________________
१५८
सूत्रकृताङ्ग सूत्रम् १/६/-/३५७
अग्नि स एव प्रज्वलितत्वात् इन्द्रो यथाऽसौ तमोऽपनीय प्रकाशयति, एवमसावपि भगवानज्ञानतमोऽपनीय यथावस्थितपदार्थप्रकाशनं करोति किञ्चमू. (३५८) अनुत्तरं धम्ममिणं जिणाणं, नेया मुनी कासव आसुपन्ने ।
इंदेव देवाण महानुभावे, सहस्सनेता दिविणं विसिट्टे ॥ · वृ.नास्योत्तरोऽस्तीत्यनुत्तरस्तमिममनुत्तरंधर्मं जिनानाम् ऋषभादितीर्थकृतांसम्बन्धिनमयं 'मुनि' श्रीमान् वर्धमानाख्यः 'काश्यपः' गोत्रेण 'आशुप्रज्ञः' केवलज्ञानी उत्पन्नदिव्य- ज्ञानो 'नेता' प्रणेतेति, ताच्छीलिकस्तृन्, तद्योगे न लोकाव्ययनिष्ठे' त्यादिना षष्ठीप्रतिषेधाद्धर्ममित्यत्र कर्मणि द्वितीयैव, यथा चेन्द्रो 'दिवि' स्वर्गे देवसहाणां 'महानुभावो' महाप्रभाववान् ‘णम्' इति वाक्यालङ्गारे तथा 'नेता' सप्रणायको विशिष्ट रूपबलवर्णादिभिःप्रधानःएवं भगवानपि सर्वेभ्यो विशिष्टः प्रणायको महानुभावश्चेति ।। मू. (३५९) से पन्नया अक्खयसागरे वा, महोदही वावि अनंतपारे।
अनाइले वा अकसाइ मुक्के, सक्केव देवाहिवई जुईमं ।। वृ.अपिच-असौभगवान् प्रज्ञायतेऽनयेति प्रज्ञा तया अक्षयः' नतस्य ज्ञातव्येऽर्थेबुद्धिः प्रतिक्षीयतेप्रतिहन्यते वा, तस्य हि बुद्धिः केवलज्ञानाख्या, सा च साधपर्यवसाना कालतो द्रव्यक्षेत्रभावैरप्यनन्ता, सर्वसाम्येन दृष्टान्ताभावाद्, एकदेशेन त्वाह-यथा 'सागर' इति, अस्य चाविशिष्टवातूविशेषणमाह-'महोदधिरिव' स्वयम्भूरमणइवानन्तपारः यथाऽसौ विस्तीर्णो गम्भीरजलोऽक्षोभ्यश्च, एवं तस्यापि भगवतो विस्तीर्णा प्रज्ञा स्वयम्भूरमणानन्तगुणा गम्भीराऽक्षोभ्या च।
यथा च असौसागरः 'अनाविलः' अकलुषजलः एवं भगवानपितथाविधकर्मले-शाभावादकलुषज्ञान इति, तथा-कषाया विद्यन्ते यस्यासौ कषायी न कषायी अकषायी, तथा ज्ञानावरणीयादिकर्मबन्धनाद्वियुक्तोमुक्तः, भिक्षुरितिक्वचित्पाठः, तस्यायमर्थ-सत्यपि निःशेषा-न्तरायक्षये सर्वलोकपूज्यत्वेचतथापि भिक्षामात्रजीवित्वात् भिक्षुरेवासौ,नाक्षीणमहान-सादिलब्धिमुपजीवतीति, तथा शक्र इव देवाधिपति ‘धुतिमान्' दीप्तिमानिति ॥ किञ्चमू. (३६०) से वीरिएणं पडिपुन्नवीरिए, सुदंसणे वा नगसव्वसेट्टे। - सुरालए वासिमुदागरे से, विरायए नेगगुणोववेए॥
वृ. 'स' भगवान् ‘वीर्येण' औरसेन बलेन धृतिसंहननादिभिश्च वीर्यान्तरायस्य निशेषतः क्षयात् प्रतिपूर्णवीर्यः, तथा 'सुदर्शनों' मेरूजम्बूद्वीनाभिभूतः स यथा नगानां-पर्वतानां सर्वेषां श्रेष्ठः-प्रधानः तथा भगवानपि वीर्येणान्यैश्च गुणैः सर्वश्रेष्ठ इति, तता यथा 'सुरालयः' स्वर्गस्तन्निवासिनां मुदाकरो' हर्षजनकः प्रशस्तवर्णरसगन्धस्पर्शप्रभावादिभिर्गुणैरुपेतो 'विराजते' शोभते, एवं भगवानप्यनेकैर्गुणैरुपेतो विराजत इति, यदिवा-यथा त्रिदशालयो मुदाकरोऽनेकैर्गुणैरुपेतो विराजत इति एवमसावपि मेरुरिति। मू. (३६१) सयं सहस्साण उ जोयणाणं, तिकंडगे पंडगवेजयंते।
से जोयणे नवनवते सहस्से, उद्धस्सितो हेट्ठ सहस्समेगं॥ वृ. पुनरपि हटान्तभूतमेरुवर्णनायाह-स मेरुयोजनसहरमाणां शतमुच्चैस्त्वेन, तथा त्रीणि कण्डान्यस्येति त्रिकण्डः, तद्यथा-भौम जाम्बूनदं वैडूर्यमिति, पुनरप्यसावेव विशेष्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org