________________
४०२
सूत्रकृताङ्ग सूत्रम् २/४/-७०४ 'तत्थ खलु'इत्यादि, तत्र-संयमसद्भावे षड् जीवनिकाया भगवता हेतुत्वेनोपन्यस्ताः, यथा प्रत्याख्यानरहितस्यषड्जीवनिकायाःसंसारगतिनिबन्धनत्वेनोपन्यस्ताः एवंतएवप्रत्याख्यानिनो मोक्षाय भवन्तीति, तथा चोक्तम् - ॥१॥ “जे जत्तिया य हेऊ भवस्स ते चैव तत्तिया मोक्खे ।
गणणाईयालोगा दोण्हवि पुण्णा भवे तुल्ला ॥ इत्यादि, इदमुक्तं भवति-यथाऽऽत्मनो दण्डाधुपघाते दुःखमुत्पद्यते एवं सर्वेषामपि प्राणिनामित्यात्मोपमया तदुपघातान्निवर्तते, एष धर्म सर्वापायत्राणलक्षणो 'ध्रुवः अप्रच्युतानुत्पन्नस्थिरस्वभावो नित्य' इति परिणामानित्तायामपिसत्यां स्वरूपाच्यवनात्तथा आदित्योद्गतिरिव शश्वद्भवनाच्छाश्वतः-परैः क्वचिदप्यस्खलितो युक्तिसंगतत्वादित्यभिप्रायः
अयमेवंभूतश्च धर्मः समेत्य' अवगम्य 'लोकं चतुदर्शरज्वात्मकं खेदज्ञैः' सर्वज्ञैःप्रवेदितः, तदेवं स भिक्षुर्निवृत्तः सर्वाश्रवद्वारेभ्यो दन्तप्रक्षालनादिकाः क्रियाः अकुर्वन् सावधक्रियाया अभावादक्रियोऽक्रियत्वाच्च प्राणिनामलूषकः-अव्यापादको यावदेकान्तैनवासी पण्डितो भवति इति परिसमाप्त्यर्थे, ब्रवीमीति, पूर्ववत्, नयाः प्राग्वद्वयाख्येयाः। .
अध्ययनं-४ समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिता शीलावाचार्येण विरविता द्वितीय श्रुतस्कन्धस्य चतुर्यअध्ययनटीका परिसमाप्ता।
(अध्ययन-५ आचारश्रुतं) साम्प्रतंपञ्चममारभ्यते, अस्यचायमभिसंबन्धः, इहानन्तराध्ययने प्रत्याख्यानक्रियोक्ता, सा चाचारव्यवस्थितस्य सतो भवतीत्यतस्तदनन्तरमाचारश्रुताध्ययनमभिधीयते, यदिवाऽनाचारपरिवर्जनेनसम्यक्प्रत्याख्यानमस्खलितं भवतीत्यतोऽनाचारश्रुताध्ययनमभिधीयते, यदिवा प्रत्याख्यानयुक्तः सन्नाचारवान् भवतीत्यतः प्रत्याख्यानक्रियाऽनन्तरमाचारश्रुताध्ययनं तत्प्रतिपक्षभूतमनाचारश्रुताध्ययनं वा प्रतिपाद्यत इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति।
. तत्रोपक्रमान्तर्गतोऽधिकारोऽयं, तद्यथा-अनाचारंप्रतिषिध्य साधूनामाचारः प्रतिपाद्यते, नामनिष्पन्ने तु निक्षेपे आचारश्रुतमिति द्विपदं नाम, तदनयोर्निक्षेपार्थं नियुक्तिकृदाहनि. [१८२] नामंठवणायारे दव्वे भावे य होति नायव्वो।
एमेव य सुत्तस्सा निक्खेवो चउविहो होति ॥ वृ.तत्राचारो नामस्थापनाद्रव्यभावभेदभिन्नश्चतुर्धा द्रष्टव्यः, एवं श्रुतमपीति। तत्राचारश्रुतयोरन्यत्राभिहितयोलाघवामितदेशं कुर्वन्नाह । नि. [१८३] आयारसुयं भणियं वज्जेयव्वा सया अनायारा ।
__ अबहुसुयस्स हु होज्ज विराहणा इत्य जइयव्वं ॥ दृ.आचारश्च श्रुतंचआचारश्रुतं द्वन्द्वैकवद्भावस्तदुभयमपि भणितम्' उक्तं, तत्राचारः क्षुल्लिकाचारकथायामभिहितः श्रुतं तु विनयश्रुते भावार्थस्तु वर्जयितव्याः' परिहार्याः ‘सदा'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org