________________
६६
सूत्रकृताङ्ग सूत्रम् १/२/१/९३ मू. (९३) देवां गंधव्वरक्खसा, असुरा भूमिचरा सरिसिवा ।
__राया नरसेहिमाहणा, ठाणा तेऽवि चयंति दुखिया ।। वृ. देवा-ज्योतिष्कसौधर्माद्याः, गन्धर्वराक्षसयोरुपलक्षणत्वादष्टप्रकारा व्यन्तरा गृह्यन्ते, तथा 'असुरा' दशप्रकारा भवनपतयः, येचान्ये भूमिचराः सरीसृपाद्याः तिर्यञ्चः, तथा 'राजानः' चक्रवर्तिनो बलदेववासुदेवप्रभृतयः । तथा 'नराः' सामान्यमनुष्याः 'श्रेष्ठिनः' पुरमहत्तराः ब्राह्मणाश्चैते सर्वेऽपि स्वकीयानि स्थानानि दुःखिताः सन्तस्त्यजन्ति, यतः-सर्वेषामपि प्राणिनां प्राणपरित्यागे महद्दुखं समुत्पद्यत इति । मू. (९४) कामेहि न संथवेहि गिद्धा, कम्मसहा कालेण जंतवो।
ताले जह बंधनच्छुए, एवं आउखयंमि तुट्टती ।। ६. किञ्च-'कामेहिं' इत्यादि, 'कामैः' इच्छामदनरूपैस्तथा संस्तवैः' पूर्वापरभूतैः 'गृद्धा' अध्युपपन्नाः सन्तः 'कम्मसह त्ति कर्मविपाकसहिष्णवः 'कालेन' कर्मविपाककालेन ‘जन्तवः' प्राणिनो भवन्ति, इदमुक्तं भवति-भोगेप्सोर्विपयाऽऽसेवनेन तदुपशममिच्छत इहामुत्र च क्लेश एव केवलं, न पुनरुपशमावाप्ति, तथाहि॥१॥ उपभोगोपायपरो वाञ्छति यः शमयितुं विषय तृष्णाम् ।
धावत्याक्रमितुमसौ पुरोऽपराह्ने निजच्छायाम् न च मुभूर्षो कामैः संस्तवैश्च त्राणमस्तीति दर्शयति-यथा तालफलं 'बन्धनात्' वृन्तात् च्युतम् अत्राणमवश्यंपतति, एवमसावपि स्वायुपः क्षये त्रुट्यति' जीवितातच्यवतइति । अपिचमू. (९५) जे यावि बहुस्सुए सिया, धम्मिय माहणभिक्खुए सिया।
अभिनूमकडेहिं मुच्छिए, तिळ ते कम्मेहिं किच्चती । वृ.ये चापि 'बहुश्रुताः' शास्त्रार्थपारगाः तथा धार्मिका' धर्माचरणशीलाः, तथा ब्राह्मणाः तथा भिक्षुका'भिक्षाटनशीलाः 'स्यु' भवेयुः, तेऽप्याभिमुख्येन ‘णूम'न्ति कर्म माया वा तत्कृतैः असनुष्ठानैः 'मूर्छिताः' गृद्धाः 'तीव्रम्' अत्यर्थं, अत्रच छान्दसत्वाद्वहुवचनं द्रष्टव्यं, 'ते' एवंभूताः 'कर्मभि' सद्वेद्यादिभि ‘कृत्यन्ते' छिद्यन्ते पीड्यन्त इतियावत् ।। मू. (१६) अह पास विवेगमुहिए, अवितिने इह भासई धुवं ।
नाहिसि आरंकओ परं, वेहासे कम्मेहिं किच्चती ।। वृ. साम्प्रतं ज्ञानदर्शनचारित्रमन्तरेम नापरो मोक्षमार्गोऽस्तीतित्रिकालविषयत्वात् सूत्रस्याऽऽगामितीर्थिकधर्मप्रतिषेधार्थमाह-'अथे'त्यधिकारान्तरे बहादेशे एकादेश इति, 'अथे' त्वनन्तरं एतञ्च ‘पश्य' कश्चित्तीर्थिको 'विवेक' परित्यागं परिग्रहस्य परिज्ञानं वा संसारस्याऽऽश्रित्यउत्थितः प्रव्रज्योत्थानेन, सच सम्यकपरिज्ञानाभावादवितीर्ण संसारसमुद्रं तितीर्घ, केवलम् ‘इह' संसारे प्रस्तावे वा शाश्वतत्वात् 'ध्रुवो' मोक्षस्तं तदुपायं वा संयम भाषत एवन पुनर्विधत्ते तत्परिज्ञानाभावादिति भावः।
तन्मार्गे प्रपन्नस्त्वमपि कथं ज्ञास्यसि 'आरम्' इहभवं कुतोवा 'परं' परलोकं यदिवा-आर मिति गृहस्थत्वं, परमिति प्रव्रज्यापर्यायं, अथवा-आरमिति संसारं परमिति मोक्षं, एवम्भूतश्चान्योऽप्युभयभ्रष्टः, वेहासि'त्ति अन्तराले उभयाभावतः स्वकृतैः कर्मभि ‘कृत्यते पीड्यत इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org