________________
श्रुतस्कन्धः-१, अध्ययन-१४,
२६३
ग्रन्थो-धनधान्यहिरण्यद्विपदचतुष्पदादि 'विहाय' त्यक्त्वा प्रव्रजितः सन् सदुत्थानेनोत्थाय च ग्रहणरूपामासेवनारूपांच शिक्षांकुर्वाणः-सम्यगासेवमानः सुष्टुशोभनं नवभिर्ब्रह्मचर्यगुप्तिभिर्गुप्तमाश्रित्य ब्रह्मचर्यं ‘वसेत्', यदिवा 'सुब्रह्मचर्य' मिति संयमस्तद् आवसेत्-तं सम्यक् कुर्यात् ।
आचार्यान्तिके यावज्जीवं वसमानो यावदभ्युद्यविहारं न प्रतिपद्यते तावदाचार्यवचनस्थावपातो-निर्देशस्तत्कार्यवपातकारी-वचननिर्देशकारी सदाऽऽज्ञाविधायी, विनीयते-अपनीयते कर्म येन स विनयस्तं सुष्टु शिक्षेद्-विदध्यात् ग्रहणासेवनाभ्यां विनयं सम्यक् परिपालयेदिति। तथा यः ‘छेको' निपुणः स संयमानुष्ठाने सदाचार्योपदेशे वा विविधं प्रमादं न कुर्यात्, यथा हि आतुरः सम्यग्वैद्योपदेशं कुर्वन् श्लाघां लभते रोगोपशमं च एवं साधुरपि सावद्यग्रन्थपरिहारी पापकर्मभेषजस्थानभूतान्याचार्यवचनानि विदधदपरसाधुभ्यः साधुकारमशेषकर्मक्षयंचावाप्नोतीति मू. (५८१) जहा दियापोतमपत्तजातं, सावासगा पविउं मन्नमाणं।
तमचाइयं तरुणमपत्तजातं, ढंकाइ अव्वत्तगमं हरेजा ।। वृ.यः पुनराचार्योपदेशमन्तरेण स्वच्छन्दतया गच्छान्निर्गत्य एकाकिविहारितां प्रतिपद्यते सच बहुदोषभाग भवतीत्यस्यार्थस्य दृष्टान्तमाविर्भावयत्राह-'यथेतिदृष्टान्तोपप्रदर्शनार्थः 'यथा' येन प्रकारेण 'द्विजपोतः' पक्षिशिशुरव्यक्तः ।
तमेव विशिनष्टि-पतन्ति-गच्छन्ति तेनेति पत्रं-पक्षपुटं न विद्यते पत्रजातं-पक्षोद्भवो यस्यासावपत्रजातस्तं तथा स्वकीयादावासकात्-स्वनीडात् प्लवितुम्-उत्पतितुं मन्यमानं तत्र तत्र पतन्तमुपलभ्य तं द्विजपोतं 'अचाइयंति पक्षाभावाद्गन्तुमसमर्थमपत्रजातमितिकृत्वा मांसपेशीकल्पं 'ढङ्कादयः' क्षुद्रसत्त्वाःपिशिताशिनः 'अव्यक्तगम गमनाभावे नंष्टुमसमर्थः 'हरेयुः' चञ्च्चादिनोक्षिप्य नयेयुव्यापदियेयुरिति ।। मू. (५८२) एवं तु सेहंपि अपुट्ठधम्म, निस्सारियं बुसिमं मन्नमाणा ।
दियस्स छायं व अपत्तजायं, हरिसणं पावधम्मा अनेगे। वृ.एवंद्दष्टान्तंप्रदर्श्यदान्तिकंप्रदर्शयितुमाह-एव' मित्युक्तप्रकारेण, तुशब्दःपूर्वस्माद्विशेषं दर्शयति, पूर्वं ह्यसंजातपक्षत्वादव्यक्ता प्रतिपादिता इहत्वपुष्टधर्मतयेत्ययं विशेषो, यथा द्विजपोतमसंजातपक्षं स्वनीडान्निर्गतं क्षुद्रसत्त्वा विनाशयन्ति एवं शिक्षकमभिनवप्रव्रजितं सूत्रार्थानिष्पन्नमगीतार्थम् । 'अपुष्टधर्माणं' सम्यगपरिणतधर्मपरमार्थं सन्तमनेके पापधर्माणः पाषण्डिकाः प्रतारयन्ति, प्रतार्यच गच्छसमुद्रान्निसारयन्ति, निसारितं च सन्तं विषयोन्मुखतामपादितमपगतपरलोक- भयमस्माकं वश्यमित्येवं मन्यमानाः यदिवा 'बुसिमन्ति चारित्रं तद् असदनुष्ठानतोनिसारंमन्यमाना अजातपक्ष 'द्विजशावमिव' पक्षिपोतमिव ढकादयः पापधर्माणो मिथ्यात्वाविरतिप्रमादकषायक-लुषितान्तरात्मानः कुतीर्थिकाःस्वजना राजादयो वाऽनेके बहवो हृतवन्तो हरन्ति हरिष्यन्ति चेति, कालत्रयोपलक्षणार्थं भूतनिर्देश इति, तथाहि --
__ पाषण्डिका एवमगीतार्थं प्रतारयन्ति, तद्यथा-युष्मदर्शने नाग्निप्रज्वालनविषापहारशिस्वाच्छेदादिकाः प्रत्यया दृश्यन्ते, तथाऽणिमाद्यष्टगुणमैश्वर्यं च नास्ति, तथा न राजादिभिर्बहुभिराश्रितं, याऽप्यहिंसोच्यते भवदागमे साऽपि जीवाकुलत्वाल्लोकस्य दुःसाध्या, नापि भवतां स्नानादिकं शौचमस्तीत्यादिकाभिःशठोक्तिभिरिन्द्रजालकल्पाभिर्मुग्धजनं प्रतारयन्ति, स्वजनाद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org