________________
२६२
सूत्रकृताङ्ग सूत्रम् १/१४/-/५७९ / नि. [१२७] शिक्षाशिष्येण 'प्रकृतम्' अधिकारो यः शिक्षां गृह्णाति शैक्षकः तच्छिक्षयेह प्रस्ताव इत्यर्थः । नि. [१२८ ] सो सिक्खगो य दुविहो गहणे आसेवणाय नायव्वो । गहणंमि होति तिविहो सुत्ते अत्थे तदुभए य ॥
वृ. यथाप्रतिज्ञातमधिकृत्याह यः शिक्षां गृह्णाति शैक्षकः स द्विविधो द्विप्रकारो भवति, तद्यथा-ग्रहणे प्रथममेवाचार्यादिः सकाशाच्छिक्षां-इच्छामिच्छातहकारादिरूपां गृहह्णति शिक्षति, तथा शिक्षितां चाभ्यस्यति-अहर्निशमनुतिष्ठति स एवंविधो ग्रहणासेवनाभेदभिन्नः शिष्यो ज्ञातव्यो भवति, तत्रापि ग्रहणपूर्वकमासेवनमितिकृत्वाऽऽदावेव ग्रहणशिक्षामाह - शिक्षाया 'ग्रहणे' उपादानेऽधिकृते त्रिविधो भवति शैक्षकः, तद्यथा सूत्रेऽर्थे तदुभये च, सूत्रादीन्यादावेव गृह्णन् सूत्रादिशिक्षको भवतीति भावः ।
नि. [१२९] आसेवणाय दुविहो मूलगुणे चैव उत्तरगुणे य । मूलगुणे पंचविहो उत्तरगुण बारसविहो उ ॥
वृ. साम्प्रतं ग्रहणोत्तरकालभाविनीमासेवनामधिकृत्याह-यथावस्थितसूत्रानुष्ठानमासेवना तया करणभूतया द्विविधो भवति शिक्षकः, तद्यथा- 'मूलगुणे' मूलगुणविषये आसेवमान:सम्यगमूल- गुणानामनुष्ठानं कुर्वन् तथा 'उत्तरगुणे च' उत्तरगुणविषयं सम्यगनुष्ठानं कुर्वाणो द्विरूपोऽ प्यासेवना- शिक्षक भवति, तत्रापि मूलगुणे पञ्चप्रकारः- प्राणातिपातादिविरतिमासेवमानः पञ्चमहाव्रतधारणा- त्पञ्चविधो भवति मूलगुणेष्वासेवना शिक्षकः, तथोत्तरगुणविषये सम्यपिंण्डविशुद्धयादिकान् गुणानासेवमान उत्तरगुणासेवनाशिक्षको भवति, ते चामी उत्तरगुणाः 11911 'पिंडस्स जा विसोही समिईओ भावणा तवो दुविहो ।
पडिमा अभिग्गहाविय उत्तरगुणमो वियाणाहि ॥
यदिवा सत्स्वप्यन्येषूत्तरगुणेषु प्रधाननिर्जराहेतुतया तप एव द्वादशविधमुत्तरगुणत्वेनाधिकृत्याह- 'उत्तरगुणे' उत्तरगुणविषये तपो द्वादशभेदभिन्नं यः सम्यग् विधत्ते स आसेवनाशिक्षको भवतीति ॥ शिष्यो ह्याचार्यमन्तरेण न भवत्यत आचार्यनिरूपणमा शिष्यापेक्षया हि । नि. [१३०] आयरिओऽविय दुविहो पव्वावतो व सिक्खवंतो य । सिक्खावंतो दुविहो गहणे आसेवणे चैव ॥
वृ. आचार्यो 'द्विविधो' द्विभेदः, एक यः प्रव्रज्यां ग्राहयत्यपरस्तुयः शिक्षामिति, शिक्षयन्नपि द्विविधः - एको यः शिक्षाशास्त्रं ग्राहयनति पाठयत्यपरस्तु तदर्थं दशविधचक्रवालसामाचार्यनुष्ठानतः सेवयति सम्यगनुष्ठानं कारयति । नि. [१३१]
गाहाविंतो तिविहो सुत्ते अत्थे य तदुभए चेव । मूलगुण उत्तरगुणे दुविहो आसेवणाए उ ।।
वृ. तत्र सूत्रार्थतदुभयभेदादग्राहयन्नप्याचार्यस्त्रधा भवति । आसेवनाचार्योऽपि मूलोत्तरगुणभेदाद्दिविधो भवति । गतो नामनिष्पन्नो निक्षेपः, तदनन्तरं कस्तं सत्रानुगमेऽ स्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं तच्चेदम्
मू. (५८०) गंथं विहाय इह सिक्खमाणो, उट्ठाय सुबंभचेरं वसेज्जा । ओवायकारी विनयं सुसिक्खे, जे छेय विप्पमायं न कुजा ।।
वृ. ‘इह’ प्रवचने ज्ञातसंसारस्वभावः सन् सम्यगुत्थानेनोत्थितो ग्रध्यते आत्मा येन स
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International