SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १६० सूत्रकृताङ्ग सूत्रम् १/६/-/३६५ श्राम्यतीति श्रमणस्तपोनिष्टप्तदेहो ज्ञाताः-क्षत्रियास्तेषां पुत्रः श्रीमन्महावीरवर्द्धमानस्वामीत्यर्थः, सचजात्या सर्वजातिमद्भ्यो यशसा असेषयशस्विभ्योदर्शनज्ञानाभ्यां सकलदर्शनज्ञानिभ्यः शीलेन समस्तशीलवम्यः श्रेष्ठः-प्रधानः, अक्षरघटना तु जात्यादीनां कृतद्वन्द्वानामतिशायने अर्शआदित्वादच्प्रत्ययविधानेन विधेयेति । पुनरपि द्दष्टान्तद्वारेणैव भगवतो व्यावर्णनमाहमू. (३६६) गिरिवरेवा निसहाऽऽययाणं, रुयए व सेढे वलयायताणं। तओवमे से जगभूइपन्ने, मुनीन मज्झे तमुदाहु पन्ने ।। वृ. यथा 'निषधो' गिरिवरो गिरीणामायतानां मध्ये जम्बूद्वीपे अन्येषु वा द्वीपेषु दैर्येण 'श्रेष्ठः' प्रधानः तथा-वलयायतानां मध्ये रुचक- पर्वतोऽन्येभ्यो वलयायतत्वेन यथा प्रधानः, स हि रुचकद्वीपान्तवर्ती मानुषोत्तरपर्वत इव वृत्तायतः सफ़ेययोजनानि परिक्षेपेणेति । तथा स भगवानपि तदुपमः यथा तावायतवृत्तताभ्यां श्रेष्ठौ एवं भगवानपि जगति-संसारे भूतिप्रज्ञः-प्रभूतज्ञानः प्रज्ञया श्रेष्ठ इत्यर्थः, तथा अपरमुनीनां मध्ये प्रकर्षेण जानातीति प्रज्ञः एवं तत्स्वरूपविदः 'उदाहुः' उदाहृतवन्त उक्तवन्त इत्यर्थः ।। मू. (३६७) अनुत्तरं धम्ममुईरइत्ता, अनुत्तरं झाणवरं झियाई। सुसुक्कसुक्कं अपगंडसुक्क, संखिंदुएगंतवदातसुक्छ । वृ. किञ्चान्यत्-नास्योत्तरः-प्रधानोऽन्यो धर्मो विद्यते इत्यनुत्तरः तमेवम्भूतं धर्मं 'उत्' प्राबल्येन 'ईरयित्वा' कथयित्वा प्रकाश्य अनुत्तरं प्रधानं 'ध्यानवरं' ध्यानश्रेष्ठंध्यायति, तथाहिउत्पन्नज्ञानो भगवान् योगनिरोधकाले सूक्ष्म काययोगं निरुन्धन् शुक्लध्यानस्य तृतीयं भेदं सूक्ष्मक्रियमप्रतिपाताख्यंतथा निरुद्धयोगश्चतुर्थ शुक्लध्यानभेदं व्युपरतक्रियमनिवृत्ताख्यंध्यायति, एतदेवदर्शयति-सुष्ठशुक्लवशुक्लं ध्यानंतथा अपगतंगण्डम-अपद्रव्यं यस्य तदपगण्डं निर्दोषार्जुनसुवर्णवत् शुक्लं यदिवा-अपगण्डम्-उदकफेनं तत्तुल्यमिति भावः । तथा शझेन्दुवदेकान्तावदातं-शुभ्रं शुक्लं-शुक्लध्यानोत्तरं भेदद्वयं ध्याती। अपिचमू. (३६८) अनुत्तरगं परमं महेसी, असेसकम्मंस विसोहइत्ता। सिद्धिं गते साइमनंतपत्ते, नाणेण सीलेण यदसणेण ।। वृ. तथाऽसौ भगवान् शैलेश्यवस्थापादितशुक्लध्यानचतुर्थमेदानन्तरं साधपर्यवसानां सिद्धिगतिपञ्चमी प्राप्तः, सिद्धिगतिमेव विशिनष्टि-अनुत्तरा चासौ सर्वोत्तमत्वादग्र्याच लोकाग्रव्यवस्थितत्वादनुत्तराग्र्यातां परमां प्रधानां महर्षि असावत्यन्तोग्रतपोविशेषनिष्टप्तदेहत्वाद् अशेषं कर्म-ज्ञानावरणादिकं 'विशोध्य' अपनीय च विशिष्टेन ज्ञानेन दर्शनेन शीलेन च क्षायिकेण सिद्धिगतिं प्राप्त इति मीलनीयम् ॥ मू. (३६९) रुक्खेसु जाते जह सामली वा, जस्सिं रति वेययती सुचना । बनेसु वा नंदनमाहु सेलु, नाणेण सीलेण य भूतिपन्ने ।। घ. पुनरपि दृष्टान्तद्वारेण भगवतः स्तुतिमाह-वृक्षेषु मध्ये यथा 'ज्ञातः' प्रसिद्धो देवकुरुव्यवस्थितः शाल्मलीवृक्षः, सच भवनपतिक्रीडास्थानं, 'यत्र व्यवस्थिताअन्यतश्चागत्य 'सुपर्णा भवनपतिविशेषा ‘रति' रमणक्रीडां 'वेदयन्ति' अनुभवन्ति, वनेषुचमध्ये यथा नन्दनं वनं देवानां क्रीडास्थानं प्रधान एवं भगवानपि 'ज्ञानेन' केवलाख्येन समस्तपदार्थाविर्भावकेन For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy