________________
उपोद्घात् नियुक्तिः
॥४
॥
एमेव य परिणामो गंधाण रसाण तहय फासाणं ।
___ संठाणाण य भणिओ संजोगेणं बहुविगप्पो ।। एकत्रिंशद्भङ्गा एवं पूर्यन्ते-दश द्विकसंयोगा दश त्रिकसंयोगाः पञ्च चतुष्कसंयोगा एकः पञ्चकसंयोगः प्रत्येकं वर्णाश्च पञ्चेति । अगुरुलघुपरिणामस्तु परमाणोरारभ्य यावदनन्तानन्तप्रदेशिकाः स्कन्धाः सूक्ष्माः, शब्दपरिणामस्ततविततघनशुषिरभेदाच्चतुर्द्धा, तथा ताल्चोष्ठपुटव्यापाराघभिनिवर्तयश्च, अन्येऽपिच पुद्गलपरिणामाश्छायादयो भवन्ति, ते चामी - ॥१॥ छाया य आयवो वा उज्जोओ तहय अंधकारो य।
एसो उ पुग्गलाणं परिणामो फंदणा चेव ।। ॥२॥ सीया नाइपगासा छावा नाइच्यिा बहुविगप्पा ।
उण्हो पुणप्पगासो नायव्वो आयवो नाम ।। ॥३॥ नवि सी नवि उण्हो समो पगासो य होइ उज्जोओ।
___ कालं मइलं तमंपिय वियाण तं अंधयारंति ।। दव्वस्स चलण पप्फंदणा र सा पुण गई उ निद्दिठा ।
वीससपओगमीसा अत्तपरेणं तु उभओवि ।। तथाऽभेन्द्रधनुर्विधुदादिषु कार्येषु यानि पुद्गलद्रव्याणि परिणतानितद्विनसाकरणमिति गतं द्रव्यकरणम्, इदानी क्षेत्रकरणाभिधित्सयाऽऽहनि. [९] न विणा आगासेणं कीरइ जं किंचि खेत्तमागासं ।
वंजणपरियावण्णं उच्छुकरणमादियं बहुहा ।। वृ. 'क्षि निवासगत्योः अस्मादधिकरणे ष्ट्रना क्षेत्रमिति, तञ्चावगाहदानलक्षणमाकाशं, तेनचावगाहदानयोग्येन विना न किञ्चिदपि कर्तुशक्यत इत्यतः क्षेत्रेकरणं क्षेत्रकरणं, नित्यत्वेऽपि चोपचारतः क्षेत्रस्यैव करणं क्षेत्रकरणं, यथा गृहादावपनीते कृतमाकाशमुत्पादिते विनष्टमिति ।
यदिवा 'व्यञ्जनपर्यायापन्नं' शब्दद्वाराऽऽयातम् ‘इक्षुकरणादिक मिति इक्षुक्षेत्रस्य करणम्लाङ्गलादिना संस्कारः क्षेत्रकरणं, तच्च बहुधा-शालिक्षेत्रादिभेदादिति । साम्प्रतं कालकरणाभिधित्सयाऽऽहनि. [१०] कालो जो जावइओ जं कीरइ जंमिमि कालंमि ।
ओहेण नामओ पुण करणा एक्कारस हवंति ।। वृ.कालस्यापि मुख्यं करणं न संभवतीत्यौपचारिकं दर्शयति-'कालो यो यावानिति' यः कश्चिद् घटिकादिको नलिकादिना व्यवच्छिद्य व्यवस्थाप्यते, तद्यथा-षष्टयुदकपलमाना घटिका द्विघटिको मुहूर्त्तस्त्रिंशन्मुहूर्तमहोरात्रमित्यादि, तत्कालकरणमिति,यद्वा-यत्यस्मिन् काले क्रियते यत्र वा काले करणं व्याख्यायते तत्कालकरणम्, एतदोघतः, नामतस्त्वेकादश करणानि । नि. [११] बंव च बालवं चेव, कोलवं तेत्तिलं तहा।
गरादि वणियं चेव, विट्ठी हवइ सत्तमा ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org