SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-२, अध्ययनं-२, ३३५ तस्य परिवहणम्-उपचयस्तदर्थं वा न हिनस्ति, तथा न श्रमणब्राह्मणवर्तनाहेतुं, तथा यत्तेन पालयितुमारब्धं नो तस्य शरीरस्य किमपि परित्राणाय तत्' प्राणव्यपरोपणं भवति । __ इत्येवमादिकंकारणमनपेक्ष्यैवासी क्रीडया तच्छीलतया व्यसनेन वाप्राणिनां हन्ता भवति दण्डादिभिः तथा छेत्ता भवति कर्णनासिकाविकर्तनतः तथा भेत्ता शूलादिना तथा लुम्पयिता अन्यतरागावयवविकर्तनतः तथ विलुम्पयिता अक्ष्युतपाटनचर्मविकर्तनकरपादादिच्छेदनतः परमाधार्मिकवत्राणिनां निर्निमित्तमेव नानाविधोपायैः पीडोत्पादको भवति तथा जीवितादप्यपद्रावयिता भवति, स च सद्विवेकमुज्झित्वाऽऽत्मानं वा परित्यज्य बालवद्वाःअज्ञोऽसमीक्षितकारितया जन्मान्तरानुबन्धिनो वैरस्याभागी भवति, तदेवं निनिमित्तवमेव पञ्चेन्द्रियप्राणिपीडनतोयथाऽनर्थदण्डो भवति तथा प्रतिपादितम्, अधुनास्थावरानधिकृत्योच्यते'सेजहे त्यादि, यथा कश्चित्पुरुषोनिर्विवेकः पथिगच्छन्वृक्षादेः पल्लवादिकंदण्डादिना प्रध्वंसयन् फलनिरपेक्षस्तच्छीलतया व्रजति, एतदेव दर्शयति ___ जे इमे' इत्यादि, ये केचन 'अमी' प्रत्यक्षाः स्थावरा वनस्पतिकायाः प्राणिनो भवन्ति, तद्यथा-इक्कडादयो वनस्पतिविशेषा उत्तानार्थास्तदिहेयमिक्कडाममानयाप्रयोजनमित्येवमभिसंधाय न छिनत्ति, केवलं तत्पत्रपुष्पफलादिनि रपेक्षस्तच्छीलतया छिनत्तीत्येतत्सर्वत्रानुयोजनीयमिति, तथा न पुत्रपोषणाय नो पशुपोषणाय नागारप्रतिबृंहणाय न श्रमणब्राह्मणवृत्तये नापि शरीरस्य किञ्चित्परित्राणं भविष्यतीति, केवलमेवमेवासौ वनस्पति हन्ता छेत्तेत्दि यावज्जन्मान्तरानुबन्धिनो वैरस्याभागी भवति, अयंवनस्पत्याश्रयोऽनर्थदण्डोऽभिहितः । साम्प्रतमग्न्याश्रितमाह-से जहे' त्यादि, तद्यथा नामकश्चित्पुरुषःसदसद्विवेकविकलतयाकच्छादिकेषुदशसुस्थानेषुवनदुर्गपर्यन्तेषु तृणानि-कुशपुष्पकादीनि पौनःपुन्येनोवधिःस्थानि कृत्वा 'अग्निकायं' हुतभुजं 'निसृजति' प्रक्षिपत्यन्येन वाऽग्निकार्य बहुसत्त्वापकारिणं दवाई 'निसर्जयति' प्रक्षेपयत्यन्यं च निसृजन्तं समनुजानीते। तदेवं योगत्रिकेण कृतकारितानुमतिभिस्तस्य यत्किञ्चनकारिणः 'तत्प्रत्ययिकं' दवदाननिमित्तं सावधंकर्म' महापातकमाख्यातम्, एतच्चद्वितीयमनर्थदण्डसमादानमाख्यातमिति तृतीयमधुना व्याचिख्यासुराह-- मू. (६५१) अहावरे तच्चे दंडसमादाणे हिंसादंडवत्तिएत्ति आहिञ्जइ, से जहानामए केइपुरिसे ममंवा ममिवा अन्नं वा अनि वा हिंसिसुवा हिंसइवा हिंसिस्सइवातंदंडतसथावरेहिं पाणेहिं सयमेव निसिरति अन्ननवि निसिरावेति अन्नपि निसिरंतं समणुजाणइ हिंसादंडे, एवं खलु तस्स तप्पत्तियं सावजंति आहिनइ, तच्चे दंडसमादाणे हिंसादंडवत्तिएत्ति आहिए। वृ.अथापरंतृतीयंदण्डसमादानं हिंसादण्डप्रत्ययिकमाख्यायते, तद्यथानामकश्चित् 'पुरुषः' पुरुषकार वहन् स्वतो भरणभीरुतयावा मामयंघातयिष्यतीत्येवं मत्वा कंसवद्देवकीसुतान् भावतो जघान मदीयं वा पितरमन्यं वा मामकं ममीकारोपेतंपरशुरामवत्कार्तवीर्यं जघानान्यं वाकञ्चनायं सर्पसिंहादियापादयिष्यतीति मत्वा सादिकं व्यापादयति अन्यदीयस्य वा कस्यचिद्धिरण्यपश्चादेरयमुपद्रवकारीतिकृत्वातत्र दण्डं निसृजति, तदेवमयं मां मदीयमन्यदीयं वा हिंसितवान् हिनस्ति हिसिष्यतीत्येवंसंभाविते त्रसेस्थावरेवा तंदण्डं प्राणव्यपरोपणलक्षणं स्वयमेव निसृजति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy