________________
२३२
सूत्रकृताङ्ग सूत्रम् १/१२/-/५३६ तथा तदेवं सर्वथा ते अज्ञानवादिनः 'अकोविदा' धर्मोपदेशं प्रत्यनिपुणाः स्वतोऽ कोविदेभ्य एव स्वशिष्येभ्य 'आहुः' कथितवन्तः, छान्दसत्वाच्चैकवचनं सूत्रे कृतमिति ।
शाक्या अपि प्रायशोऽज्ञानिकाः, अविज्ञोपचितं कर्म बन्धंन यातीत्येवं यतस्तेऽभ्युपगमयन्ति, तथा ये च बालमत्तसुप्तादयोऽस्पष्टविज्ञाना अबन्धका इत्येवमभ्युपगमं कुर्वन्ति, ते सर्वेऽप्यकोविदा द्रष्टव्या इति । तथाऽज्ञानपक्षसमाश्रयणाच्चाननुविचिन्त्य भाषणान्मृषा ते सदा वदन्ति । अनुविचिन्त्य भाषणं यतो ज्ञाने सति भवति, तत्पूर्वकत्वाच्च सत्यवादस्य, अतोज्ञानानभ्युपगमादनुविचिन्त्य भाषणाभावः, तदभावाञ्च तेषां मृषावादित्वमिति ॥
मू. (५३७) सच्चं असचं इति चिंतयंता, असाहु साहुत्ति उदाहरंता । जेमे जणा वेणइया अनेगे, पुट्ठावि भावं विणइंसु नाम ॥
वृ. साम्प्रतं वैनयिकवादं निराचिकीर्षु प्रक्रमते सद्यो हितं 'सत्यं' परमार्थो यथावस्थितपदार्थनिरूपणं वा मोक्षो वा तदुपायभूतो वा संयमः सत्यं तदसत्यम् 'इति' एवं 'विचिन्तयन्तो' मन्यमानाः, एवमसत्यमपि सत्यमिति मन्यमानाः, तथाहि - सम्यग्दर्शनज्ञान - चारित्राख्यो मोक्षमार्गः सत्यस्तमसत्यत्वेन चिन्तयन्तो विनयादेव मोक्ष इत्येतदसत्यमपि सत्यत्वेन मन्यमानाः, तथा असाधुमप्यविशिष्टकर्मकारिणं वन्दनादिकया विनयप्रतिपच्या साधुम् 'इति' एवम् 'उदारन्तः' प्रतिपादयन्तो न सम्यग्यथावस्थितधर्मस्य परीक्षकाः, युक्तिविकलं विनयादेव धर्म इत्येवमभ्युपगमात् क एते इत्येतदाह -
ये 'इ' बुद्धया प्रत्यक्षात्रीकृता 'जना इव' प्राकृतपुरुषा इव जना वैनयेन चरन्ति वनयिकाविनयादेव केवलात्स्वर्गमोक्षावाप्तिरित्येवंवादिनः ‘अनेके' बहवो द्वात्रिंशदमेदभिन्न- त्वात्तेषां ते च विनयचारिणः केनचिद्धर्मार्थिना पृष्टाः पृष्टथः सन्तोऽपिशब्दादपृष्टा वा 'भावं' परमार्थं यथार्थोपलब्धं स्वाभिप्रायं वा चिनयादेव स्वर्गमोक्षावाप्तिरित्येवं 'व्यनैषुः ' विनीतवन्तः - सर्वदा सर्वस्य सर्वसिद्धये विनयं ग्राहितवन्तः, नामशब्दः संभावनायां, संभाव्यत एव विनयात्स्व कार्यसिद्धिरित्येवं 'व्यनैषुः' विनीतवन्तः - सर्वदा सर्वस्य सर्वसिद्धये विनयं ग्राहतवन्तः, नामशब्दः संभावनायां, संभाव्यत एव विनयात्स्वकार्यसिद्धिरिति, तदुक्तम्- “तस्मात्कल्याणानां सर्वेषां भाजनं विनय" इति ॥ मू. (५३८) अनोवसंखा इति ते उदाहू, अड्डे स ओभासइ अम्ह एवं । लवावसंकी य अनागएहिं, नो किरियमाहंसु अकिरियवादी ॥
वृ. किंचान्यत्-संख्यानं संख्या परिच्छेदः उप-सामीप्येन संख्या उपसंख्या- सम्यग्यथावस्थितार्थपरिज्ञानं नोपसंख्याऽनुपसंख्या तयाऽनुपसंख्यया- अपरिज्ञानेन व्यामूढमतयस्ते वैनयिकाः स्वाग्रह ग्रस्ता इति एतद् यता विनयादेव केवलात्स्वर्गमोक्षावाप्तिरित्यु - दाहतवन्तः, एतच्च ते महामोहाच्छादिता 'उदाहुः' उदाहृतवन्तः यथैवं सर्वस्य विनयप्रतिपत्या स्वोऽर्थ - स्वर्गमोक्षादिकः अस्माकम् 'अवभासते' आविर्भवति प्राप्यते इतियावत्, अनुपसंख्योदाहतिश्च तेषामेवमवगन्तव्या । तद्यथा-ज्ञानक्रियाभ्यां मोक्षसद्भावे सति तदपास्य विनयादेवैकस्मात्तदवातयभ्युपगमादिति, यदप्युक्तं 'सर्वकल्याणभाजनं' तदपि सम्यग्दर्शनादिसंबवे सति विनयस्य कल्याणभाक्त्वं भवति नैककस्येति, तद्रहितो हि विनयोपेतः सर्वस्य प्रहतया न्यक्कारमेवापादयति, ततश्च विवक्षितार्थावभासनाभावात्तेषामेवंवादिनामज्ञानावृतत्वमेवावशिष्यते, नाभिप्रेतार्थावाप्तिरित्युक्ता वैनयिकाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org