________________
सूत्रकृताङ्ग सूत्रम् २/३// ६७४ / नि. [१७० ] भावाहारस्त्वयं-क्षुधोदयाद्भक्ष्यपर्यायापन्नं वस्तु यदाहारयति स भावाहार इति । तत्रापि प्रायश आहारस्य जिह्वेन्द्रियविषयत्वात्तिक्तकटुकषायाम्ललवणमधुररसा गृह्यन्ते, तथा चोक्तम् राईभत्ते भावओ तित्ते वा जाव मधुरे" त्यादि, अन्यदपि प्रसङ्गेन गृह्यते, तद्यथास्वरविशदमभ्यवहार्यं भक्ष्यं, तत्रापि बाष्पाढ्य ओदनः प्रशस्वते न शीतः, उदकं तु शीतमेव, तथा चोक्तं" शैत्यमपां प्रधानो गुणः" एवं तावदभ्यवहार्यं द्रव्यमाश्रित्य भावाहारः प्रतिपादितः, साम्प्रतमाहारकमाश्रित्य भावाहारं निर्युक्तुकृदाह- भावाहारस्त्रिविधः - त्रिपकारो भवति, आहारकस्य जन्तोस्त्रिभिः प्रकारैराहारोपादानादिति, प्रकारानाह -
नि. [१७१]
सरीरेणोयाहारी तयाय फासेण लोमआहारो । पक्खेवाहारी पुण कावलिओ होइ नायव्वो ।
वृ ओए' त्ति तैजसेन शरीरेण तत्सहचरितेन च कार्मणेनाभ्यां दाभ्यामप्याहारयति यावदपर मौदारिकादिकं शरीरं न निष्पद्यते, तथा चोक्तम् -
॥१॥
"तेएण कम्मएणं आहारेइ अनंतरं जीवो । तेन परं मिस्सेणं जाव सरीरस्स निष्पत्ती ॥ ओयाहारा जीवा सव्वे अप्पजत्तगा मुणेयव्वा । पजत्तगा य लोमे पक्खेवे होइ नायव्वा ॥
नि. [१७२]
वृ. तथा ओजाहारा जीवा सव्वे आहारगा अपजत्ता । लोभाहारस्तु शरीरपर्याप्त्युत्तरकालं बाह्यया त्वचा, लोमभिराहारो लोमाहारः, तथा प्रक्षेपेण कवलादेराहारः प्रक्षेपाहारः, स च वेदनीयोदयेन चतुर्भिस्थानैराहारसंज्ञासद्भावाद्भवति, तथा चोक्तम्- "चउहिं ठाणेहिं आहारसन्ना समुप्पज्जइ, तंजा - ओमकोट्टयाए १ छुहावेयणिजस्स कम्मस्स उदएणं २ मईए ३ तयट्ठोवओगेणं ति
साम्प्रतमेतेषां त्रयाणामप्येकयैव गाथया व्याख्यानं कर्तुमाह-तैजसेन कार्मणेन च शरीरेणीदारिकादिशरीरानिष्पत्तेर्मिश्रेण च य आहारः स सर्वोऽप्योजाहार इति, केचिच्याचक्षतेऔदारिकादिशरीरपर्याप्तयापर्याप्तकोऽपीन्द्रियानापानभाषामनःपर्याप्तिभिरपर्याप्तकः शरीरेणाहारयन् ओजाहार इति गृह्यते, तदुत्तरकालं तु त्वचा स्पर्शेन्द्रियेण य आहारः स लोमाहार इति प्रक्षेपाहारस्तु 'कावलिकः' कवलप्रक्षेपनिष्पादित इति ज्ञातव्यो भवति । पुनरप्येषामेव स्वामिविशेषेण विशेषमाविर्भावयन्नाह-यः प्रागुक्तः शरीरेणौजसाऽऽहारस्तेनाहारेणाहारका जीवाः सर्वेऽप्यपर्याप्तका ज्ञातव्याः, सर्वाभिः पर्याप्तिभिरपर्याप्तास्ते वेदितव्याः, तत्र प्रथमोत्पत्तौ जीवः पूर्वशरीरपरित्यागे विग्रहेणा विग्रहेण वोत्पत्तिदेशे तैजसेन कार्मणेन च शरीरेण तप्तस्नेहपतितसंपानकवत्तठप्रदेशस्थानात् पुद्गलानादत्ते, तदुत्तरकालमपि यावदपर्याप्तकावस्था तावदोजाहार इति । पर्याप्तकास्त्विन्द्रियादिभिः पर्याप्तिभिः पर्याप्ताः केषांचिन्मतेन शरीरपर्याप्तका वा गृह्यन्ते, तदेवं ते लोमाहारा भवन्ति, तत्र स्पर्शेन्द्रियेणोष्मादिना तप्तश्छायया शीतवायुनोदकेन वा प्रीयते प्राणी गर्भस्थोऽपि, पर्याप्तयुत्तर काले लोभाहार एवेति, प्रक्षेपाहारे तु भजनीयाः, यदैव प्रक्षेपं कुर्वन्ति तदैव प्रक्षेपाहारा नान्यदा, लोमाहारता तु वाय्वादिस्पर्शात्सर्वदैवेति, स च लोभाहारचक्षुष्मताम् अर्वाष्टिमतां न दृष्टिपथमवरति, अतोऽसौ प्रतिसमयवर्ती प्रायशः, प्रक्षेपाहारस्तूपलभ्यते प्रायः, स च नियतकालीयः, तद्यथा देवकुरूत्तरकुरु प्रभवा अष्टमभक्ता हाराः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
३७२