SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं-१, उद्देशकः - १ १२ तथा स परिग्रहाग्रही न केवलं स्वतो व्यापादयति अपरैरपि घातयति घ्नतश्चान्यान् समनुजानीते, तदेवं कृतकारितानुमतिभिःप्राण्युपमर्दनेन जन्मान्तरशतानुबन्ध्यात्मनो वैरंवर्धयति, ततश्चदुःखपरम्परारूपान्धनान मुच्यत इति । प्राणातिपातस्य चोपलक्षणार्थत्वात् मृषावादादयोऽपि बन्धहेतवो द्रष्टव्या इति पुनर्बन्धनमेवाश्रित्याह-- जस्सिं कुले समुप्पन्ने, जेहिं वा संबसे नरे। ममाइ लुप्पई बाले, अन्ने अन्नेहि मुच्छिए ।। वृ. 'जस्सि' मित्यादि, 'यस्मिन्' राष्ट्रकूटादौ कुले जातो 'यैर्वा' सहपांसुक्रीडितैर्वयस्यैर्भार्यादिभिर्वा सह संवसेन्नरः, तेषु मातृपितृभ्रातृभगिनि भार्यावयस्यादिषुममायमितिममत्ववान् स्निह्यन् 'लुप्यते' विलुप्यते, ममत्वजनितेन कर्मणा नारकतिर्यमनुष्यामरलक्षणे संसारेभ्रम्यमाणो बाध्यते-पीड्यते। कोऽसौ ? - बालः' अज्ञः, सदसद्विवेकरहितत्वाद्, अन्येष्वन्येषुच 'मूर्छितो' गृद्धोऽध्यु-पपन्नो, ममत्ववहुल इत्यर्थ, पूर्वतावन्मातापित्रोस्तदनुभार्यायां पुनः पुत्रादौ स्नेहवानिति साम्प्रतं यदुक्तं प्राक् 'किं वा जानन् बन्धनं त्रोटयतीति,' अस्य निर्वचनमाहमू. (4) वित्तं सोयरिया चेव, सव्वमेयं न ताणइ । संखाए जीविअंचेवं, कम्मुणा तिउट्टइ। वृ. 'वित्तं द्रव्यं, तच्च सचित्तमचित्तं वा, तथा 'सोदर्या' भ्रातृभगिन्यादयः, सर्वमपि च 'एतद् वित्तादिकं संसारान्तर्गतस्यासुमतोऽतिकटुकाः शारीरमानसीवेदनास्समनुभवतोन त्राणाय' रक्षणाय भवतीत्येतत् ‘संख्याय' ज्ञात्वा तथा जीवितंच' प्राणिनां स्वल्पमिति संख्याय-ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया तुसचित्तचित्तपरिग्रहप्राण्युपधातस्वजनस्नेहादीनिबन्धनस्थानानि प्रत्याख्याय 'कर्मणः सकाशात् 'त्रुट्यति' अपगच्छत्यसौ, तुरवधारणे, त्रुट्येदेवेति, यदिवा'कर्मणा' क्रियया संयमानुष्ठानरूपया बन्धनात्रुट्यति, कर्मणः पृथग्भवतीत्यर्थअध्ययनार्थाधिकाराभिहितत्वात्स्वसमयप्रतिपादनानन्तरं परसमयप्रतिपादनाभिधित्सयाऽऽहमू. (६) एए गंथे विउक्कम्म, एगे समणमाहणा। अयाणंता विउस्सित्ता, सत्ता कामेहि माणवा ।। वृ. 'एतान्' अनन्तरोक्तान् ग्रन्थान् ‘व्युत्क्रम्य' परित्यज्य स्वरुचिविरचितार्थेषु ग्रन्थेषु सक्ताः 'सिताः' बद्धाः, एके, न सर्वे इति संबन्धः ।ग्रन्थातिक्रमश्चैतेषां तदुक्तार्थानभ्युपगमात्, अनन्तरग्रन्थेषु चायमर्थोभिहितः तद्यथा-जीवास्तित्वे सति ज्ञानावरणीयादिकर्मबन्धनं, तस्य हेतवो मिथ्यात्वा- विरतिप्रमादादयः परिग्रहारम्भादयश्च, तत्रोटनं च सम्यग्दर्शनाधुपायेन, मोक्षसद्भावश्चेत्येवमादिकः तदेवमेके 'श्रमणाः' शाक्यादयो बार्हस्पत्यमतानुसारिणश्च ब्राह्मणाः 'एतान्' अर्हदुक्तान् ग्रन्थानतिक्रम्य परमार्थमजानाना विविधम्-अनेकप्रकारम् उत्-प्राबल्येन् सिता-बद्धाः स्वसम- येष्वभिनिविष्टाः । तथा च शाक्या एवं प्रतिपादयन्ति, यथासुखदुःखेच्छाद्वेषज्ञानाधारभूतो नास्त्यात्मा कश्चित्, किंतु विज्ञानमेवैकं विवर्तत इति, क्षणिकाः सर्वसंस्कारा इत्यादि, तथा सांख्या एवं - व्यवस्थिताः-सत्त्वरजस्तमसां साम्यावस्था प्रकृति, प्रकृतेर्महान्, महतोऽहङ्कारः तस्माद्गणश्च षोडशकः ।। तस्मात्षोडशकादपि पञ्च भूतानि, चैतन्यं पुरुषस्य स्वरूपमित्यादि, वैशेषिकाः पुनराहुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy