SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३३६ सूत्रकृताङ्ग सूत्रम् २/२/-/६५१ अन्येन निसर्जयति निसृजन्तं वाऽन्यं समनुजानीते इत्येतत्तृतीयं दण्डसमादानं हिंसादण्डप्रत्ययिकमाख्यातमिति । मू. (६५२) अहावरे चउत्थे दंडसमादाणे अकस्मात् दण्डवत्तिएत्ति आहिज्जइ, से जहानामए केइ पुरिसे कच्छंसि वा जाव वणविदुग्गंसि वा मियवत्तिए मियसंकप्पे मियपणिहाणे मियवहाए गंता एए मियत्तिकाउं अन्नयरस्स मियस्स वहाए उसुं आयामेत्ता णं निसिरेजा, स मियं वहिस्सामित्तिकट्टु तित्तिरं वा वट्टगं वा चडगं वा लावगं वा कवोयगं वा कवि वा कविंजलं वा विधित्ता भवइ, इह खलु से अन्नस्स अट्ठाए अन्नं फुसति अकम्हादंडे । से जहानामए केइ पुरिसे सालीणि वा वीहीणि वा कोद्दवाणि वा कंगूणि वा परगाणि वा रालाणि वा निलिमाणे अन्नयरस्स तणस्स वहाए सत्यं निसिरेजा, से सामगं तणगं कुमुदुगं वीहीउसियं कलेसुयं तणं छिंदिस्सामित्तिकट्टु सालिं वा वीहिं वा कोद्दवं वा कंगुं वा परगं वा रालयं वा छिंदित्ता भवइ, इति खलु से अन्नस्स अट्ठाए अन्नं फुसति अकम्हादंडे, एवं खलु तस्स तप्पत्तियं सावज्जं आहिज्जइ, चउत्थे दंडसमादाणे अकम्हादंडवत्तिए आहिए ।। वृ. अथापरं चतुर्थं दण्डसमादानमकस्माद्दण्डप्रत्ययिकमाख्यायते, इह चाकस्मादित्ययं शब्दो मगधदेशे सर्वेणाप्यागोपालाङ्गनादिना संस्कृत एवोञ्चार्यत इति तदिहापि तथाभूत एवोच्चरित इति । तद्यथा नाम कश्चित्पुरुषो लुब्धकादिकः कच्छे वा यावद्वनदुर्गे वा गत्वा मृगैः हरिणैराटव्यपशुभिर्वृत्ति-वर्त्तनं यस्य स मृगवृत्तिकः, स चैवंभूतो मृगेषु संकल्पो यस्यासौ मृगसंकल्पः, एतदेव दर्शयति- मृगेषु प्रणिधानम् अन्तःकरणवृत्तिर्यस्य स मृगप्रणिधानः क्व मृगान्द्रक्ष्यामीत्येतदध्यवसायी सन् मृगवधार्थं कच्छादिषु गन्ता भवति, तत्र च गतः सन् द्रष्ट मृगानेते मृगा इत्येवं कृत्वा तेषां मध्येऽन्यतरस्य मृगस्य वधार्थम् 'इषु' शरं 'आयामेत्त'त्ति आयामेन समाकृष्य मृगमुद्दिश्य निसृजति, स चैवं संकल्पो भवति यथाऽहं मृगं हनिष्यामीति इषु क्षिप्तवान्, स च तेनेषुणा तित्तिरादिकं पक्षिविशेषं व्यापादयिता भवति, तदेवं खल्बसावन्यस्यार्थाय निक्षिप्तो दण्डो यदाऽन्यं 'स्पृशति' घातयति सोऽ कस्माद्दण्ड इत्युच्यते । अधुना वनस्पतिमुद्दिश्याकम्माद्दण्डमाह- 'से जहे' त्यादि, तद्यथा नाम कश्चित्पुरुषः कृषीवलादि शाल्यादेः- धान्यजातस्य 'श्यामादिकं' तृणजातमपनयन् धान्यशुद्धिं कुर्वाणः सन्नन्यतरस्य तृणजातस्यापनयनार्थं 'शस्त्रं' दात्रादिकं निसृजेत् स च श्यामादिकं तृणं छेत्स्यामीतिकृत्वाऽ- कस्माच्छालिं वा यावत् ालकं वा छिन्द्याद्रक्षणीयस्यैवासावकस्माच्छेत्ता भवति, इत्येवमन्यस्यार्थाय-अन्यकृतेऽन्यं वा 'स्पृशति' छिनत्ति, यदिवा 'स्पृशती' त्यनेनापि परितापं करोतीति दर्शयति, तदेवं खलु 'तस्य' तत्कर्तु 'तव्यत्ययिकम्' अकस्माद्दण्डनिमित्तं 'सावद्य' मिति पापम् 'आधीयते' सम्बध्यते, तदेतच्चतुर्थं दण्डसमादानकमस्माद्दण्ड- प्रत्ययिकमाख्यातमिति मू. (६५३) अहावरे पंचमे दंडसमादाणे दिट्टिविपरियासियादंडवत्तिएत्ति आहिजइ, से जहानामए केइ पुरिस माईहिंवा पिईहिं वा भाईहिं वा भगिणीहिं वा भज्जाहिं वा पुत्तेहिं वा धूताहिं वा सुहाहिं वा सद्धिं संवसमाणे मित्तं अमित्तमेव मन्त्रमाणे मित्ते हयपुव्वे भवइ टिड्डिविपरियासियादंडे । से जहानामए केइ पुरिसे गामघायंसि वा नगरघायंसि वा खेडे० कब्बड० भडबघायंसि For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003336
Book TitleAgam Sutra Satik 02 Sutrakrut AngSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 02, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy