________________
३८४
सूत्रकृताङ्ग सूत्रम् २/३/-/६८८ ततो पच्छा जं से माया नानाविहाओ रसविहीओ आहारमाहारेति ततो एगदेसेणं ओयमाहारेति, आनुपुवेण वुड्ढा पिलपागमणुपवन्ना ततो कायातो अभिनिवट्टमाणा इत्थि वेगया जणयंति पुरिसं वेगया जणयंति नपुंसगं वेगया जणयंति ।
ते जीवा डहरा समाणा माउक्खीरं सप्पिं आहारेति, आनुपुब्वेणं वुड्ढा ओयणं कुम्मासं तसथावरे य पाणे, ते जीवा आहारेति पुढविसरीरं जाव सारूविकडं संतं, अवरेऽवि य णं तेसिं नानाविहाणं मणुस्सगाणं कम्मभूमगाणं अकम्मभूमगाणं अंतरद्दीवगाणं आरियाणं मिलक्खूणं सरीरा नानावण्णा भवतीतिमक्खायं ।
वृ. अथानन्तरमेतत् 'पुरा' पूर्वमाख्यातं, तद्यथा आर्याणामनार्याणां च कर्मभूमिजाकर्मभूमिजादीनां मनुष्याणां नानाविधयोनिकानां स्वरूपं वक्ष्यमाणन्तीया समाख्यातं, तेषां च स्त्रीपुंनपुंसकभेदभिन्नानां 'यथाबीजेने 'ति यद्यस्य बीजं, तत्र स्त्रियाः सम्बन्धि शोणितं पुरुषस्य शुक्रं एतदुभय-मप्यविध्वस्तं, शुक्राधिकं सत्पुरुषस्य शोणिताधिकं स्त्रियास्तत्समता नपुंसकस्य कारणतां प्रतिपद्यते, तथा 'यथावकाशेने 'ति यो यस्यावकाशो मातुरुदरकुक्ष्यादिकः, तत्रापि किल वामा स्त्रियो दक्षिणा कुक्षि पुरुषस्यो भयाश्रितः षण्ढ इति ।
अत्र चाविध्वस्ता योनिरविध्वस्तं बीजमिति चत्वारो भङ्गाः, तत्राप्याद्य एव भङ्गक उत्पत्तेरवकाशो न शेषेषु त्रिष्विति । अत्र च स्त्रीपुंसयोर्वेदोदये सति पूर्वकर्मनिर्वर्तितायां योनी 'मैथुनप्रत्ययिको' रताभिलाषोदयजनितोऽग्निकारणयोररणिकाष्ठयोरिव संयोगः समुत्पद्यते, तत्संयोगे च तच्छुक्रशोणिते समुपादाय तत्रोत्पित्सवो जन्तवस्तैजसकार्मणाभ्यां शरीराभ्यां कर्मरज्जुसंदानितास्तत्रोत्पद्यन्ते । तेच प्रथममुभयोरपि स्नेहमाचिन्वन्त्विध्वस्तायां योनी सत्यामिति, विध्वस्यते तु योनिः पञ्चपञ्चाशिका नारी सप्तसप्ततिकः पुमान् इति, तथा द्वादश मुहूर्तानि यावच्छुक्रशोणिते अविध्वस्तयोनिके भवतः तत ऊर्ध्वं ध्वंसमुपगच्छत इति ।
तत्र च जीवा उभयोरपि स्नेहमाहार्य स्वकर्मविपाकेन यथास्वं स्त्रीपुन्पुंसकभावेन 'विउर्वृति' त्ति वर्तन्ते समुत्पद्यन्त इतियावत्, तदुत्तरकालं च स्त्रीकुक्षौ प्रविथः सन्तः स्त्रियाऽऽहारितस्याहारस्य निर्यासं स्नेहमाददति, तत्स्नेहेन च तेषां जन्तूनां क्रमोपचयाद् अनेन क्रमेण निष्पत्तिरुपजायते- 'सत्ताहं कललं होइ, सत्ताहं होइ बुब्बुयं' इत्यादि । तदेवमनेन क्रमेण तदेकदेशेन वा मातुराहारमोजसा मिश्रेण वा लोमभिर्वाऽऽनुपूर्व्येणाहारयन्ति 'यथाक्रमम्' वृद्धिमुपागताः सन्तो 'गर्भपरिपाकं' गर्भनिष्पत्तिमनुप्रपन्नास्ततो मातुः कायादभिनिवर्तमानाः पृथग्भवन्तः सन्तस्तद्योनेर्निर्गच्छन्ति ।
ते च तथाविधकर्मोदयादात्मनः स्त्रीभावमप्येकदा 'जनयन्ति' उत्पादयन्यपरे केचन पुंभावं नपुंसकभावं च इदमुक्तं भवति स्त्रीपुंनपुंसकभावः प्राणिनां स्वकृतकर्मनिर्वर्तितो भवति, न पुनर्यो याहि भवे सोऽमुष्मिन्नपिताध्गेवेति, ते च तदहर्जातबालकाः सन्तः पूर्वभवाभ्यासादाहाराभि-लाषिणो मातुः स्तनस्तन्यमाहारयन्ति, तदाहारेण चानुपूर्व्येण च वृद्धास्तदुत्तरकालं नवनीत - दध्योदनादिकं यावत्कुल्माषान् भुञ्जते, तथाऽऽहारयन्ति, तच्चाहारितमात्मसात्कृतं सारूप्यमापादितं सत् 'रसासृङ्गांसमेदोऽस्थिमज्जाशुक्राणि धातव' इति सप्तधा व्यवस्थापयन्ति, अपराण्यपि तेषां नानाविधमनुष्याणां शरीराणि नानावर्णान्याविर्भवन्ति, ते च तद्योनिकत्वात्तदाधा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org