________________
श्रुतस्कन्धः-१, अध्ययनं-६,
१५९
'पण्डकवैजयन्त' इति, पण्डकवनं शिरसि व्यवस्थितं वैजयन्तीकल्पं-पताकाभूतं यस्य स तथा, तथाऽसावूर्ध्वमुच्छ्रितो नवनवतिर्योजनसहस्राण्यघोऽपि सहमेकमवगाढ इति । तथाभू. (३६२) पुढे नभे चिट्ठइ भूमिवहिए, जं सूरिया अनुपरिवठ्ठयंति।
से हेमवन्ने बहुनंदणे य, जंसी रतिं वेदयती महिंदा ।। वृ. 'नभसि' 'स्पृष्टो' लग्नोनभो व्याप्य तिष्ठति तथा भूमिंचावगाह्यस्थितइतिऊर्ध्वाधस्तिर्यकूलोकसंस्पर्शी, यथा 'यं' मेरुं 'सूर्या' आदित्या ज्योतिष्का अनुपरिवर्तयन्ति' यस्य पार्वतो भ्रमन्तीत्यर्थः, तथाऽसौ “हेमवर्णो' निष्टप्तजाम्बूनदाभः, तथा बहूनि चत्वारि नन्दनवनानि यस्य सबहुनन्दनवनः।
तथाहि-भूमौ भद्रशालवनं ततः पञ्च योजनशतान्यारुह्य मेखलायां नन्दनं ततो द्विषष्टियोजनसहस्राणि पंचशताधिकान्यतिक्रम्य सौमनसं ततः षटत्रिशत्सहाण्यारुह्य शिखरे पण्डकवनमिति, तदेवमसौ चतुर्नन्दनवनाथुपेतो विचित्रक्रीडास्थानसमन्वितः, यस्मिन महेन्दा अप्यागत्य त्रिदशालयाद्रमणीयतरगुणेन ‘रति' रमणक्रीडां 'वेदयन्ति' अनुभवन्तीति ।। मू. (३६३) से पव्वए सद्दमहप्पगासे, विरायती कंचणमट्टवन्ने ।
अनुत्तरे गिरिसुयपव्वदुग्गे, गिरीवरे से जलिएव भोमे ।। वृ. अपिच-सः-मेख्यिोऽयं पर्वतो मन्दरो मेरु सुदर्शनः सुरगिरिरित्येवमादिभिः शब्दै महान् प्रकाशः-प्रसिद्धिर्यस्य स शब्दमहाप्रकाशो 'विराजते' शोभते, काञ्चनस्येव 'मृष्टः' श्लक्ष्णः शुद्धो वा वर्णो यस्य स तथा।
__ एवं न विद्यते उत्तरः-प्रधानो यस्यासावनुत्तरः, तथा गिरिषुच मध्ये पर्वभिमेखलादिभिर्दष्ट्रापर्वतैर्वा 'दुर्गो' विषमः सामान्यजन्तूनांदुरारोहो गिरिवरः' पर्वतप्रधानः, तथाऽसौ मणिभिरौषधीभिश्च देदीप्यमानतया 'भौम इव' भूदेश इव ज्वलित इति । किञ्च-- मू. (३६४) महीइ मन्झमि ठिते नगिंदे, पन्नायते सूरियसुद्धलेसे।
एवं सिरीए उस भूरिवन्ने, मनोरमे जोयइ अच्चिमाली ।। वृ. 'मह्यां' रलप्रभापृथिव्यांमध्यदेशेजम्बूद्वीपस्तस्यापिबहुमध्यदेशे सौमनसविद्युत्प्रभगन्धमादनमाल्यवन्तदंष्ट्रापर्वतचतुष्टयोपशोभितः समभूभागेदशसहसविस्तीर्णः शिरसि सहमेकमधस्तादपिदशसहस्राणिनवतियोजनानि योजनैकादशभागैर्दशभिरधिकानिविस्तीर्णः चत्वारिंशत् यौजनो च्छ्रितचूडोपशोभितो 'नगेन्द्रः' पर्वतप्रधानो मेरु प्रकर्षेण लोके ज्ञायते सूर्यवशुद्धलेश्यः
___ आदित्यसमानतेजाः, “एवम्' अनन्तरोक्तप्रकारया श्रिया तुशब्दाद्विशिष्टतरया सः-मेरु 'भूरिवर्णः' अनेकवर्णों अनेकवर्णरलोपशोभितत्वात् मनः-अन्तःकरणं रमयतीति मनोरमा 'अर्चिमालीव' आदित्य इव स्वतेजसा द्योतयति दशापि दिशः प्रकाशयतीति । मू, (३६५) सुदंसणस्सेव जसो गिरिस्स, पवुच्चई महतो पव्वयस्स ।
एतोवमे समणे नायपुत्ते, जातीजसोदसणनाणसीले ।। वृ. साम्प्रतंमेरुद्दष्टान्तोपक्षेपेण दान्तिकं दर्शयत-एतदनन्तरोक्तं यशः' कीर्तनंसुदर्शनस्य मेरुगिरेः महापर्वतस्य प्रोच्यते, साम्प्रतमेतदेव भगवति दार्शन्तिके योज्यते-एषा-अनन्तरोक्तोपमायस्य स एतदुपमः, कोऽसौ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org