SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ १८ सूत्रकृताङ्ग सूत्रम् १/१/१/१ किंपुनस्तबुध्येतातआह-'बन्धनं वध्यते जीवप्रदेशैरन्योऽन्यानुवेधरूपतयाव्यवस्थाप्यत इति बन्धन-ज्ञानावरणाद्यष्टप्रकारं कर्म तद्धेतवो वा मिथ्यात्वाविरत्यादयः परिग्रहारम्भादयोवा, न च बोधमात्रादभिलषितार्थावाप्तिर्भवतीत्यत क्रियां दर्शयति-तच्च बंधनं परिज्ञाय विशिष्टया क्रियया-संयमानुष्ठानरूपया 'त्रोटयेद्' अपनयेदात्मनः पृथक्कुर्यात्परित्यजेद्वा, एवं चाभिहितेजम्बूस्वाम्यादिको विनेयो बन्धादिस्वरूपे विशिष्टं जिज्ञासुः पप्रच्छ-'किमाह' किमुक्तवान् बन्धनं 'वीरः' तीर्थकृत् ?, किंवा ‘जानन्' अवगच्छंस्तद्बन्धनं त्रोटयति ततो वा त्रुट्यति?, इति श्लोकार्थ : बन्धनप्रश्नस्वरूपप्रश्नविर्वचनायाहमू. (२) चित्तमंतमचित्तं वा, परिगिज्झ किसामवि । अन्नं वा अनुजाणाइ, एवं दुक्खा न मुच्चइ ।। वृ. इह बन्धनं कर्म तद्धेतवो वाऽभिधीयन्ते, तत्र न निदानमन्तरेण निदानिनो जन्मेति निदानमेव दर्शयति, तत्रापि सर्वारम्भाः दर्शयति, तत्रापि सर्वारम्भाः कर्मोपादानरूपाः प्रायश आत्मात्मीयग्रहोत्थाना इतिकृत्वाऽऽदौ परिग्रहमेव दर्शितवान्, चित्तम्उपयोगो ज्ञानं तद्विद्यते यस्यतच्चित्तवत-द्विपदचतुष्पदादि, ततोऽन्यदचित्तवत-कनकरजतादि, तभयरूपमपिपरिग्रहं परिगृह्य 'कृशमपि स्तोकमपि तृणतुषादिकमपीत्यर्थ, यदिवा कसनं कसः-पिग्रहग्रहणबुद्धया जीवस्य गमनपरिणाम इतियावत्। तदेवं स्वतः परिग्रहं परिगृह्यान्यान्वा ग्राहयित्वा गृण्हतो वाऽन्याननुज्ञाय दुःखयतीति दुःखम्-अष्टप्रकारकर्मतत्फलं वा असातोदयादिरूपंतस्मान मुच्यत इति, परिग्रहाग्रह एव परमार्थतोऽनर्थमूलं भवति, तथा चोक्तम् -- ॥१॥ममाहमिति चैष यावदभिमानदाहज्वरः, कृतान्तमुखमेवतावदितिनप्रशान्त्युनयः यशःसुखपिपासितैरयमसावनअॅत्तरैः, परैरपसदः कुतोऽपि कथमप्यपाकृष्यते ।। ॥२॥ (तथा च) “द्वेषस्यायतनं धृतेरपचयः क्षान्तेः प्रतीपो विधि व्याक्षेपस्य सुहृन्मदस्य भवनं ध्यानस्य कष्टो रिपुः। दुःखस्य प्रभवः सुखस्य निधनं पापस्य वा सो निजः, प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च ।। तथा च परिग्रहेष्वप्राप्तनटेषु काङ्क्षशोकौ प्राप्तेषु च रक्षणमुपभोगे चातृप्तिरित्येवं परिग्रहे सति दुःखात्मकाबन्धनान्न मुच्यत इति परिग्रहवतश्चावश्यंभाव्यारम्भरतस्मिंश्च प्राणातिपात इति दर्शयितुमाहमू. (३) सयं तिवायए पाणे, अदुवाऽन्नेहिं घायए। हणतं वाऽनुजाणाइ, वेर वड्ढइ अप्पणो॥ दृ.यदिवा-प्रकारान्तरेणबन्धनमेवाह-'सयंतीत्यादि', सपरिग्रहवानसंतुष्टोभूयस्तदर्जनपरः समर्जितोपद्रवकारिणि च द्वेषमुपगतस्ततः 'स्वयम्' आत्मना 'त्रिभ्यो' मनोवाक्कायेभ्य आयुर्बलशरीरेभ्यो वा 'पातयेत्' च्यावयेन 'प्राणान्' प्राणिनः, अकारलोपाद्वा अतिपातयेत् प्राणानिति, प्राणाश्चामी॥१॥ ‘पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्वासनिश्वासमथान्यदायुः। प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy