________________
श्रुतस्कन्धः - १, अध्ययनं- १२,
२३१ तथाहि-प्रक्षीणाशेषावरणतया रागद्वेषमोहानामनृतकारणानामभावान्न तद्वाक्यमयथार्थमित्येवंतप्रणीतागमवतांन विरोधवादित्वमिति।ननुच स्यादेतद्यदि सर्वज्ञः कश्चित्स्यात्, नचासौ संभवतीत्युक्तंप्राक, सत्यमुक्तमयुक्तंतूक्तं, तथाहि-यत्तावदुक्तं नचासौ विद्यमानोऽप्युपलक्ष्यतेऽग्दिर्शिनेति' तदयुक्तं, यतो यद्यपि परचेतोवृत्तीनां दुरन्वयत्वात्सरागा वीतरागा इव चेष्टन्ते वीतरागाः सरागाइवेत्यतः प्रत्यक्षेणानुपलब्धि, तथापि संभवानुमानस्य सद्भावात्तद्वाधकप्रमाणाभावाच्च तदस्तित्वमनिवार्य, संभवानुमानं त्विदं-व्याकरणादिना शास्त्राभ्यासेन संस्क्रियमाणायाः प्रज्ञाया ज्ञानातिशयो ज्ञेयावगमंप्रत्युपलब्धः, तदत्र कश्चित्तथाभूताभ्यासवशात्सर्वज्ञोऽपि स्यादिति, नच तदभावसाधकं प्रमाणमस्ति ।
तथाहि-न तावदग्दिर्शिप्रत्यक्षेण सर्वज्ञा भावः साधयितुं शक्यः, तस्य हि तज्ज्ञानज्ञेयविज्ञानशून्यत्वाद्, अशून्यत्वाभ्युपगमेचसर्वज्ञत्वापत्तिरिति।नाप्यनुमानेन,तदव्यभिचारिलिङ्गाभावादिति । नाप्युपमानेन सर्वज्ञाभावः साध्यते, तस्य सादृश्यबलेन प्रवृत्तेः, न च सर्वज्ञाभावे साध्येताग्विधंसाहश्यमस्ति येनासौ सिध्यतीति । नाप्यर्थापत्या, तस्याः प्रत्यक्षादिप्रमाणपूर्वकत्वेन प्रवृत्तेः प्रत्यक्षादीनां च तत्साधकत्वेनाप्रवर्तनात् तस्या अप्यप्रवृत्तिः।
नाप्यागमेन, तस्य सर्वज्ञसाधकत्वेनापि दर्शनात, नापि प्रमाणपञ्चकामावरूपेणाभावेन सर्वज्ञाभावः सिध्यति, तथाहि-सर्वत्र सर्वदान संभवति तदग्राहकंप्रमाणमित्येतर्वाग्दर्शिनोवक्तुं न युज्यते, तेन हि देशकालविप्रकृष्टानां पुरुषाणां यद्विज्ञानं तस्य ग्रहीतुमशक्यत्वात्, तद्ग्रहणे वातस्यैव सर्वज्ञत्वापत्ते, नचाग्दिर्शिनांज्ञाननिवर्तमानंसर्वज्ञाभावंसाधयति, तस्याव्यापकत्वात्, न चाव्यापकव्यावृत्या पदार्थव्यावृत्तिर्युक्तेति, न च वस्त्वन्तरविज्ञानरूपोऽभावः सर्वज्ञाभावसाधनायालं, वस्त्वन्तरसर्वज्ञयोरेकज्ञानसंसर्गप्रतिबन्धाभावात् ।
तदेवं बाधकप्रमाणाभावात्संभवानुमानस्य च प्रतिपादितत्वादस्ति सर्वज्ञः, तत्प्रणीतागमाभ्युपगमाच्च मतभेददोषो दूरापास्त इति, तथाहि-तप्रणीतागमाभ्युपगमवादिनामेकवाक्यता शरीरमात्रव्यापी संसार्यात्माऽस्ति, तत्रैव तद्गुणोपलब्धेरिति, इतरेतराश्रयदोषश्चात्र नावतरत्येव, यतोऽभ्यस्यमानायाः प्रज्ञाया ज्ञानातिशयः स्वात्मन्यपि दृष्टो, न च घटेऽनुपपन्नं नामेति ।
यदप्यभिहितंतद्यथा 'नच ज्ञानंज्ञेयस्य स्वरूपंपरिच्छेत्तुमलं,सर्वार्वाग्भागेन व्यवधानात, सारातीयागस्य च परमाणुरूपतयाऽतीन्द्रियत्वादिति, एतदपि वाङ्मात्रमेव, यतः सर्वज्ञज्ञानस्य देशकालस्वभावव्यवहितानामपि ग्रहणान्नास्ति व्यवधानसंभवः, अग्दिर्शिज्ञानस्याप्यवयवद्वारेणावयविनि प्रवृत्तेनास्तिव्यवधान, नह्यवयवी स्वावयवैर्व्यवधीयतइति युक्तिसंगतम्, अपिच-अज्ञानमेव श्रेय इत्यत्राज्ञानमिति किमयं पर्युदास आहोस्वित्प्रसज्यप्रितषेधः?,तत्रयदि ज्ञानादन्यदज्ञानमिति ततः पर्युदासवृत्त्या ज्ञानान्तरमेव समाश्रितं स्यात् नाज्ञानवाद इति, अथ ज्ञानं न भवतीत्यज्ञानं तुच्छो नीरूपो ज्ञानाभावः स च सर्वसामर्थ्यरहित इति कथं श्रेयानिति?
अपिच-अज्ञानं श्रेय इति प्रसज्यप्रतिषेधेन ज्ञानं श्रेयो न भवतीति क्रियाप्रतिषेध एव कृतः स्याद्, एतञ्चाध्यक्षबाधितं, यतः सम्यगज्ञानादर्थं परिच्छिद्य प्रवर्तमानोऽर्थक्रियार्थी न विसंवाद्यत इति । किंच-अज्ञानप्रमादवद्भिःपादने शिरःस्पर्शनेऽपिस्वल्पदोषतांपरिज्ञायैवाज्ञानं श्रेय इत्यभ्युपगभ्यते, एवं च सति प्रत्यक्ष एव स्यादभ्युपगमविरोधो, नानुमानं प्रमाणमिति ।
For Private & Personal Use Only
Jain Education International
E
www.jainelibrary.org