________________
श्रुतस्कन्धः - २, अध्ययनं -३,
३७३ संख्येवर्षायुषामनियतकालीयः प्रक्षेपाहार इति।साम्प्रतंप्रक्षेपाहारस्वामिविभागेन दर्शयितुमाह नि. [१७३] एगिदियदेवाणं नेरइयाणंच नत्थि पक्खेवो ।
सेसाणं पक्खेवो संसारत्थाणजीवाणं ।। घृ. एकमेव स्पर्शेन्द्रियं येषां ते भवन्त्येकेन्द्रियाः-पृथिवीकायादयस्तेषां देवनारकाणांच नास्ति प्रक्षेपः, ते हि पर्याप्तयुत्तरकालं स्पर्शेन्द्रियेणैवाहारयन्तीतिकृत्वा लोमाहाराः, तत्र देवानां मनसा परिकल्पिताःशुभःपुद्गलाः सर्वेणैव कायेनपरिणमन्ति नारकाणांत्वशुभा इत,शेषास्त्वीदारिकशरीराद्वीन्द्रियायस्तिर्यङ्मनुष्याश्च तेषां प्रक्षेपाहार इति, तेषां संसारस्थितानांकायस्थितेरेवाभावाप्रक्षेपमन्तरेण, कावलिक आहारो जिहेन्द्रयस्य सद्भावादिति, अन्ये त्वाचार्य अन्यथा व्याचक्षते-तत्र योजिलेन्द्रियेणस्थूलः शरीरेनक्षिप्यतेसप्रक्षेपाहारः, यस्तुध्राणदर्शनश्रवणैरुपलभ्यते धातुभावेन परिणमति स ओजाहारः, यः पुनः स्पर्शेन्द्रियेणैवोपलभ्यते धातुभावेन प्रयाति स लोभाहार इति ।। साम्प्रतं कालविशेषमधिकृत्वाऽनाहारकानभिधित्सुराह-तत्र । ॥१॥ विग्गहगइमावन्ना केवलिणो समुहया अयोगी या।
सिद्धाय अनाहार सेसा आहारगा जीवा ।। अस्या लेशतोऽयमर्थः उत्पत्तिकाले विग्रगती-वक्रगतावापन्नाः केवलिनो लोकपूरणकाले समुद्घातावस्थिता अयोगिनः-शैलेश्यवस्थाः सिद्धाश्चानाहरकाः, शेषास्तुजीवा आहारका इत्यवगन्तव्यं, तत्रभवाद्भवान्तरंयदा समश्रेण्या याति तदाऽनाहारको न लभ्यते, यदापि विश्रेण्यामेकेन वक्रेणोत्पद्यते तदापिप्रथमसमये पूर्वशरीरस्थेनाहारितंद्वितीये त्ववक्रसमये समाश्रितशरीरस्थेनेति, वक्रद्वये तु त्रिसमयोत्पत्ती मध्यमसमयेऽनाहारक इति इतरयोस्त्वाहारक इति, वक्रत्रये तु चतुःसमयोत्पत्तिके मध्यवर्तिनोः समययोरनाहारकः, चतुः समयोत्पत्तिश्चैवं भवति-त्रसनाड्या बहिरुपरिष्टादधोऽधस्ताद्वोपर्युत्पद्यमानो दिशो विदिशि विदिशो वा दिशियदोत्पद्यते तदा लभ्यते, तत्रैकेन समयेन त्रसनाडीप्रवेशो द्वितीयेनोपर्यधो वागमनं, तृतीयेनच बहिनिसरणं, चतुर्थेन तु विदिश्रुत्पत्तिदेशे प्राप्तिरिति । पञ्चसमया तुत्रसनाड्या बहिरेव विदिशो विदिस्त्पत्तौ लभ्यते तत्र चमध्यवर्तिषु अनाहारक इत्यवगन्तव्यम्, आद्यन्तसमययोस्त्वाहारक इति।केवलिसमुदघातेऽपि कार्मणशरीरवर्तित्वात् तृतीयचतुःपञ्चमसमयेष्वनाहारको द्रष्टव्यः । शेषेषु तु औदारिकतन् मिश्रशरीरवर्तित्वादाहक इति । नि. [१७४] एवं च दो व समए तिनि व समए मुहुत्तमद्धं वा ।
सादीयमनिहणं पुन कालमनाहारगा जीवा ।। वृ. मुहुत्तमद्धं च ति अन्तर्मुहूर्तं गृह्यते, तच्च केवली स्वायुषःक्षये सर्वयोगनिरोधे सति हस्वपञ्चाक्षरोद्गिरणमात्रकालंयावदनाहारक इत्येवमवगन्तव्यं । सिद्धजीवास्तुशैलेश्यवस्थाया आदिसमयादारभ्यानन्तमपि कालमनाहारका इति । नि. [१७५] एकं च दो व समए केवलिपरिवजिया अनाहारा ।
मंथंमि दोण्णि लोए य पूरिए तिन्नि समया उ ।। घृ. साम्प्रतमेतदेवस्वामि-विशेषविशेषिततरमाह-केवलिपरिवर्जिताः संसारस्था जीवा एकं द्वौ वा अनाहारका भवन्ति । ते च द्विविग्रहत्रिविग्रहोत्पत्ती त्रिचतुःसामयिकायां द्रष्टव्याः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org