________________
१६४
सूत्रकृताङ्ग सूत्रम् १/६/-/३७८ पगमं परिच्छिद्य-स्वतः सम्यगवगम्य सम्यगवबोधेन, तथा स एव वीरवर्धमानस्वामी सर्वमन्यमपि बौद्धादिकं यं कञ्चन वादमपरान् सत्त्वान् यथावस्थिततत्त्वोपदेशेन 'वेदयित्वा' परिज्ञाप्योपस्थितः सम्यगुत्थानेन संयमे व्यवस्थितो न तु यथा अन्ये, तदुक्तम्
॥१॥ "यथा परेषां कथका विदग्धाः, शास्त्राणि कृत्वा लघुतामुपेताः । शिष्यैरनुज्ञामलिनोपचारैर्वक्तृत्वदोषास्त्वयि ते न सन्ति ।। - इति 'दीर्घरात्रम्' इति यावज्जीवं संयमोत्थानेनोत्थित इति ॥ मू. (३७९) से वारिया इत्थी सराइभत्तं, उवहाणवं दुक्खखयट्टयाए । लोगं विदित्ता आरं परं च सव्वं पभू वारिया सव्ववारं ॥
बृ. अपिच स भगवान् वारयित्वा प्रतिषिध्य किं तदित्याह 'स्त्रियम्' इति स्त्रीपरिभोगं मैथुनमित्यर्थः सह रात्रिभक्तेन वर्तत इति सरात्रिभक्तं, उपलक्षणार्थत्वादस्यान्यदपि प्राणातिपातनिषेधादिकं द्रष्टव्यं तथा उपधानं तपस्तद्विद्यते यस्यासौ उपधानवानू तपोनिष्ठप्तदेहः, किमर्थमिति दर्शयति-दुःखयतीति दुःखम् - अष्टप्रकारं कर्म तस्य क्षयः - अपगमस्तदर्थं ।
मू. (३८०) सोच्चा य धम्मं अरहंतभासियं, समाहितं अट्ठपदोवसुद्धं ।
तं सहाणा य जणा अणाऊ, इंदा व देवाहिव आगमिस्संति || त्तिबेमि ।
वृ. किञ्च लोकं विदित्वा 'आरम्' इहलोकाख्यं 'परं' परलोकाख्यं यदिवा - आरं मनुष्यलोकं पारमिति-नारकादिकं स्वरूपतस्तप्राप्तिहेतुतश्च विदित्वा सर्वमेतत् 'प्रभुः' भगवान् 'सर्ववारं ' बहुशो निवारितवान्, एतदुक्तं भवति-प्राणातिपातनिषेधादिकं स्वतोऽनुष्ठाय परांश्च स्थापितवान्, न हि स्वतोऽस्थितः परांश्च स्थापयितुमलमित्यर्थः, तदुक्तम्"ब्रुवाणोऽपि न्याय्यं स्ववचनविरुद्धं व्यवहरन्, परान्नालं कश्चिद्दमयितु मदान्तः स्वयमिति । भवान्निश्चित्यैवं मनसि जगदाधाय सकलं, स्वभात्मानं तावद्दमयितुमदान्तं व्यवसितः ॥ “तित्थयरो चउनाणी सुरमहिओ सिज्झियव्वयधूयंमि । अनिगूहियबलविरओ सव्वत्थामेसु उज्जमइ ।।
119 11
119 11
इत्यादि साम्प्रतं सुधर्मस्वामी तीर्थकरगुणानाख्याय स्वशिष्यानाह - 'सोच्चा य' इत्यादि, श्रुत्वा च दुर्गतिधारणाद्धर्म- श्रुतचारित्राख्यमर्हद्भिर्भाषितं सम्यगाख्यातमर्थपदानि-युक्तयो हेतवो वा तैरुपशुद्धम् अवदातं सद्युक्तिकं सद्धेतुकं वा यदिवा अर्थे- अभिधेयैः पदैश्च वाचकैः शब्दैः उप-सामीप्येन शुद्धं निर्दोषं, तमेवम्भूतमर्हद्भिर्भाषितं धर्म श्रद्दधानाः, तथाऽनुतिष्ठन्तो 'जना' लोका ‘अनायुषः' अपगतायुःकर्माणः सन्तः सिद्धाः, सायुषश्चेन्द्राद्या देवाधिपा आगमिष्यन्तीति इतिशब्दः परिसमाप्ती, ब्रवीमीति पूर्ववत् ।
अध्ययनं ६ समाप्तम्
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्यविरचिता प्रथम श्रुतस्कन्धस्य षष्ठमध्ययनटीका परिसमाप्त।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org