________________
श्रुतस्कन्धः- १, अध्ययन- २, उद्देशकः - १
६५
इतियावत्, भावनिद्रा तु ज्ञानदर्शनचारित्रशून्यता । तत्र द्रव्यबोधो द्रव्यिनिद्रया सुप्तस्य बोधनं, भावे-भावविषये पुनर्बोधो दर्शनज्ञानचारित्रतपःसंयमा द्रष्टव्याः । इह च भावग्रवोधेनाधिकारः, सचगाथापश्चार्टेन सुगमेन प्रदर्शितइति।अत्रच निद्राबोधयोर्द्रव्यभावभेदाच्चत्वारोभङ्गा योजनीया इति । मू. (९०) डहरा बुड्ढा य पासह गब्भत्था वि चयंति मानवा ।
सेणे जह वट्टयं हरे एवं आउखयंमि तुट्टई ॥ वृ. भगवानेव सर्वसंसारिणां सोपक्रमत्वादनियतमायुरुपदर्शयन्नाह-'डहराः' बाला एव केचन जीवितं त्यजन्ति, तथा वृद्धाश्च गर्भस्था अपि, एतत्पश्यत यूयं, के ते? -'मानवा' मनुष्याः, तेषामेवोपदेशदानार्हत्वात् मानवग्रहणं, बह्वपायत्वादायुषः सर्वास्वप्यवस्थासु प्राणी प्राणांस्त्यजतीत्युक्तं भवति, तथाहि -
त्रिपल्योपमायुष्कस्यापि पर्याप्त्यनन्तरमन्तर्मुहूर्तेनैव कस्यचिन्मृत्युरुपतिष्ठतीति, अपिच"गर्भस्थं जायमान" मित्यादि । अत्रैव दृष्टान्तमाह-यथा 'श्येनः' पक्षिविशेषो 'वर्तकं तित्तिरजातीयं 'हरेत्' व्यापादयेद्, एवं प्राणिनः प्राणान् मृत्युरपहरेत्, उपक्रमकारणमायुष्कमुपक्रामेत्, तदभावे वा आयुष्यक्षये 'त्रुट्यति' व्यवच्छिद्यते जीवानां जीवितमिति शेषः तथामू. (९१) मायाहिं पियाहिं लुप्पइ, नो सुलहा सुगई य पेचओ।
एयाई भयाइं पेहिया, आरम्भा विरमेज सुब्बए ।। वृ. कश्चिन्मातापितृभ्यां मोहेन स्वजनस्नेहेन च न धर्म प्रत्युद्यमं विधत्ते स च तैरेव मातापित्रादिभिः 'लुप्यते' संसारे भ्राभ्यते, तथाहि - ॥१॥ “विहितमलोहमहो महन्मातापितृपुत्रदारबन्धुसंज्ञम् ।
स्नेहमयमसुमतामदः किं बन्धनं श्रृङ्खलं खलेन धात्रा ? ॥ तस्य च स्नेहाकुलिज्ञानसस्य सदसद्विवेकविकलस्य स्वजनपोषणार्थ यत्किञ्चनकारिण इहैव सद्भिर्निन्दितस्य सुगतिरपि 'प्रेत्य' जन्मान्तरे नो सुलभा, अपि तु मातापितृव्यामोहितमनसस्तदर्थक्लिश्यतोविषयसुखेप्सोश्चदुर्गतिरेव भवतीत्युक्तंभवति, तदेवमेतानि भयानि' भयकारणानि दुर्गतिगमनादीनि पहिय'त्ति प्रेक्ष्य ‘आरम्भात्' सावधानुष्ठानरूपाद्विरमेत् ‘सुव्रतः' शोभनव्रतः सन्, सुस्थितो वेति पाठान्तरम् । मू. (९२) जमिणं जगती पुढो जगा, कम्मेहिं लुप्पंति पाणिणो ।
सयमेव कडेहिं गाहइ, नो तस्स मुच्चेजऽपुट्ठयं । वृ.अनिवृत्तस्य दोषमाह-'यद्' यस्मादनिवृत्तानामिदं भवति, किं तत्? - 'जगति' पृथिव्यां 'पुढो'त्ति पृथगभूता-व्यवस्थिताः सावधनुष्ठानोपचितैः ‘कर्मभि' 'विलुप्यन्ते' नरकादिषु यातनास्थानेषुभ्राभ्यन्ते, स्वयमेव च कृतैः कर्मभिः, नईश्वराद्यापादितैः, गाहते नरकादिस्थानानि यानि तानि वा कर्माणि दुःखहेतूनि गाहते-उपचिनोति,।
अनेन चहेतुहेतुमद्भावः कर्मणामुपदर्शितो भवति, न च 'तस्य' अशुभाचरितस्य कर्मणो विपाकेन अस्पृष्टः' अच्छुप्तो मुच्यते जन्तुः, कर्मणामुदयमननुभूयतपोविशेषमन्तरेणदीक्षाप्रवेशादिना न तदपगमं विधत्त इति भावः अधुना सर्वस्थानानित्यतां दर्शयितुमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org