SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ १० सूत्रकृताङ्ग सूत्रम् 91-1-1-/ नि. [१२] नि. [१२] सउणि चउप्पयं नागं किंसुग्धं च करणं भवे एयं । एते चत्तारि धुवा अन्ने करणा चला सत्त ।। नि. [१३] चाउद्दसि रत्तीए सउणी पडिवजए सदा करणं । तत्तो अहक्कम खलु चउप्पयं नाग किंसुग्धं ।। वृ. एतद्गाथात्रयं सुखोनेयमिति। नि. [१४] भावे पओगवीसस पओगसा मूल उत्तरे चेव । उत्तर कमसुयजोवण वण्णादी भोअणादीसु ।। वृ. भावकरणमपि द्विधा-प्रयोगविनसाभेदात्, तत्र जीवाश्रितंप्रायोगिकंमूलकरणंपञ्चानां शरीराणां पर्याप्ति, तानि हि पर्याप्तिनामकर्मोदयादौदयिके भावे वर्तमानो जीवःस्ववीर्यजनितेन प्रयोगेण निष्पादयति। उत्तरकरणंतुगाथापश्चार्द्धनाह-उत्तरकरणंक्रमश्रुतयौवनवर्णादिचतूरूपं, तत्रक्रमकरणं शरीरनिष्पत्त्युत्तरकालं बालयवस्थविरादिक्रमेणोत्तरोत्तरोऽवस्थाविशेषः, श्रुतकरणं तु व्याकरणादिपरिज्ञानरूपोऽपरकलापरिज्ञानरूपश्चेति, यौवनकरणकालकृतो वयऽवस्थाविशेषो रसायनाद्यापादितो वेति, तथा वर्णगन्धरसस्पर्शकरणं विशिष्टेषु भोजनादिषु सत्सु यद् विशिष्टवाद्यापादनमिति, एतञ्च पुद्गलविपाकित्वाद्वर्णादीनामजीवाश्रितमपि द्रष्टव्यमिति । इदानीं विनसाकरणाभिधित्सयाऽऽह-- - नि. [१५] वण्णादिया य वण्णादिएसुजे केइ वीससामेला । तेहुंति थिरा अथिरा छायातवदुद्धमादीसु॥ वृ. 'वर्णादिका' इति रूपरसगन्धस्पर्शा ते यदाऽपरेष्वपरेषां व स्वरूपादीनां मिलन्ति ते वर्णादिमेलका विनसाकरणं, ते च मेलकाः स्थिरा-असंख्येयकालावस्थायिनः, अस्थिराश्चक्षणावस्थायिनः, सन्ध्यारागाभ्रेन्द्रधनुरादयो भवन्ति, तथा छायात्वेनातपत्वेन च पुद्गलानां विनसापरिणामत एव परिणामो भावकरणं दुग्धादेश्च स्तनाच्यवनानन्तरं प्रतिक्षणं कठिणाम्लादिभावेन गमनमिति । साम्प्रतं श्रुतज्ञानमधिकृत्य मूलकरणाभिधित्सयाऽऽहनि. [१६] मूलकरणं पुण सुते तिविहे जोगे सुभासुभे झाणे। ससमयसुएण पगयं अज्झवसाणेण य सुहेणं ॥ वृ. 'श्रुते पुनःश्रुतग्रन्थेमूलकरणमिदं त्रिविधेयोगे' मनोवाकायलक्षणे व्यापारेशुभाशुभे च ध्याने वर्तमानैर्ग्रन्थरचना क्रियते, तत्र लोकोत्तरे शुभध्यायानावस्थितैर्ग्रन्थरचना विधीयते, लोके त्वशुभध्यानाश्रितैर्ग्रन्थग्रथनं क्रियत इति, लौकिकग्रन्थस्य कर्मबन्धहेतुत्वात् करिशुभध्यायित्व-मवसेयम् । इह तु सूत्रकृतस्य तावत्स्वसमयत्वेन शुभाध्यवसायेन च प्रकृतं, यस्माद्गणधरैः शुभध्यानावस्थितैरिदमङ्गीकृतमिति । तेषां च ग्रन्थरचनां प्रति शुभध्यायिनां कर्मद्वारेण योऽवस्थाविशेस्तं दर्शयितु कामो नियुक्तिकृदाहनि. [१७] ठिइअनुभावे बंधणनिकायणनिहत्तदीहहस्सेसु । __ संकमउदीरणाए उदए चेदे उवसमे य॥ वृ. तत्र कर्मस्थिति प्रति अजधन्योत्कृष्टकर्मस्थितिभिर्गणधरैः सूत्रमिदं कृतमिति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy