________________
श्रुतस्कन्धः - १, अध्ययनं - १, उद्देशकः - २
पू. (३१)
एवमेयाणि जंपंता, बाला पंडिअमाणिणो । निययानिययं संतं, अयाणंता अबुद्धिया ॥
वृ. 'एवम्' इति अनन्तरोक्तस्योपप्रदर्शने 'एतानि ' पूर्वोक्तानि नियतिवादाश्रितानि वचनानि 'जल्पन्तः' अभिदधतो बाला इव 'बाला' अज्ञाः सदसद्विवेकविकला अपि सन्तः 'पण्डितमानिन' आत्मानं पण्डितं मन्तुं शीलं येषां ते तथा, किमितित एवमुच्यत ? इति तदाह-यतो निययानिययं संतमिति' सुखादिकं किञ्चिन्नियतिकृतम्-अवश्यंभाव्युदयप्रापितं तथा अनियतम् आत्मपुरुषकारेश्वरादिप्रापितं सत् नियतिकृतमेवकान्तेनाश्रयन्ति, अतोऽजानानाः सुखदुःखादिकारणं अबुद्धिका बुद्धिरहिता भवन्तीति, तथाहि आर्हतानां किञ्चित्सुखदुःखादि नियतित एव भवति - तत्कारणस्य कर्मणः कस्मिंश्चिदवसरेऽवश्यंभाच्युदयसद्भावान्नियतिकृतमित्युच्यते, तथा किञ्चिदनियतिकृतं च- पुरुषकारकालेश्वरस्वभावकर्मादिकृतं तत्र कथञ्चित्सुखदुःखादेः पुरुषकारसाध्यत्वमप्याश्रीयते, यतः क्रियातः फलं भवति, क्रिया च पुरुषकाराऽऽयत्ता प्रवर्तते, तथा चोक्तम्, -
.
119 11
३९
"न दैवमिति संचिन्त्य, त्यजेदुद्यममात्मनः । अनुद्यमेन कस्तैलं, तिलेभ्यः प्राप्तुमर्हति ? "
यत्तु समाने पुरुषव्यापारे फलवैचित्र्यं दूषणत्वेनोपन्यस्तं तददूषणमेव, यतस्तत्रापि पुरुषकारवैचित्र्यमपि फलवैचित्र्ये कारणं भवति, समाने वा पुरुषकारे यः फलाभावः कस्यचिद्भवति सोऽष्टकृतः, तदपि चास्माभिः कारणत्वेनाश्रितमेव । तथा कालोऽपि कर्ता, यतो बकुलचम्पकाशोकपुन्नागनागसहकारादीनां विशिष्ट एव काले पुष्प फलाद्युद्भवो न सर्वदति, यच्चोक्तं, 'कालस्यैकरूपत्वाज्जगद्वैचित्र्यं न घटत' इति, तदस्मान् प्रति न दूषणं यतोऽस्माभिर्न काल एवैकः कर्तृत्वेनाभ्युपगम्यते अपि तु कर्मापि, ततो जगद्वैचित्र्यमित्यदोषः तथेश्वरोऽपि कर्ता, आत्मैव हि तत्र तत्रोत्पत्तिद्वारेण सकलजगद्वयापनादीश्वरः, तस्य सुखदुःखोत्पत्तिकर्तृत्वं सर्ववादिनामचिगानेन सिद्धमेव, यच्चात्र मूर्तामूर्तादिकं दूषणमुपन्यस्तं तदेवंभूतेश्वरसमाश्रयणे दूरोत्सादितमेवेति । स्वभावस्यापि कथञ्चित्कर्तृत्वमेव, तथाहि
आत्मन उपयोगलक्षणत्वमसंख्येयप्रदेशत्वं पुद्गलानां च मूर्तत्वं धर्माधर्मास्तिकाययोर्गतिस्थित्युषष्टम्भकारित्वममूर्तत्वं चेत्येवमादि स्वभावापादितं यदपि चात्रात्मव्यतिरेकाव्यतिरेकरूपं दूषणमुपन्यस्तं तददूषणमेव यतः स्वभाव आत्मनोऽव्यतिरिक्तः, आत्मनोऽपि च कर्तृत्वमभ्युपगतमेतदपि स्वभावापादितमेवेति । तथा कर्मापि कर्तृ भवत्येव तद्धि जीवप्रदेशैः सहान्योऽन्यानुवेधरूपतया व्यवस्थितं कथञ्चिञ्चात्मनोऽभिन्नं, तद्वशाच्चात्मा नारकतिर्यङ्गनुष्यामरभवेषु पर्यटन् सुखदुःखादिकमनुभवतीति । तदेवं नियत्यनियत्योः कर्तृत्वे युक्त्युपपन्ने सति नियतेरेव कर्तृत्वम्युपगच्छन्तो निर्बुद्धिका भवन्तीत्यवसेयम् ।
पू. (३२)
एवमेगे उपासत्था, ते भुजो विप्पगब्भिआ ।
"
Jain Education International
एवं उवट्टिआ संता, न ते दुक्खविमोक्खया ।।
वृ. तदेवं युक्त्या नियतिवादं दूषयित्वा तद्वादिनामपायदर्शनायाह- 'एव 'मिति पूर्वाभ्युपगमसंसूचकः, सर्वस्मिन्नपि वस्तुनि नियतानियते सत्येके नियतिमेवावश्यंभाव्येव कालेश्वरादेर्निराकरणेन निर्हेतुकतया नियतिवादमाश्रिताः, तुरवधारणे, त एव नान्ये, किंविशिष्टाः
For Private & Personal Use Only
www.jainelibrary.org