________________
२४२
सूत्रकृताङ्ग सूत्रम् १/१२/-/५५२ रिणस्तान्सर्वानप्यात्मतुल्यान्-आत्मवत्पश्यति-सर्वस्मिन्नपि लोकेयावप्रमाणंममतावदेव कुन्थोरपि, यथावाममदुःखमनभिमतमेवं सर्वलोकस्यापि, सर्वेषामपिप्राणिनांदुःखमुत्पद्यते, दुःखाद्वोद्विजन्ति, तथा चागमः- "पुढविकाएणं भंते! अक्कतेसमाणे केरिसर्यवेयणं वेएइ!" इत्याद्याःसूत्रालापकाः, इति मत्वा तेऽपि नाक्रमितव्यान संघट्टनीयाः, इत्येवं यः पश्यति स पश्यति । तथा लोकमिमं महान्तमुत्प्रेक्षते, षड़जीवसूक्ष्माबादरभेदैराकुलत्वान्महान्तं, यदिवाऽनाद्यनिधनत्वान्महान् लोकः, तथाहि-भव्या अपि केचन सर्वेणापि कालेन न सेत्स्यन्तीति।
___ यद्यपिद्रव्यतःषडद्रव्यात्मकत्वात् क्षेत्रतश्चतुर्दशरज्जुप्रमाणतया सावधिको लोकस्तथापि कालतो भावतश्चानाद्यनिधनत्वात्पर्यायाणां नानन्तत्वान्महान् लोकस्तमुप्रेक्षत इति । एवं च लोकमुत्प्रेक्षमाणोबुद्धः-अवगततत्त्वः सर्वाणि प्राणिस्थानान्यशाश्वत्तानि, तथा नात्रापसदेसंसारे सुखलेशोऽप्यस्तीत्येवं मन्यमानः 'अप्रमत्तेषु' संयमानुष्ठायिषु यतिषु मध्ये तथाभूत एव परिसमन्ताद्ब्रजेत् परिव्रजेत्, यदिवा बुद्धः सन् 'प्रमत्तेषु गृहस्थेषु अप्रमत्तः सन संयमानुष्ठाने परिव्रजेदिति मू. (५५३) जे आयओ परओ वावि नचा, अलमप्पणो होति अलं परेसिं।
तंजोइभूतं च सयावसेजा, जे पाउकुजा अनुवीति धम्म ।। वृ. किञ्च-'यः' स्वयं सर्वज्ञआत्मनैलोक्योदरविवरवर्तिपदार्थीदर्शी यथाऽवस्थितं लोकं ज्ञात्वा तथायश्च गणधरादिकः ‘परतः तीर्थकरादेर्जीवादीन् पदार्थान् विदित्वा परेभ्य उपदिशति स एवंभूतो हेयोपादेयवेदी ‘आत्मनस्त्रातुमलं' आत्मानं संसारावटात्पालयितुं समर्थो भवति, तथा परेषां च सदुपदेशदानतानाता जायते।
'त' सर्वज्ञं स्वत एव सर्ववेदिनं तीर्थकरादिकं परतोवेदिनं च गणधरादिकं ज्योतिर्भूतं' पदार्थप्रकाशकतया चन्द्रादित्यप्रदीपकल्पमात्महितमिच्छन् संसारदुःखोद्विग्नः कृतार्थमात्मानं भावयन् 'सततम्' अनवरतम् 'आवसेत्' सेवेत, गुर्वन्तिक एव यावज्जीवं वसेत्, तथा चोक्तम् ॥१॥ “नाणस्स होइ भागी थिरयरओ दंसणे चरित्ते या
धन्ना आवकहाए गुरुकुलवासं न मुंचंति॥ कएवं कुर्युः? इति दर्शयति-चेकर्मपरिणतिमनुविचिन्त्य "माणुस्सखेत्तजाइ" इत्यादिना दुर्लभां च सद्धर्भावाप्तिं सद्धर्म वा श्रुतचारित्राख्यं क्षान्त्यादिदशविधसाधुधर्मं श्रावकधर्मं वा 'अनुविचिन्त्य' पर्यालोच्य ज्ञात्वा वा तमेव धर्मं यथोक्तानुष्ठानतः 'प्रादुष्कुर्यु' प्रकटयेयुः ते गुरुकुलवासंयावजीवमासेवन्त इति, यदिवायेज्योतिर्भूतमाचार्य सततमासेवन्तितएवागमज्ञा धर्ममनुविचिन्त्य 'लोकं पञ्चास्तिकायात्मकं चतुर्दशरज्वात्मकं वा प्रादुष्कुर्युरिति क्रिया । म. (५५४) अत्ताण जो जाणति जो य लोगं, गइंच जो जाणइ नागइंच।
जो सासयं जाण असासयंच, जाति मरणं च जणोरवायं ।। वृ. किंचान्यत्-यो ह्यात्मानं परलोकयायिनं शरीराद्यतिरिक्तं सुखदुःखाधारं जानाति यश्चात्महितेषुप्रवर्ततेसआत्मज्ञो भवति । येनचात्मा यथावस्थितस्वरूपोऽहंप्रत्ययग्राह्यो निम्तो भवति तेनैवायं सर्वोऽपि लोकः प्रवृत्तिनिवृत्तिरूपो विदितो भवति, स एव चात्मज्ञोऽस्ती
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org