SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्ग सूत्रम् १/-1-1-नि. [६] स्वरूपनिष्पत्तिरेव मूलकरणम्, अङ्गोपाङ्गाभावानौत्तरकरणं, यदिवा औदारिकस्य कर्णवेधादिकमुत्तरकरणं, वैक्रियस्य तूत्तरकरणम् । उत्तरवैक्रियं, दन्तकेशादिनिष्पादनरूपं वा, आहारकस्य तु गमनाथुत्तरकरणं, यदिवा औदारिकस्य मूलोत्तरकरणे गाथापश्चार्थेन प्रकारान्तरेण दर्शयति-'द्रव्येन्द्रियाणि' कलम्बुकापुष्पाद्याकृतीनि मूलकरणं, तेषामेव परिणामिनां विषौषधादिभि पाटवाघापादनमुत्तरकरणमिति । साम्प्रतमजीवाश्रितं करणमभिधातुकाम आह-- नि. [७] संघायणे य परिसाडणा व मीसे तहेव पडिसेहो। पडसंखसगडथूणाउड्ढतिरिच्छादिकरणं च ।। वृ. संघातकरणम् आतानवितानभूततन्तुसंधातेनपटस्य, परिसाटकरणं-करपत्रादिना शङ्खस्य निष्पादनं, संघातपरिसाटकरणं-शकटादेः, तदुभयनिष्वकरणं-स्थूणादेरूतिरश्चीनाद्यापादनमिति ॥ प्रयोगकरणमभिधाय विम्रसाकरणाभिधित्सयाऽऽहनि. [८] खंधेसुदुप्पएसादिएसु उब्भेसु विन्जुभाईसु । निफन्नगाणि दव्वाणि जाण तं वीससाकरणं ॥ वृ. विनसाकरणं साद्यनादिभेदात्रि, तत्रानादिकं धर्माधर्माऽऽकाशानामन्योऽन्यानवेधेनावस्थानम, अन्योऽन्यसमाधानाश्रयणाच्चसत्यप्यनादित्वेकरणत्वाविरोधः, चपिद्रव्याणां चद्वयणुकादिप्रक्रमेण भेदसंघाताभ्यां स्कन्धत्वापत्ति सादिकं करणं, पुद्गलद्रव्याणां च दशविधः परिणामः, तद्यथा। बंधनगतिसंस्थानभेदवर्णगन्धरसस्पर्शअगुरुलधुशब्दरूपइति, तत्र बन्धः स्निग्धरूक्षत्वात्, गतिपरिणामो-देशान्तरप्राप्तिलक्षणः, संस्थानपरिणामः-परिमण्डलादिकः पञ्चधा, भेदपरिणामःखण्डप्रतरचूर्णकानुतटिकोत्करिकाभेदेन पञ्चधैव, खंडादेस्वरूपप्रतिपादकं चेदंगाधाद्वयम्, तद्यथा ॥१॥ 'खंडेहि खंडभेयं पयरमेयं जहब्भपडलस्स। चुण्णं चुण्मियभेयं अनुतडियं वंसवक्कलियं ।। ॥२॥ दुर्भुमि संमारोहे भेए उक्केरिया य उक्केरं। वीससपओगमीसगसंधायविओग विविहगमो ।। वर्णपरिणामः पञ्चानांश्वेतादीनां वर्णानांपरिणतिस्तद्वयादिसंयोगपरिणतिश्च, एतत्स्वरूपं च गाथाभ्योऽवसेयं, ताश्चेमाः॥१॥ 'जइ कालगमेगगुणं सुक्किलयंपि य हविज्ञ बहुयगुणं ।' __ परिणामिज्जइ कालं सुक्केण गुणाहियगुणेणं ।। ॥२॥ जइ सुक्किलमेगगुणं कालगदव्वं तु बहुगुणं जइ य । परिणामिज्जइ सुकं कालेण गुणाहियगुणेणं ॥ ॥३॥ जइ सुकं एक्कगुणं कालगदबपि एक्कगुणमेव । ___ कावोयं परिणामंतुल्लगुणत्तेण संभवइ । ॥४॥ एवं पंचवि वण्णा संजोएणं तु वण्णपरिणामो। एकत्तीसं भंगा सव्वेवि य ते मुने यव्वा॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy