________________
श्रुतस्कन्धः -१, अध्ययनं -१, उद्देशकः - २
वा बन्धनं बन्धकत्वाद्बन्धमित्युच्यते, तदेवंभूतं कूटपाशादिकं बन्धनं यद्यसावुपरि प्लवेत् तदधस्तादतिक्रम्योपरि गच्छेत, तस्य वध्यार्देईन्धनस्याधो (वा) गच्छेत्, ततएवं क्रियमाणेऽसौ मृगः पदे पाशः पदपाशो-वागुरादिबन्धनं तस्मान्मुच्येत ! यदिवा पदं-कूटं पाशः-प्रतीतस्ताभ्यां मुच्येत, कचित्पदापाशादीति पठ्यते, आदिग्रहणाद्वधताडनमारणादिकाः क्रिया गृह्यन्ते, एवं सन्तमपि तमनर्थपरिहरणोपायं मन्दो' जडोऽज्ञानावृतोन देहती तिन पश्यतीति ।। कूटपाशादिकं चापश्यन् यामवस्थामवाप्नोति तां दर्शयितुमाहमू. (३६) अहिअप्पाऽहियपन्नाणे, विसमंतेनुवागते ।
सबद्धे पयपासेणं, तत्थ घायं नियच्छइ॥ वृ. स मृगोऽहितात्मा तथाऽहितं प्रज्ञानं-बोधो यस्य सोऽहितप्रज्ञानः, स चाहितप्रज्ञानः सन् ‘विषमान्तेन' कूटपाशादियुक्तेन प्रदेशेनोपागतः, यदिवा-विषमान्ते-कूटपाशादिके आत्मानमनुपातयेत्, तत्र चासौ पतितो बद्धश्च तेन कूटादिना पदपाशादीननर्थबहुलानवस्थाविशेषान् प्राप्तः 'तत्र' बन्धने 'घातं' विनाशं 'नियच्छति' प्राप्नोतीति एवं दृष्टान्तं प्रदर्श्य सूत्रकार एव दान्तिकमज्ञानविपाकं दर्शयितुमाहमू. (३७) एवं तु समणा एगे, मिच्छदिट्ठी अनारिआ।
असंकिआई संकंति, संकिआई असंकिणो ।। वृ. एवमिति यथा मृगा अज्ञानावृता अनर्थमनेकशः प्राप्नुवन्ति, तुरवधारणे, एवमेव 'श्रमणाः केचित् पाखण्डविशेषाश्रिताः एकेन सर्वे, किंभूतास्ते इति दर्शयति-मिथ्या-विपरीता दृष्टिर्येषामज्ञान- वादिनां नियतिवादिनां वा ते मिथ्यादृष्टयः, तथा 'अनार्या' आराधाताः सर्वहेयधर्मेभ्य इति आर्यान आर्या अनार्या अज्ञानवृतत्वादसदनुष्ठायिन इतियावत् ।
अज्ञानावृतत्वं च दर्शयति-'अशङ्कितानि' अशङ्कनीयानि सुधर्मानुष्ठानादीनि शङ्कमानाः, तथा 'शङ्कनीयानि' अपायबहुलानि एकान्तपक्षसमाश्रयणानि, अशङ्किनोमृगा इवमूढचेतसस्तत्तदाऽऽरभन्ते तद्यदनाय संपद्यन्त इति शङ्कनीयाशङ्कनीयविपर्यासमाहमू. (३८) धम्मपन्नवणा जा सा, तंतु संकति मूढगा।
आरंभाइं न संकंति, अविअत्ता अकोविआ॥ वृ.धर्मस्य-क्षान्त्यादिदशलक्षणोपेतस्य या प्रज्ञापना-प्ररूपणा, 'तांतु' इति तामेव 'शङ्कन्ते' असद्धर्मप्ररूपणेयमित्येवमध्यवस्यन्ति, ये पुनः पापोपादानभूताः समारम्भास्तानाशङ्कन्ते, किमिति ? यतः 'अव्यक्ता' मुग्धाः-सहजसद्विवेकविकलाः, तथा 'अकोविदा' अपण्डिताःसच्छास्त्रा-वबोधरहिता इति ।। तेच अज्ञानावृता यन्त्राप्नुवन्ति तदर्शनायाहमू. (३९) सव्वप्पगं विउक्कसं, सव्वं नूमं विहूणिआ।
अप्पत्तिअंअकम्मसे, एयमझु मिगे चुए। वृ. सर्वत्राप्यात्मा यस्यासौ सर्वात्मको-लोभस्तं विधूयेति सम्बन्धः, तथा विविध उत्कर्षो गर्यो व्युत्कर्षो-मान इत्यर्थ, तथा 'नूमंति माया तां विधूय, तथा 'अप्पत्तियं ति क्रोधं विधूय, कषायविधून-नेनचमोहनीयविधूननभावेदितं भवति, तदपगमाच्चाशेषकर्माभावः प्रतिपादितो भवतीत्याह।
'अकर्माश' इति न विद्यते कर्माशोऽस्येत्यकर्माशः, सचाकर्मीशो विशिष्टज्ञानाद्भवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org