________________
३७६
सूत्रकृताङ्ग सूत्रम् २/३/-/६७४/ नि. [१७६]
क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलाख्याः, एतेच वेदनीयप्रभवाः, तब केवलिनि विद्यन्ते, नच निदानानुच्छेदे निदानिन उच्छेदः संभाव्यते, अतः केवलिनि क्षुद्वेदनीयादिपीडासंभाव्यते, केवलमसावनन्तवीर्यत्त्वान्न विह्वलीभवति, नचासौनिष्ठितार्थो निष्प्रयोजनमेव पीडामधिसहते, न च शक्यते वक्तुम्-एवंभूतमेव तस्य भगवतः शरीरं यदुत क्षुत्पीडान बाधते आहारमन्तरेण(च) वर्तते, यथा स्वभावेनैवप्रस्वेदादिरहितमेवं प्रक्षेपाहाररहितमित्येतचाप्रमाणकत्वादपकर्णनीयम्।
अपिच केवलोत्पत्तेः प्राग्भुक्तैरभ्युपगमारकेवलोत्पत्तावितदेवीदारिकंशरीरमाहाराद्युपसंस्कार्यम्, अथान्यथाभावः कैश्चिदुच्यते असावपि युक्तिरहितत्वादभ्युपगममात्र एवेति। तदेवं देशोनपूर्वकोटिकालस्य केवलिस्थितेः संभवादीदारिकशरीरस्थितेश्च यथाऽऽयुष्कं कारणमेवं प्रक्षेपाहारोऽपि, तथाहि-तैजसशरीरेण मृदूकृतस्याभ्यवहृतस्य द्रव्यस्य स्वपर्याप्तया परिणामितस्योत्तरोत्तरपरिणामक्रमेणौदारिकशरीरिणामनेन प्रकारेण क्षुदुद्भवो भवति।
वेदनीयोदये सति, इयं च सामग्री सर्वापि भगवति केवलिनि संभवति, तत्किमर्थमसौन भुङ्कते?, नच धाति चतुष्टयस्य सहकारिकारणभावोऽस्ति येन तदभावात्तदभाव इत्युच्यते। तदेवं संसारस्था जीवा विग्रहगतौ जघन्येनैकं समयं उत्कृष्टतः समयत्रयं भवस्थकेवली च समुदघातावस्थः समयत्रयमनाहारकः शैलेश्यवस्थायां त्वन्तर्मुहूर्त, सिद्धास्तु सादिकमपर्यन्तं कालमनाहारका इति स्थितं । नि. [१७७] जोएण कम्मएणं आहारेई अनंतरं जीवो ।
तेण परं मीसेणं जाव सरीरस्स निष्पत्ती॥ वृ. साम्प्रतं प्रथमाहारग्रहणं येन शरीरेण करोति तद्दर्शयति-ज्योति-तेजस्तदेव तत्र वा भवं तैजसं तेन कार्मणेन चाहारयति, तैजसकामणे हि शरीरे आसंसारभाविनी, ताभ्यामेव चोत्पत्तिदेशंगताजीवाःप्रथमाहारंकुर्वन्ति, ततः परमौदारिकमिश्रेण वैक्रियमिश्रेण वायावच्छरीरं निष्पद्यते तावदाहारयन्ति, शरीरनिष्पत्ती त्वौदारिकेण वैक्रियेण वाऽऽहारयन्तीति स्थितम् ।। साम्प्रतं परिज्ञानिक्षेपार्थमाह -
तत्र नामस्थापनाद्रव्यभावभेदात्परिज्ञा चतुर्धा, तत्रापि नामस्थापने क्षुण्णत्वादनाध्त्य द्रव्यपरिज्ञांप्रतिपादयन् गाथापश्चार्द्धमाह-'द्रव्यपरिक्षेतिद्रव्यस्यद्रव्येण वापरिज्ञा द्रव्यपरिज्ञा, साच परिच्छेद्यद्रव्यप्राधान्यात्तस्य च सचित्ताचित्तमिश्रभेदेन वैविध्यात्रिविधेति। भावपरिज्ञाऽपि ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभेदेन द्विविधेति, शेषस्त्वागमनोआगमज्ञशरीरभव्यशरीरव्यतिरिक्तादिको विचारःशस्त्रपरज्ञावद्रष्टव्यः ।गता निक्षेपनियुक्ति, अधुना सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तञ्चेदम्
मू. (६७५) सुयंमेआउसंतेणंभगदया एवमक्खायं इह खलुआहारपरिण्णाणा-मज्झयणे, तस्स णं अयमढे-इह खलु पाईणं वा ४ सव्वती सव्वावंति च णं लोगसि चत्तारि बीयकाया एवमाहिजंति।
___ तंजहा-अग्गबीया मलबीया पोरबीया खंधबीया, तेसिं च णं अहाबीएणं अहावगासेणं इहेगतियासत्ता पुढवीजोणिया पुढवीसंभवा पुढवीवुक्कमातजोणियातस्संभवातदुवकमाकम्मोवगा कम्मनियाणेणं तत्थवुकमा नानाविहजोणियासु पुढवीसु पुढवीसु रुक्खत्ताए विउद्देति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org