________________
३७४
सूत्रकृताङ्ग सूत्रम् २/३/-/६७४/ नि. [१७५]
चतुर्विग्रहपञ्चसमयोत्पत्तिस्तु स्वल्पस-त्त्वाश्रितेति न साक्षादुपात्ता, तथा चान्यत्राप्यभिहितम्"एकं द्वौ वाऽनाहारकः" वाशब्दात् त्रीन् वा, आनुपूर्व्या अप्युदय उत्कृष्टतो विग्रहगती चतुरः समयानागमेऽभिहितः, तेच पञ्चसमयोत्पत्तौ लभ्यन्ते नान्यत्रेति। भवस्थकेवलिनस्तु समुद्घाते मन्थे तत्करणोपसंहारावसरे तृतीयपञ्चमसमयौ द्वौ लोकपूरणाचतुर्थसमयेन सहितायः समया भवन्तीति। नि. [१७६] अंतोमुत्तमद्धं सेलेसीए भवे अनाहारा ।
__सादीयमनिहणं पुन सिद्धायऽनहारगा होति।। वृ. पुनरपि नियुक्तिकारः सादिकमपर्यवसानं कालमनाहारकत्वं दर्शयितुमाहशैलेश्यवस्थाया आरम्भय सर्वदाऽनाहारकः सिद्धावस्थाप्राप्तावनन्तमपि कालं यावदिति, पूर्व तु कावलिकव्यतिरेकेण प्रतिसमयमाहारकः कावलिकेन तु कादाचित्क इति । ननु केवलिनो घातिकर्मक्षयेऽनन्तवीर्यत्वान्न भवत्येव कावलिक आहारः,तथाहि-आहारादाने यानि वेदनादीनि षट् कारणान्यभिहितानि तेषांमध्ये एकमपि न विद्यते केवलिनि तत्कथमसावाहारंबहुदोषदुष्टं गृह्णीयात् ?, तत्र न तावत्तस्य वेदनोत्पद्यते, तवेदनीयस्य दग्धरज्जुस्थानिकत्वात्, सत्यामपिन तस्य तत्कृता पीडा, अनन्तवीर्यत्वात्, वैयावृत्यकारणं तु भगवति सुरासुरनराधिपतिपूज्ये न संभाव्यत एवेति।
-ईर्यापथः पुनः केवलज्ञानावरणपरिक्षयात्सम्यगवलोकयत्येवासी, संयमस्तु तस्य यथाख्यातचारित्रिणो निष्ठितार्थत्वान्नाहारग्रहणायकारणीभवति,प्राणवृत्तिस्तुतस्यानपवर्तित्वात् आयुषोऽनन्तवीर्यत्वाचान्यथा सिद्धैव,धर्मचिन्तावसरस्वपगतो निष्ठितार्थत्वात्, तदेवं केवलिनः कावलिकाहारो बह्नपायत्वान्न कथञ्चिद् घटत इति स्थितम्, अत्रोच्यते, तत्र यत्तावदुक्तं 'घातिकर्मक्षयेकेवलज्ञानोत्पत्तावनन्तवीर्यत्वान्न केवलिनो भुक्ति रिति, तदागमानभिज्ञस्य तत्त्वविचाररहितस्य युक्तिहृदयमजानतो वचनं, तथा हि-यदाहारनिमित्तं वेदनीयं कर्म तत्तस्य तथैवाऽऽस्ते, किमिति सा शारीरी स्थितिः प्राक्तनी न भवति?
प्रमाणं च-अस्ति केवलिनो भुक्तिः, समग्रसामग्रीकत्वात्पूर्वभुक्तिवत्, सामग्री चेयं प्रक्षेपाहारस्य, तद्यथा-पर्याप्तत्वं १ वेदनीयोदयः २ आहारपक्तिनिमित्तं तैजसशरीरं३दीर्घायुष्कत्वं ४ चेति, तानि च समस्तान्यपि केवलिनि सन्ति, यदपि दग्धरज्जुसंस्थानिकत्वमुच्यते वेदनीयस्य तदप्यनागमिकमयुक्तिसंगतं च, आगमे हत्यन्तोदयः सातस्य केवलिन्यभिधीयते, युक्तिरपियदिघातिकर्मक्षयाज्ज्ञानादयस्तस्याभूवनवेदनीयोद्भवायाःक्षुधः किमायातं? येनासौ न भवति, न तयोचायातपयोरिव सहानवस्थानलक्षणो नापि भावाभावयोरिव परस्परपरिहारलक्षणः कश्चिद्विरोधोऽस्तीति, सातासातयोश्चान्तर्मुहूर्तपरिवर्तमानतया यथा सातोदय एवमसातोदयोऽपीत्यनन्तवीर्यत्वेसत्यपि शरीरबलापचयः क्षुद्वेदनीयोद्भवापीडाच भवत्येव, नचाहारग्रहणे तस्य किंचित्क्षीयते, केवलमाहोपुरुषिकामात्रमेवेति।
यदप्युच्यते-वेदनीयस्योदीरणाया अभावाप्रभूततरपुद्गलोदयाभावस्तदभावाञ्चात्यन्तं वेदनीयपीडाऽभावइति वाङ्मात्रं, तथाहि अविरतसम्यग्दृष्टयादिष्वेकादशसुस्थानकेषुवेदनीयस्य गुणश्रेणीसद्भावात्प्रभूतपुद्गलोदयसद्भावः ततः किं तेषुप्राक्तनेभ्योऽधिकपीडासद्भाव इति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org