________________
श्रुतस्कन्धः -१,अध्ययनं-७,
१६५
(अध्ययन-७ कुशील परिभाषा) वृ.उक्तं षष्ठमध्ययनं, साम्प्रतंसप्तममारभ्यते, अस्यचायमभिसम्बन्धः, इहानन्तराध्ययने महावीरस्य गुणोत्कीर्तनतः सुशीलपरिभाषा कृता, तदनन्तरंतद्विपर्यस्ताः कुशीलाः परिभाष्यन्ते, तदनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि व्यावर्णीनीयानि, तत्राप्युपक्रमान्तगतोऽर्थाधिकारोऽयं।
तद्यथा-कुशीलाः-परतीर्थिकाः पार्श्वस्थादयोवा स्वयूथ्या अशीलाश्चगृहस्थः परि-समन्तात् भाष्यन्ते-प्रतिपाद्यन्ते तदनुष्ठानतस्तद्विपाकदुर्गतिगमनतश्च निरूप्यन्त इति तथा तद्विपर्ययेण कचित्सुशीलाश्चेति, निक्षेपस्त्रिधाःओघनामसूत्रालापकभेदात्, तत्रौघनिष्पन्ननिक्षेपेऽध्ययनं, नामनिष्पन्ने कुशीलपरिभाषेति, एतदधिकृत्य नियुक्तिकृदाहनि. [८०] सीले चउक्क दव्वे पाउरणाभरणभोयणादीसु ।
भावे उ ओहसीलं अभिक्खमासेवणा चेव ।। वृ. 'शीले' शीलविषये निक्षेपे क्रियमाणे 'चतुष्क'मिति नामादिश्चतुर्धा निक्षेपः, तत्रापि नामस्थापने क्षुण्णत्वादनाध्त्य 'द्रव्यम्'- इति द्रव्यशीलं प्रावरणाभरणभोजनादिषु द्रष्टव्यं,
अस्यायमर्थ-यो हि फलनिरपेक्षस्त-स्वभावादेव क्रियासु प्रवर्तते स तच्छीलः, तत्रेह प्रावरणशील इति प्रावरणप्रयोजनाभावेऽपि ताच्छील्यान्नित्यं प्रावरणस्वभावः प्रावरणे वा दत्तावधानः, एवमाभरणभोजनादिष्वपि द्रष्टव्यमिति, यो वा यस्य द्रव्यस्य चेतनाचेतनादेः स्वभावस्तद् द्रव्यशीलमित्युच्यते, भावशीलं तु द्विधा-ओघशीलमाभीक्ष्णयसेवनाशीलं चेति ।। तत्रौघशीलं व्याचिख्यासुराह-- नि. [८७] ओहे सीलं विरती विरयाविरई य अविरती असील ।
धम्मे णाणतवादी अपसत्थ अहम्मकोवादी । वृ. तत्रौधः-सामान्य सामान्येन सावद्ययोगविरतो विरताविरतो वा शीलवान् भण्यते, तद्विपर्यस्तोऽशीलवानिति, आभीक्ष्णयसेवायां तु-अनवरसेवनायां तु शीलमिदं, तद्यथा-'धर्मे' धर्मविषयेप्रशस्तं शीलं यदुतानवरतापूर्वज्ञानार्जनं विशिष्टतपःकरणंवा, आदिग्रहणादनवरताभिग्रहग्रहणादिकंपरिगृह्यते, अप्रशस्तभावशीलं त्वधर्मप्रवृत्तिर्बाह्या आन्तरातु क्रोधादिषुप्रवृत्तिः, आदिग्रहणात् शेषकषायाश्चौर्याभ्याख्यानकलहादयः परिगृह्यन्त इति । साम्प्रतं कुशीलपरिभाषाख्यस्याध्ययनस्यान्वर्थतांदर्शयितुमाहनि. [८८] परिभासिया कुसीला य एत्थ जावंति अविरत केई।
सुत्ति पसंसा सुद्धो कुत्ति दुगुंछा अपरिसुद्धो॥ वृ. परि-समन्तात् भाषिताः-प्रतिपादिताः 'कुशीलाः' कुत्सितशीलाः परतीर्थिकाः पार्श्वस्थादयश्च चशब्दात्यावन्तः केचनाविरताअस्मिन्नित्यत इदमध्ययनं कुशीलपरिभाषेत्युच्यते, किमिति कुशीला अशुद्धा गृह्यन्ते इत्याह-सुरित्ययं निपातः प्रशंसायां शुद्धविषये वर्तते, तद्यथासौराज्यमित्यादि, तथा कुरित्ययमपिनिपातोजुगुप्सायामशुद्धविषये वर्ते, कुतीर्थं कुग्राम इत्यादि यदि कुत्सितशीलाः कुशीलाः कथं तर्हि ? परतीर्थिकाः पार्श्वस्थादयश्च तथाविधा भवन्तीत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org