं महान्तं वा कालं, क्वचित् 'चिरम्' इति पाठः, 'अदु'त्ति अथशब्दो निपातः निपातानामनेकार्थत्वात् अत इत्यस्यार्थे वर्तते, यतः परपरिभवादात्यन्तिकः संसारः अतः 'इंखिणिया' परनिन्दा तुशब्दस्यैवकारार्थत्वात् ।
७१
'पापिकैव' दोषवत्येव, अथवा स्वस्थानादधमस्थाने पातिका, तत्रेह जन्मनि सुधरो ध्यन्तः, परलोकेऽपि पुरोहितस्यापि श्वादिषूत्पत्तिरिति, इत्येवं 'संख्याय' परनिन्दां दोषवतीं ज्ञात्वा मुनिर्जात्यादिभिः यथाऽहं विशिष्टकुलोद्भवः श्रुतवान् तपस्वी भवांस्तु मत्तो हीन इति न माद्यति मदाभावे च यद्विधेयं तद्दर्शयितुमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org