________________
श्रुतस्कन्धः-१, अध्ययनं-१२,
२३३ ___ साम्प्रतमक्रियावादिदर्शनं निराचिकीर्षुपश्चार्धमाह-लवं-कर्म तस्मादपशङ्कितुम्-अपसर्तुं शीलं येषांते लवापशङ्किनो-लोकायतिकाः शाक्यादयश्च, तेषामात्मैव नास्ति कुतस्तक्रिया तज्जनितो वा कर्मबन्ध इति, उपचारमात्रेण त्वस्ति बन्धः, तद्यथा। ॥१॥ “बद्धा मुक्ताश्च कथ्यन्ते, मुष्टिग्रन्थिकपोतकाः ।
नचान्ये द्रव्यतः सन्ति, मुष्टिग्रन्थिकपोतकाः ॥ तथाहि-बौद्धानामयमभ्युपगमो, यथा-'क्षणिकाः सर्वसंस्कारा' इति ‘अस्थितानां कुतः क्रिये' त्यक्रियावादित्वं, योऽपि स्कन्धपञ्चकाभ्युपगमस्तेषां सोऽपि संवृतिमात्रेण न परमार्थेन, यतस्तेषामयमभ्युपगमः, तद्यथा-विचार्यमाणाः पदार्थान कथञ्चिदप्यात्मानांविज्ञानेन समर्पयितुमलं
तथाहि-अवयवी तत्त्वान्यत्त्वाभ्यां विचार्यमाणो न घटां प्राञ्चति, नाप्यवयवाः परमाणुपर्यवसानतयाऽतिसूक्ष्मत्वाज्ज्ञानगोचरतां प्रतिपद्यन्ते, विज्ञानमपि ज्ञेयाभावेनमूर्तस्य निराकारतया न स्वरूपं बिभर्ति, तथा चोक्तम् - ॥१॥ “यथा यथाऽश्चिन्त्यन्ते, विविच्यन्ते तथा तथा ।
यद्येतत्स्वयमर्थेभ्यो, रोचते तत्र के वयम् ? ।। इति, प्रच्छन्नलोकायतिका हि बौद्धाः, तत्रानागतैः क्षणैः चशब्दादतीतैश्च वर्तमानक्षणस्यासंगतेन क्रिया, नापि च तज्जनितः कर्मबन्ध इति । तदेवमक्रियावादिनो नास्तिकवादिनः सर्वापलापितया लवावतिनः सन्तो न क्रियामाहुः, तथा अक्रिय आत्मा येषां सर्वव्यापितया तेऽप्यक्रियावादिनः सांख्याः।
तदेवं ते लोकायतिकबौद्धसांख्या अनुपसंख्यया-अपरिज्ञानेनेति-एतत् पूर्वोक्तमुदाहृतवन्तः, तथैतत्त्वज्ञानेनैवोदाहृतवन्तः, तद्यथा-अस्माकमेवमभ्युपगमेऽर्थोऽवभासते-युज्यमानको भवतीति, तदेवं श्लोकपूर्वार्द्ध काकाक्षिगोलकन्यायेनाक्रियावादिमते ऽप्यायोज्यमिति ।
साम्प्रतमक्रियावादिनामज्ञानविजृम्भितं दर्शयितुमाहमू. (५३९) सम्मिस्सभावं च गिरा गहीए, से मुम्मुई हो अनानुवाई।
इमं दुपक्खं इममेगपक्खं, आ हंसु छलायतणं च कम्मं ।। वृ.स्वकीययगागिरा-वाचा स्वाभ्युपगमेनैव गृहीते तस्मिन्नर्थेनान्तरीयकतयावासमागते सति तस्याऽऽयातस्यार्थस्य गिरा प्रतिषेधं कुर्वाणाः सम्मिश्रीभावम्' अस्तित्वनास्तित्वाभ्युपगमं ते लोकायतिकादयः कुर्वन्ति, वाशब्दाप्रतिषेधे प्रतिपाद्येऽस्तित्वमेव प्रतिपादयन्ति, तथाहिलोकायतिकास्तावस्वशिष्येभ्योजीवाद्यभावप्रतिपादकंशास्त्रप्रतिपादयन्तो नान्तरीयकतयाऽऽस्मानं कर्तारं करणं च शास्त्रं कर्मतापन्नांश्च शिष्यानवश्यमभ्युपगच्छेयुः, सर्वशून्यत्वे त्वस्य त्रितयस्याभावान्मिश्रीभावो व्यत्ययोवा । बौद्धा अपि मिश्रीभावमवमुपगताः, तद्यथा - ॥१॥ “गन्ता च नास्ति कश्चिद्गतयः षङ्बौद्धशासने प्रोक्ताः।
गम्यत इति च गति स्याच्छुति कथं शोभना बौद्धी?। तथा- कर्मनास्तिफलंचास्ती' त्यसतिचात्मनि कारकेकथंषगतयः?, ज्ञानसन्तानस्यापि संतानिव्यतिरेकेण संवृतिमत्त्वात् क्षणस्यचास्थितत्वेन क्रियाऽभावान नानागतिसंभवः, सर्वाण्यपि कर्माण्यवन्धनानि प्ररूपयन्ति स्वागमे, तथा पञ्च जातकशतानि च बुद्धस्योपदिशन्ति तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org